तुल्यनिन्दास्तुतिर्मौनी...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(12.19 तुल्यनिन्दास्तुतिः…. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् ।
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥ १९ ॥

अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य नवदशः (१९) श्लोकः ।

पदच्छेदः[सम्पादयतु]

तुल्यनिन्दास्तुतिः मौनी सन्तुष्टः येन केनचित् अनिकेतः स्थिरमतिः भक्तिमान् मे प्रियः नरः ॥ १९ ॥

अन्वयः[सम्पादयतु]

शत्रौ च मित्रे च समः तथा मानापमानयोः शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः तुल्यनिन्दास्तुतिः मौनी येन केनचित् सन्तुष्टः अनिकेतः स्थिरमतिः भक्तिमान् नरः मे प्रियः ।

शब्दार्थः[सम्पादयतु]

शत्रौ च = अरौ च
मित्रे च = वयस्ये च
समः = समानः
तथा = एवम्
मानापमानयोः = पूजातिरस्कारयोः
शीतोष्णसुखदुःखेषु = द्वन्द्वेषु
समः = समानः
सविवर्जितः = विषयसरहितः
तुल्यनिन्दास्तुतिः = दूषणश्लाघनयोः समानः
मौनी = नियतवाक्
येन केनचित् = येन केनापि लाभेन
सन्तुष्टः = सन्तृप्तः
अनिकेतः = अनिवासः
स्थिरमतिः = निश्चलमनस्कः
भक्तिमान् नरः = भक्तः पुरुषः
मे प्रियः = मम इष्टः ।

अर्थः[सम्पादयतु]

अरौ च मित्रे च समानः तथा पूजातिरस्कारयोः शीतोष्णयोः सुखदुःखयोश्च समानः, विषयासक्तिरहितः, दूषणश्लाघनयोः समानः, नियतवाक्, येन केनापि फलेन सन्तृप्तः, अनिवासः, निश्चलमनस्कः भक्तः मम इष्टः ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]