हिमाचलप्रदेशराज्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Himachal Pradesh इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
हिमाचलप्रदेशराज्यम्
राज्यम्
भारतस्य भूपटे हिमाचलप्रदेशराज्यम्
भारतस्य भूपटे हिमाचलप्रदेशराज्यम्
हिमाचलप्रदेशराज्यस्य भूपटः
हिमाचलप्रदेशराज्यस्य भूपटः
Country भारतम्
उगमः २५ जनेवरी १९२७
राजधानी शिमला
Largest city शिमला
Districts
Government
 • Governor आचार्य देवव्रतः
 • Chief Minister जयराम ठाकुरः
 • Legislature Unicameral(68 seats)
 • Parliamentary constituency 4
 • High Court Himachal Pradesh High Court
Area
 • Total ५५,६७३
Area rank 17th
Elevation २,३१९
Population (2011)
 • Total
 • Rank 20th
 • Density १२३
Time zone IST (UTC+05:30)
ISO 3166 code IN-HP
HDI increase 0.652 (medium)
HDI rank 3rd (2011)
Literacy 83.78%
अधिकृताः भाषाः हिन्दीभाषा पहाड़ी पञ्जाबीभाषा
Website himachal.nic.in

हिमाचलप्रदेशराज्यम् (Himachal Pradesh) भारतस्‍य उत्तरभागे विद्यमानं किञ्चन राज्यम् । अस्य राज्यस्य राजधानी शिमला अस्ति । अस्मिन् प्रदेशे द्वादश जनपदाः सन्ति । अस्य क्षेत्रविस्तीर्णं ५५६७३व.कि.मी. । अधिकमस्ति हिमाचलप्रदेशः देवभूमिः इति नाम्ना अपि प्रसिद्धः । क्षेत्रे अस्मिन् आर्याणां प्रभावः ऋग्वेदकालादपि पुरातनः वर्तते । आङ्ग्लगोरखायुद्धात् परमिदं राज्यम् आङ्ग्लेयौपनिवेशकसर्वकारस्य अधीनं जातम् । सा.श. १९४८ तमवर्षस्य एप्रिल् मासस्य १५तमे दिने हिमाचलप्रदेशस्य उद्घोषणम् अभवत् । एतत् राज्यं समुद्रस्तरात् ४५० तः ६५००मी. परिमिते औन्नत्ये वर्तते ।

शिमला (गिरिधाम)[सम्पादयतु]

पूर्वम् अस्य नगरस्य श्यामला इति नाम आसीत् । आङ्ग्लेयानां प्रशासनसमये शिम्ला ग्रीष्मकालीना राजधानी आसीत् । इदानीं हिमाचलप्रदेशस्य राजधानी शिमला सुन्दरं गिरिधाम इति अतिप्रसिद्धम् अस्ति । "Queen of hills, Jewel of the orient" इति च प्रसिद्धम् अस्ति । सागरस्तरतः ७२६२ पादोन्नते प्रदेशे शीतलवातावरणे एतन्नगरम् अस्ति । अत्र बहवः विदेशीयाः आगन्तुम् इच्छन्ति । अत्र पैन् देवदारु ओक् इत्यादिवृक्षाः अतीव सुन्दराः सन्ति । प्रकृतेः सुन्दररुपं दृष्टुम् एतत् स्थलम् अतीव उत्तमम् अस्ति । (Mall) माल् मार्गः वाणिज्यकेन्द्रम् अस्ति । जाकुपर्वतः (८०० पादमितः), चाडलुक् जलपातः, कुफ्रि, नालदेहरा, चैल, प्रास्टेक् हिल्स् इत्यादिस्थानानि दर्शनीयानि आकर्षकाणि स्थानानि सन्ति । जाकुपर्वततः हिमालयदर्शनम् अतीवानन्ददायकं भवति । चाड्लुक् सरोवरे नौकाविहारः काल्पितः अस्ति । कुफ्रिस्थाने हिमक्रीडा प्रसिद्धा अस्ति । ग्रीष्मकाले याक् प्राणिनः उपरि उपविश्य प्रवासं कुर्वन्ति । नालदेहरास्थाने (२२ कि.मी) गाल्फ् क्रीडाङ्गणम् अस्ति । चैल् नदी पर्वतप्रपाते प्रवहति । प्रास्टेकहिल्स् (५ कि.मी) सूर्यास्तदर्शनाय, चन्द्रोदयदर्शनाय च प्रसिद्धं स्थानमस्ति । नालदेहराप्रदेशे क्रिकेट् क्रीडाङ्गणम् अस्ति । अत्र वस्तुसङ्ग्रहालयः अपि अस्ति । राजानः महाराजाः अङ्गलाः च अत्र क्रिकेट् क्रीडन्ति स्म ।

भाक्राजलबन्धः[सम्पादयतु]

भारतसर्वकारस्य बृहत् रचनाकार्येषु विविधोद्देशयोजनासु एषः जलबन्धः अपि अन्यतमः अस्ति । सत्लज्नद्याः मार्गे एषः जलबन्धः अतीवव्ययेन निर्मितः अस्ति । पञ्जाबराज्ये जलसेचनकार्यार्थं ७४० पादोन्नतः जलबन्धः निर्मितः अस्ति । अनेन कृषिकार्ये महानुपकारः अभवत् । रात्रौ अत्र दीपालङ्कारं कुर्वन्ति । सायङ्काले वर्णमयदीपप्रकाशे अत्र अतीवसुन्दरं दृश्यं भवति ।

विमानमार्गः[सम्पादयतु]

देहलीश्रीनगरचण्डीगढनगरेभ्यः विमानसम्पर्कः अस्ति । विमाननिस्थानं २५ कि.मी दूरे अस्ति ।

धूमशकटमार्गः[सम्पादयतु]

काल्का-शिम्लान्यारोगेज् धूमशकटमार्गे (९६ कि.मी) विशेषधूमशकटयानं गच्छति । प्रवासकालः अतीवमन्दः,तन्नाम षट् घण्टात्मकः अस्ति । प्रवाससमये उभयतः अपि दृश्याणि अतीव सुन्दराणि सन्ति ।

वाहनमार्गः[सम्पादयतु]

चण्डीगढतः ११७ कि.मी । मनालीतः २८० कि.मी, देहलीतः ३८० कि.मी । वसत्यर्थम् आहारवसतिगृहाणि सन्ति ।

कालः[सम्पादयतु]

एप्रिल् मासतः अक्टोबरमासपर्यन्तम् अत्र आगमनाय उत्तमः कालः भवति । शीतकाले अतीव शैत्यं भवति ।

कुलुप्रपातः[सम्पादयतु]

पूर्वम् अस्य स्थानस्य "कुलन्तपित" इति नाम आसीत् । अस्य अर्थः The end of the habitable world इति । हिमालयस्य उन्नतस्थले १२१९ मीटर् उन्नतस्थाने स्थितं पर्वतस्थानम् एतत् । बियास्(व्यासनदी)नदीतीरे स्थितम् एतत् स्थानं मण्डलकेन्द्रमस्ति । अत्र फलवाटिकाः पैनवृक्षाः च अतीव सुन्दराः सन्ति । पर्वतारोहणं पादचारणं मीनानां ग्रहणं च अत्र मनोरञ्जनार्थं क्रीडारुपेण च जनानां कार्याणि सन्ति । एतस्य Silver Village इति अपि नाम वर्तते । कुलुप्रदेशे दसरामहोत्सवं वैभवेण आचरन्ति । तदा जनाः काहलानि, तालवाद्यानि, शृङ्गवाद्यानि च गृहीत्वा स्थानीयदेवतायाः यात्रां कुर्वन्ति । प्रमुखाय देवाय रघुनाथाय वन्दनानि अर्पयन्ति । इतः बिजलीमहादेवमन्दिरस्य दर्शनमपि कर्तुं शक्यते । नग्गर (२४ कि.मी) मणिकर्ण (४५ कि.मी) इतरदर्शनीयस्थानानि सन्ति । मणिकर्णप्रदेशे उष्णजलनिर्झराणि सन्ति । नग्गर् पत्तनं पूर्वं राजधानी आसीत् । अस्मिन् दुर्गे राज्ञः निवासः प्रशासनम् इत्यादिकम् आसीत् । दुर्गसमीपे चतुर्भुजविष्णुदेवालयः, त्रिपुरसुन्दरीदेवालयः मुरलीधरकृष्णमन्दिरं च आकर्षकाणि सन्ति । शिवदेवालयः ११ शतके निर्मितः अस्ति ।

मार्गः[सम्पादयतु]

शिम्लातः २३५ कि.मी ।

मनाली (प्रपातनगरम्)[सम्पादयतु]

‘मनु’ इति शब्दतः मनाली इति नाम आगतम् अस्ति । पुराणानुसारं प्रलयकाले मनुमहर्षिः सप्तर्षिभिः सह अत्र नौकया आगतवान् । प्रपाते यदा जलं पूर्णमभवत् तदा उन्नते प्रदेशे स्थितवान् । अनन्तरं पुनः नवसृष्टिं कृतवान् । एकां नदीम् अत्रैव त्यक्त्वा गतवान् सा नदी मानरलु इति प्रसिद्धा अस्ति । मनालीप्रदेशे मनुमहर्षेः मन्दिरम् अस्ति । अत्र स्थितः हिडिम्बादेवालयः धुङ्ग्रिटेम्पल् नाम्ना ख्यातम् अस्ति । वसिष्ठगुहा इति स्थाने उष्णजलनिर्झरः अस्ति । जगत्सुख (६ कि.मी), अर्जुनगुम्फ्(गुहा), नेहरुगुम्फ, सोलाङ्ग्, उपत्यका (१४. कि.मी) रोहताङ्ग्पास् (५६कि.मी) इत्यादिस्थानानि दर्शनीयानि सन्ति । बियास्नद्याः शिलासु प्रवहणदृश्यं मनमोहकमस्ति । हिमपर्वतेभ्यः पर्वतशिखराणां दर्शनं मनालीप्रदेशस्य वैशिष्ठयम् अस्ति । मनालीस्थाने शीतकाले ग्रीष्मकाले च विविधाः क्रीडाः प्रचलन्ति । स्कीयिङ्ग्, हेलीस्कीयिङ्ग् मौण्टेनियरिङ्ग्, कियाकिङ्ग्, हैकिङ्ग् इत्यादयः । युवजनानां जनप्रियं ‘हनिमून् प्लेस्’(मधुचन्द्रस्थानम्) विवाहानन्तरीयप्रवासस्थानम् इति अस्य प्रसिद्धिः अस्ति ।

मार्गः[सम्पादयतु]

शिमलातः २३५ कि.मी ।

विमाननिस्थानम्[सम्पादयतु]

भुन्तार् इति

धूमशकटनिस्थानम्[सम्पादयतु]

चण्डीगढ समीपनिस्थानम् ।

वाहनमार्गः[सम्पादयतु]

जोगिन्दरनगरतः ४५ कि.मी । पठानकोटतः २८५ कि.मी । धर्मशालातः २१४ कि.मी । चण्डीगढतः ५१२ कि.मी । वसत्यर्थम् अनेकानि आहारवसतिगृहाणि सन्ति ।

काल्का-शिम्लाधूमशकटयानम्( K.S.R. Train)[सम्पादयतु]

शिम्लानगरं ये गच्छन्ति ते एतस्य विशिष्टस्य धूमशकटयानस्य प्रयाणम् अवश्यं स्मरन्ति । एतत् धूमशकटयानं सावधानेन गच्छत् ९६ कि.मी गमनाय षड्घण्टात्मकं समयं स्वीकरोति । पर्वतप्रदेशे वक्रमार्गे अस्य यानस्य गत्यर्थं न्यारोगेज् मार्गः निर्मितः अस्ति । क्रिस्ताब्दे १९०३ तमे वर्षे लार्ड कर्जन् नामकः आङ्गलाधिकारी एतत् यानम् आरब्धवान् । अस्मिन् याने प्रयाणसमये मनः उल्लसितं भवति । रोमाञ्चकारी अनुभवः अत्र भवति । शिवालिक् पर्वतप्रदेशे अस्य गमनम् अपूर्वम् अस्ति । चण्डीगढसमीपे स्थितात् काल्कानगरतः प्रयाणस्य आरम्भः भवति । सागरस्तरतः काल्कानगरं २२०० पादोन्नते स्थलेऽस्ति । ततः शिम्ला प्रति ७२६२ पादोन्नतं प्रदेश वक्रमार्गेण गच्छति । धूमशकटमार्गे अष्टादशनिस्थानानि सन्ति । सुरङ्गाः १०३ सङ्ख्याकाः, सेतवः ९८८ सन्ति । बारोगटनल् सुरङ्गमार्गः ३७५२ पादमितदीर्घः अस्ति । सेतवः इष्टिकाभिः निर्मिताः सन्ति । धूमशकटप्रयाणम् आह्लादकरं सुरक्षितं च अस्ति । मार्गे सेवफलवृक्षाणां दर्शनं भवति । मार्गः यदि हिमावृतः भवति तदा स्नोकर् यन्त्रेण हिमम् निष्कासयन्ति । एतत् धूमशकटयानं विश्वे एव अतिविशिष्टमिति गिन्नीस् बुक् आफ् रैल् एण्ड् फ्याक्ट्स् इत्यत्र वर्णितम् अस्ति ।

मार्गः[सम्पादयतु]

चण्डीगढतः काल्का प्रति प्रयाणम् । काल्कातः K.S.R. Train

मणिकर्ण – Apple Land of India उष्णनिर्झरस्थान[सम्पादयतु]

हिमाचलप्रदेशराज्ये स्थितम् एतत् स्थानम् अनेकाश्चर्याणां अद्भुतस्थलमस्ति । उपरि वनभागे सवत्र भूप्रदेशे अतीव शीतलं वातावरणम् अस्ति । किन्तु अधः उष्णजलनिर्झराणि सन्ति । बदरीनाथः केदारनाथः इत्यादिप्रदेशेषु अपि एतादृशानि निर्झराणि सन्ति । हिमालयपर्वतश्रेण्यां पार्वतीप्रपाते दक्षिणभागे ४५ कि.मी गत्वा एतत् स्थान प्राप्तुं शक्यते । एतत् स्थानं अपूर्वम् अस्ति । एतस्य दर्शनार्थं यात्रिकाः विज्ञानिनः च कुलूहलेन आगच्छन्ति । अत्र पुराणकथा एवम् अस्ति । एकदा शिवः पार्वती च अत्र आगत्य स्थातुं निर्धारं कृतवन्तौ । निर्झरे स्नानं कर्तुं पार्वत्याः गमनसमये वस्त्रैः साकम् एकं वज्रं स्थापितवती । शेषनागः सर्पः तत् वज्रम् अपहृत्य भूमिं प्रविश्य पातालं गतवान् । पार्वती यदा स्नानं कृत्वा आगता तदा वज्रं न दृष्टवती । वज्रार्थं शिवं प्रार्थितवती । शिवः तृतीयं नयनम् उद्घाट्य वज्रं प्राप्तुम् इष्टवान् । शिवस्य तृतीयनयनस्य उद्घाटनेन विश्वं दग्घं भवति इति भीताः देवाः शोषनागं वज्रं समर्पयितुं प्रार्थितवन्तः । वज्रं प्राप्य पार्वती सन्तुष्टाभवत् । किन्तु शिवस्य कोपेन तत्रत्यं जलम् उष्णम् अभवत् । इदानीमपि तत्र जलम् अतीव उष्णम् एवास्ति । हिन्दवः सिक्खधर्मीयाः च अत्र यात्रार्थम् आगच्छन्ति । श्रीरामचन्द्रदेवालयः, सप्तस्तरीयं गुरुद्वारं च अत्र निर्मितानि सन्ति । सदा अत्र गुरुग्रन्थसाहेबस्य पठनं प्रचलति । सायं वाद्यैः साकं भजनं प्रचलति । अत्रत्यजले उष्णता९४.५ सेण्टिग्रेड भवति । तेन जलेनैव स्नानं भोजनं चायकरणं च अत्र भवन्ति । अनेन जलेन चर्मव्याधिः अपगता भवति । अत्र आगन्तु अतीव श्रमः अनिवार्यः अस्ति । सन्धाकालिका पूजा अत्र विशिष्टा ।

धूमशकटमार्गः[सम्पादयतु]

पठानकोट समीपस्थं धूमशकटनिस्थानम् अस्ति । धर्मशालातः जोगीन्दरनगरात् च गन्तु शक्यते ।

वाहनमार्गः[सम्पादयतु]

कुलुतः ४० कि.मी । मनालीतः ८० कि.मी । वसत्यर्थम् अत्र अतिथिगृहाणि सन्ति ।

बारोग् सुरङ्गः[सम्पादयतु]

‘काल्कासिम्ला’ विशिष्टः धूमशकटमार्गः अस्ति । तत्र प्रायः २ कि.मी दीर्घः सुरङ्गमार्गः मध्ये आगच्छति । बारोग् नामकः अभियन्ता । एतत् निर्मितवान् । एषः सुरङ्गमार्गः ३३ तमः अस्ति । क्रिस्ताब्दे १९०० -१९०३ मध्ये एषः सुरङ्गः रचितः अस्ति "UNSCO" संस्था एतत् विश्वपारम्पारिकस्थानानां पट्टिकायां योजितवती अस्ति । दशनिमेषान् यावत् सुरङ्गे एव प्रयाणम् भवति ।

वीथिका[सम्पादयतु]

बाह्यानुबन्धः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=हिमाचलप्रदेशराज्यम्&oldid=431240" इत्यस्माद् पुनः प्राप्तिः