मम योनिर्महद्ब्रह्म...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(14.3 मम योनिर्महदब्रह्म….. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् ।
सम्भवः सर्वभूतानां ततो भवति भारत ॥ ३ ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य तृतीयः(३) श्लोकः ।

पदच्छेदः[सम्पादयतु]

मम योनिः महत् ब्रह्म तस्मिन् गर्भं दधामि अहम् सम्भवः सर्वभूतानां ततः भवति भारत ॥ ३ ॥

अन्वयः[सम्पादयतु]

भारत ! मम योनिः महत् ब्रह्म । तस्मिन् अहं गर्भं दधामि । ततः सर्वभूतानां सम्भवः भवति ।

शब्दार्थः[सम्पादयतु]

योनिः = गर्भाधानस्थानम्
महत् = विस्तृतम्
ब्रह्म = प्रकृतिः
गर्भम् = सल्परूपं बीजम्
दधामि = निक्षिपामि
ततः = तस्मात्
सर्वभूतानाम् = सकलजन्तूनाम्
सम्भवः = प्रभवः ।

अर्थः[सम्पादयतु]

भारत ! या इयम् अत्यन्तं महती प्रकृतिः वर्तते सा वृद्धिहेतुत्वात् ब्रह्म इत्युच्यते । सा प्रकृतिः मम गर्भाधानस्थानम् । तत्र अहं बहु स्याम्’ इत्येवंरूपं सल्पं निक्षिपामि । तेन सर्वेषामपि भूतानाम् उत्पत्तिः भवति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मम_योनिर्महद्ब्रह्म...&oldid=418708" इत्यस्माद् प्रतिप्राप्तम्