सामग्री पर जाएँ

तक्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Butter Milk इत्यस्मात् पुनर्निर्दिष्टम्)
चषकद्वये पानार्थं सज्जीकृतं तक्रम्
पुरातनकालस्य दधिमथनस्य चित्रम्
यन्त्रेण दधिमथनम्
पानार्थं सिद्धं गन्धद्रव्ययोजितं तक्रम्

भूलोकस्य अमृतम् इति प्रसिद्धम् अस्ति तक्रम् । एतत् तक्रम् आङ्ग्लभाषायां Butter milk इति उच्यते । इदम् अपि आहारपदार्थः न सस्यजन्यः अपि तु प्राणिजन्यः । तथापि इदम् अमृतसमानम् इति उच्यते । देवलोके सुखार्थं देवैः यथा अमृतं पीयते तथा भूलोके तक्रम् इति उक्तवन्तः सन्ति अस्माकं पूर्वजाः ।

“यथा सुराणाम् अमृतं सुखाय ।
तथा नराणां भुवि तक्रमस्ति ॥“ इति ।

दध्नः मथनेन प्राप्यमाणं घनरूपं नवनीतं पृथक् कुर्मः चेत् अवशिष्टं द्रवम् एव तक्रम् इति उच्यते । तक्रं यथा आहारत्वेन उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । “भोजनान्ते च तक्रं पथ्यम्” इति वदन्ति । भूरिभोजनं कृत्वा अन्ते तक्रं सेवन्ते चेत् अजीर्णं न भवति । “तक्रं शक्रस्य दुर्लभम्” इति एकं वाक्यम् अस्ति । तन्नाम् देवलोकस्य इन्द्रस्य (शक्रः) अपि दुर्लभं तक्रं मनुष्यलोके अस्माभिः मानवैः प्राप्तम् अस्ति । तत् अस्माकं सौभाग्यम् । रुच्यनुगुणं तक्रं द्विधा विभक्तम् अस्ति – मधुरतक्रम्, आम्लतक्रं च इति । एतद्विना यथा दुग्धे शास्त्रकाराः अष्टविधं दुग्धं, तेषाम् उपयोगं च वदन्ति तथैव तेषाम् अष्टानां प्राणिनां दुग्धस्य तक्रम् अपि भवितुम् अर्हति ।

भोजनान्ते सर्वै: उपयुज्यमानं तक्रम् उदरक्रिमिनाशकम्, लघु, जठराग्निदीपकं, ग्रहणी - इत्यादि रोगनिवारकं च भवति । नेत्ररोगिणां कृते गोतक्रं पथ्यं भवति । आयुर्वेदे ‘तक्रारिष्टम्’ इति विशिष्ट: योग: अपि निर्मीयते ।

निष्पावसदृशानां शाकसस्यानां सुलभम्लानतानिवारणार्थं तेषां बीजानां कृषिक्षेत्रे वपनात् पूर्वं तानि बीजानि 24 घण्टा: यावत् तक्रे निमज्य स्थापनीयानि ।


आयुर्वेदस्य अनुसारम् अस्य तक्रस्य स्वभावः

[सम्पादयतु]

तक्रं पचनार्थं लघु । कषायमिश्रित-आम्लरसः तक्रस्य । एतत् तक्रं जीर्णक्रियाम् अधिकां करोति । रुचिं वर्धयति च । घृतस्य सेवनेन सञ्जातम् अजीर्णं दूरीकरोति । विषं, रक्ताभावं च निवारयति तक्रम् । ग्रहिणीदोषं, मूलव्याधिं, मूत्रदोषं च शमयति अपि ।

“तक्रं लघु कषायाम्लं दीपनं कफवातजित् ।
शोपोदरार्शोग्रहिणीदोषमूत्रग्रहा रुचिः ॥
प्लीहगुल्मघृतव्यापत्-गरपाण्ड्वामयान् जयेत् ॥“ (वाग्भटसूत्रे ५-३४)
१. अस्माकं शरीरे विद्यमानेषु सप्तधातुषु तक्रं रक्तधातुवर्धकम् अस्ति ।
२. पित्तप्रधनाः रोगिणः, पित्तप्रकृतियुक्ताः च मधुरतक्रम् अथवा तक्रे शर्करां योजयित्वा उपयोक्तुम् अर्हन्ति ।
३. वातप्रकृतियुक्ताः, वातप्रधानाः रुग्णाः च आम्लतक्रे सैन्धवं लवणं योजयित्वा उपयोक्तुम् अर्हन्ति ।
४. कफप्रधानाः रोगिणः, कफप्रकृतियुक्ताः च तक्रे शुण्ठीं, मरीचं, वा अथवा क्षारद्रव्यं किमपि योजयित्वा क्वथयित्वा अथवा तथैव उपयोक्तुम् अर्हन्ति ।
५. उदरसम्बद्धेषु रोगेषु तक्रे जीरिकां, हिङ्गुं, शर्करां, गुडम् अथवा शुण्ठीं योजतिय्वा पातव्यम् ।
६. अनिद्रतायां, रक्तसम्बद्धेषु रोगेषु च तक्रं हितकरम् ।
७. अभ्यङ्गरूपेण शिरसः उपरि अथवा ललाटस्य उपरि धारारूपेण वा तक्रं स्थापयामः चेत् शिरसः सम्बद्धाः रोगाः अपगच्छन्ति ।
८. जीर्णाङ्गानां विकृतेः कारणतः जाते ग्रहिणीरोगे, मूलव्याधौ च तक्रं सदा पथ्यम् ।
९. आतपे आगतानां, दुर्बलानां, मूर्छारोगिणां, शिरोभ्रमणे, रक्तस्रावसम्बद्धेषु रोगेषु तक्रस्य उपयोगः निषिद्धः अस्ति ।
१०. शीतकाले, शीतरोगिणम् अपि तक्रम् अपथ्यम् । वातरोगोणां केवलं तक्रम् अत्युत्कृष्टं पथ्यम् ।
११. मधुरतक्रं कफवर्धकं पित्तशामकं च । आम्लतक्रं वातहरं, पित्तजनकं च । एतावत्पर्यन्तम् उक्ताः एते सर्वे गुणाः दोषाः वा धेनोः दुग्धेन निर्मितस्य तक्रस्य ।
१२. महिष्याः दुग्धस्य तक्रं शीतं, कफवर्धकं च ।

तक्रविषयकाणि पद्यानि

[सम्पादयतु]

भोजनान्ते च किं पेयं जयन्तः कस्य वै सुतः
कथं विष्णुपदं प्रोक्तं तक्रं शक्रस्य दर्लभम् ॥

घृतं च श्रूयते कर्णे दधि स्वप्नेऽपि दुर्लभम् ।
मुग्धे दुग्धस्य का वार्ता तक्रं शक्रस्य दुर्लभम् ॥

अमृतं दुर्लभं नॄणां देवानामुदकं तथा ।
पितॄणां दुर्लभः पुत्रः तक्रं शक्रस्य दुर्लभम् ॥

अक्रत्वर्थामिति ज्ञात्वा शक्रो न हुतवान्पुरा ।
नादत्तमिति शास्त्रार्थात् तक्रं शक्रस्य दुर्लभम् ॥

क्षीरेण दग्धजिह्वस्तक्रं फूत्कृत्य पामरः पिबति ।
दम्भिनमवलोक्य जनस्तद्वन्मां शङ्कते त्वया त्यक्तम् ॥

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=तक्रम्&oldid=468659" इत्यस्माद् प्रतिप्राप्तम्