2.28 योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिरा विवेकख्यातेः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


सूत्रसारः[सम्पादयतु]

व्यासभाष्यम्[सम्पादयतु]

सिद्धा भवति विवेकख्यातिर्हानोपाय इति । न च सिद्धिरन्तरेण साधनमित्येतदारभ्यते—

योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिरा विवेकख्यातेः ॥२८॥

योगाङ्गान्यष्टावभिधायिष्यमानानि । तेषामुष्ठानात्पञ्चपर्वणो विपर्यस्याशुद्धिरूपस्य क्षयो नाशः । तत्क्षये सम्यग्ज्ञानस्याभिव्यक्तिः । यथा यथा च साधनान्यनुष्ठीयन्ते, तथा तथा क्षयक्रमानुरोधिनी ज्ञानस्यापि दीप्तिर्विवर्धते । सा खल्वेषा विवृद्धिः प्रकर्षमनुभवत्याविवेकख्यातेः, आ गुणपुरुषस्वरूपविज्ञानादित्यर्थः । योगाङ्गानुष्ठानमशुद्धेर्वियोगकारणम् । यथा परशुश्छेद्यस्य । विवेकख्यातेस्तु प्राप्तिकारणं यथा धर्मः सुखस्य, नान्यथा कारणम् ।

कति चैतानि कारणानि शास्त्रे भवन्ति ? नवैवेत्याह—

उत्पत्तिस्थित्यभिव्यक्तिविकारप्रत्ययात्ययः । वियोगान्यत्वधृतयः कारणं नवधा स्मृतम् ॥ इति ।

  1. तत्रोत्पत्तिकारणं मनो भवति विज्ञानस्य ।
  2. स्थितिकारणं मनसः पुरुषार्थता शरीरस्येवाहार इति ।
  3. अभिव्यक्तिकारणं यथा रूपस्यालोकस्तथा रूपज्ञानम् ।
  4. विकारकारणं मनसो विषयान्तरम्, यथाग्निः पाक्यस्य ।
  5. प्रत्ययकारणं धूमज्ञानमग्निज्ञानस्य ।
  6. प्राप्तिकारणं योगाङ्गानुष्ठानं विवेकख्यातेः ।
  7. वियोगकारणं तदेवाशुद्धेः ।
  8. अन्यत्वकारणं, यथा सुवर्णस्य सुवर्णकारः । एवमेकस्य स्त्रीप्रत्ययस्याविद्या मूढत्वे, द्वेषो दुःखत्वे, रागः सुखत्वे, तत्त्वज्ञानं माध्यस्थ्ये ।
  9. धृतिकारणं शरीरमिन्द्रियाणाम् । तानि च तस्य । महाभूतानि शरीराणाम् । तानि च परस्परं सर्वेषाम् । तैर्यग्यौनमानुषदैवतानि च परस्परार्थत्वादिति ।

एवं नवकारणानि । तानि च यथासम्भवं पदार्थान्तरेष्वपि योज्यानि । योगाङ्गानुष्ठानं तु द्विधैव कारणत्वं लभत इति ॥२८॥

सम्बद्धाः लेखाः[सम्पादयतु]

योगदर्शनम्

पतञ्जलिः

अष्टाङ्गयोगः

अन्ताराष्ट्रिययोगदिवसः

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]

पतञ्जलियोगसूत्रम्

योगसूत्राणि शृण्वन्तु

आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine

स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine