सामग्री पर जाएँ

पाटणमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Patan district इत्यस्मात् पुनर्निर्दिष्टम्)
पाटणमण्डलम्
मण्डलम्
गुजरातराज्ये पाटणमण्डलम्
गुजरातराज्ये पाटणमण्डलम्
Country भारतम्
States and territories of India गुजरातराज्यम्
Headquarters पाटण
Area
  Total ५,७०० km
Population
 (२०११)
  Total १३,४२,७४६
Languages
  Official गुजराती, हिन्दी
Website patan.gujarat.gov.in
उत्तरगुजरात

पाटणमण्डलम् (गुजराती: પાટણ જિલ્લો, आङ्ग्ल: Patan district) इत्येतत् गुजरातराज्ये विद्यमानं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति पाटण इति नगरम् ।

भौगोलिकम्

[सम्पादयतु]

पाटणमण्डलस्य विस्तारः ५,७०० किलोमीटर्मितः अस्ति । गुजरातराज्यस्य उत्तरभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे मेहसाणामण्डलं, पश्चिमे कच्छमण्डलम्, उत्तरे बनासकाठामण्डलं, दक्षिणे सुरेन्द्रनगरमण्डलम् अस्ति । अस्मिन् मण्डले ६०० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले एकैव नदी प्रवहति । सा सरस्वती ।

जनसङ्ख्या

[सम्पादयतु]

२०११ जनगणनानुगुणं पाटणमण्डलस्य जनसङ्ख्या १३,४२,७४६ अस्ति । अत्र ६,९४,०६२ पुरुषाः ६,४८,६८४ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २३४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २३४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १३.५३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३५ अस्ति । अत्र साक्षरता ७३.४७% अस्ति ।

उपमण्डलानि

[सम्पादयतु]

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- १ चाणस्मा २ हारीज ३ पाटण ४ राधनपुरं ५ समी ६ सान्तलपुरं ७ सिद्धपुरम्

कृषिः वाणिज्यं च

[सम्पादयतु]

गोधूमः, 'बाजरा', धान्यानि, कार्पासः, एरण्डं, सर्षपः/तन्तुभः च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि सस्यानि सन्ति । बृहज्जम्बीरं, 'बेर्', दाडिमः, 'ग्वावा', पपितफलं च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि फलानि सन्ति । आलुकं, 'बीन्स्', वृन्ताकं, कपिशाकं ('क्याबिज्'), वार्तिकी, 'कोलीफ्लवर्' च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि शाकानि सन्ति । आहारसंस्करणं, कृषिः, वस्त्रोत्पादनं, 'पेपर् एण्ड् पल्प्' च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति । पाटणस्य 'पटोळा'-शाटिकाः तु समग्रे प्रपञ्चे सुप्रसिद्धाः सन्ति । 'मश्रू' इति अपरः वस्त्रविशेषः कार्पासकौशेययोः मिश्रणेन पाटणे उत्पाद्यते ।

पाटण-नगरे स्थितम् राणी की वाव्

वीक्षणीयस्थलानि

[सम्पादयतु]

एकादश-द्वादशशतके निर्मितं 'राणी की वाव्' इतीदम् अस्य मण्डलस्य प्रमुखम्, आकर्षकं च वीक्षणीयस्थलम् अस्ति । सहस्रलिङ्गतडागः अपरं वीक्षणीयस्थलम् अस्ति । अस्मिन् मण्डले अनेकानि जैनमन्दिराणि सन्ति । तेषु पञ्चसारपार्श्वनाथमन्दिरं बृहत्तमं, प्रसिद्धं, प्रमुखं च अस्ति । इदमपि एकं वीक्षणीयस्थलम् ।







बाह्यसम्पर्कतन्तुः

[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=पाटणमण्डलम्&oldid=458266" इत्यस्माद् प्रतिप्राप्तम्