मां च योऽव्यभिचारेण...
दिखावट
(14.26 मां च योऽव्यभिं….. इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- मां च योऽव्यभिचारेण भक्तियोगेन सेवते ।
- स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥ २६ ॥
अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य षड्विंशतितमः(२६) श्लोकः ।
पदच्छेदः
[सम्पादयतु]मां च यः अव्यभिचारेण भक्तियोगेन सेवते सः गुणान् समतीत्य एतान् ब्रह्मभूयाय कल्पते ॥ २६ ॥
अन्वयः
[सम्पादयतु]यः च अव्यभिचारेण भक्तियोगेन मां सेवते सः एतान् गुणान् समतीत्य ब्रह्मभूयाय कल्पते ।
शब्दार्थः
[सम्पादयतु]- अव्यभिचारेण = व्यभिचारहितेन
- भक्तियोगेन = भक्तिसाधनेन
- समतीत्य = समतिक्रम्य
- ब्रह्मभूयाय = मोक्षाय
- कल्पते = अर्हति ।
अर्थः
[सम्पादयतु]यः मानवः व्यभिचाररहितेन भक्तिसाधनेन च मां भजते सः मानवः एतान् गुणान् समतिक्रम्य मोक्षे समर्थो भवति ।