3.50 तद्वैराग्यादपि दोषबीजक्षये कैवल्यम्
दिखावट

सूत्रसारः
[सम्पादयतु]व्यासभाष्यम्
[सम्पादयतु]यदास्यैवं भवति क्लेशकर्मक्षये सत्त्वस्यायं विवेकप्रत्ययो धर्मः । सत्त्वं च हेयपक्षे न्यस्तं पुरुषश्चापरिणामी शुद्धोऽन्यः सत्त्वादिति । एवमस्य ततो विरज्यमानस्य यानि क्लेशबीजानि दग्धशालिबीजकल्पान्यप्रसवसमर्थानि तानि सह मनसा प्रत्यस्तं गच्छन्ति । तेषु प्रलीनेषु पुरुषः पुनरिदं तापत्रयं न भुङ्क्ते । तदेतेषां गुणानां मनसि कर्मक्लेशविपाक—स्वरूपेणाभिव्यक्तानां चरितार्थानां प्रतिप्रसवे पुरुषस्यात्यन्तिको गुणवियोगः कैवल्यम् । तदा स्वरूपप्रतिष्ठा चितिशक्तिरेव पुरुष इति ॥५०॥
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]![]() |
विकिस्रोतसि 3.50 तद्वैराग्यादपि दोषबीजक्षये कैवल्यम्-सम्बन्द्धाः बहवः मूलग्रन्थाः विद्यन्ते । |
- http://sanskritdocuments.org/doc_yoga/bhojavritti.html?lang=hi
- http://www.gitasupersite.iitk.ac.in/yogasutra_content?language=dv&field_chapter_value=1&field_nsutra_value=1&enable_sutra=1&enable_bhaysa=1&enable_vritti=1
- https://www.youtube.com/watch?v=uUmg-2Y6KcM
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine
स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine