यथा सर्वगतं सौक्ष्म्याद्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(13.32 यथा सर्वगतं. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ।
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥ ३२ ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य द्वात्रिंशत्तमः(३२) श्लोकः ।

पदच्छेदः[सम्पादयतु]

यथा सर्वगतं सौक्ष्म्यात् आकाशं न उपलिप्यते सर्वत्र अवस्थितः देहे तथा आत्मा न उपलिप्यते ॥ ३२ ॥

अन्वयः[सम्पादयतु]

यथा सर्वगतम् आकाशं सौक्ष्म्यात् न उपलिप्यते तथा सर्वत्र देहे अवस्थितः आत्मा न उपलिप्यते ।

शब्दार्थः[सम्पादयतु]

सर्वगतम् = सर्वव्यापि
सौक्ष्म्यात् = असम्बद्धत्वात्
सर्वत्र = सर्वतः
अवस्थितः = विद्यमानः ।

अर्थः[सम्पादयतु]

यथा आकाशः पादिषु पुष्पादिषु च वर्तमानः असत्वात् न तद्गतेन दोषेण गुणेन वा सम्बध्यते तथा आत्मा अपि प्रकृष्टे निकृष्टे वा शरीरे वर्तमानः न तद्गतेन दोषेण गुणेन वा सम्बध्यते ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]



सम्बद्धाः लेखाः[सम्पादयतु]