सामग्री पर जाएँ

4.24 तदसंख्येयवासनाचित्रमपि परार्थं संहत्यकारित्वात्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


पतञ्जलिः

सूत्रसारः

[सम्पादयतु]

व्यासभाष्यम्

[सम्पादयतु]

कुतश्चैतत्? तदेतच्चित्तमसंख्येयाभिर्वासनाभिरेव चित्रीकृतमपि परार्थं परस्य भोगापवर्गार्थं, न स्वार्थं संहत्यकारित्वात्गृहवत। संहत्यकारिणा चित्तेन न स्वार्थेन भवितव्यम् । न सुखचित्तं सुखार्थं, न ज्ञानं ज्ञानार्थमुभयमप्येतत्परार्थम् । यश्च भोगेनापवर्गेण चार्थेनार्थवान्पुरुषः । स एव परो न परः सामान्यमात्रम् । यत्तु किञ्चित्परं सामान्यमात्रं स्वरूपेणोदाहरेद्वैनाशिकस्तत्सर्वं संहत्यकारित्वात्परार्थमेव स्यात। यस्त्वसौ परो विशेषः स न संहत्यकारी पुरुष इति ॥२४॥

सम्बद्धाः लेखाः

[सम्पादयतु]

योगदर्शनम्

पतञ्जलिः

अष्टाङ्गयोगः

अन्ताराष्ट्रिययोगदिवसः

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

उद्धरणम्

[सम्पादयतु]

अधिकवाचनाय

[सम्पादयतु]

पतञ्जलियोगसूत्रम्

योगसूत्राणि शृण्वन्तु

आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine

स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine