क्षेत्रक्षेत्रज्ञयोरेवम्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(13.34 क्षेत्रक्षेत्रज्ञयोरेव. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ।
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ ३४ ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य चतुस्त्रिंशत्तमः(३४) श्लोकः ।

पदच्छेदः[सम्पादयतु]

क्षेत्रक्षेत्रज्ञयोः एवम् अन्तरं ज्ञानचक्षुषा भूतप्रकृतिमोक्षं च ये विदुः यान्ति ते परम् ॥ ३४ ॥

अन्वयः[सम्पादयतु]

एवं ज्ञानचक्षुषा क्षेत्रक्षेत्रज्ञयोः अन्तरं भूतप्रकृतिमोक्षं च ये विदुः ते परं यान्ति ।

शब्दार्थः[सम्पादयतु]

ज्ञानचक्षुषा = ज्ञाननेत्रेण
क्षेत्रक्षेत्रज्ञयोः = शरीरात्मनोः
अन्तरम् = वैलक्षण्यम्
भूतप्रकृतिमोक्षम् = अविद्यानाशम्
विदुः = विदन्ति
परम् = परं ब्रह्म ।

अर्थः[सम्पादयतु]

एवम् आत्मशरीरयोः भेदं ज्ञाननेत्रेण ये विदन्ति, या इयं भूतानां प्रकृतिः ततः मोक्षं च ये विदन्ति ते परं ब्रह्म उपयान्ति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]