विकिलोकस्य संस्कृतभाषायाः सुभाषितोद्याने वः हार्दं स्वागतम् । 'विकिसूक्तिः' नाम संस्कृतभाषायाः सुभाषितसमुत्तारणस्य काचित् परियोजना अस्ति । अस्य अभिवृद्ध्यर्थे सम्पादनं समुत्तारणं वा यूयं स्वयमेव कर्तुं शक्नुथ । देवनगरीलिप्याः टङ्कनं (मुद्रलेखनं) कर्तुं साहाय्यकाः सूचनाः अत्र वर्तन्ते ।
सम्प्रति संस्कृतविकिसूक्तौ ४,७६३ पृष्ठानां सङ्ग्रहः विद्यते ।
गुरुवासरः, मार्च् २८, २०२४; समयः- १४:५८ UTC
धियो यो नः प्रचोदयात् ॥ (यजुर्वेदः ३-३५)
अस्माकं प्रज्ञाकर्माणि तस्मात् विश्वचेतनात् प्रेरितानि भवन्तु ।
का कान्ता कालियारातेः पुनरर्थे किमव्ययम् । किं वन्द्यं सर्वदेवानां फलेषु किमु सुन्दरम् ॥ विष्णोः पत्नी का ?(मा - लक्ष्मीः) 'पुनः' इत्यस्मिन् अर्थे उपयुज्यमानम् अव्ययं किम् ? 'तु' सर्वे देवाः कां देवतां वन्दन्ते ? (लिङ्गम्) सुन्दरं फलं किम् ? एकेन पदेन उत्तरतु । (बीजपूरफलम्)
उत्तरम्
मृता मोहमयी माता जातो ज्ञानमयः सुतः । आशौचं वर्तते नित्यं कथं सन्ध्यामुपास्महे ॥ कश्चन वटुः सन्ध्यावन्दनात् पराङ्मुखः आसीत् । कदाचित् तस्य मित्रं तम् अपृच्छत् - ‘‘किं भवान् सन्ध्यावन्दनं न करोति ?’’ इति । ‘‘मम आशौचम्’’ इति अवदत् सः वटुः । ‘‘भवता कदापि सन्ध्यावन्दनं कृतं न दृष्टं मया । किं प्रतिदिनं आशौचं भवतः ?’’ इति अपृच्छत् मित्रम् । ‘‘अथ किम् ? प्रतिदिनं मोहमयी माता मृता भवति ज्ञानमयः सुतः जायते । एतस्मात् प्रतिदिनं जाताशौचं, मरणाशौचं च मम । अतः एव सन्ध्यावन्दनं न क्रियते मया’’ इति अवदत् सः वटुः । व्याजकथकाः व्याजत्वेन किं किं न कथयेयुः ?
विविधासु भाषासु विकिसूक्तिः उपलभ्यते -
മലയാളം (Malayalam) – தமிழ் (Tamil) – తెలుగు (Telugu) – English – Afrikaans – Albanian – العربية (Arabic) – Հայերեն (Armenian) – Azeri – Basque – Bosnian – Български (Bulgarian) – Catalan – 中文 (Chinese) – Croatian – Czech – Danish – Dutch – Esperanto – Estonian – Finnish – French – Galician – ქართულ (Georgian) – German – Ελληνικά (Greek) – עברית (Hebrew) – Hungarian – Icelandic – Indonesian – Italian – 日本語 (Japanese) – 한국어 (Korean) – Kurdish – Limburgian – Lithuanian – Norwegian (Bokmål) – Norwegian (Nynorsk) – فارسی (Persian) – Polish – Portuguese – Romanian – Русский (Russian) – Српски (Serbian) – Slovak – Slovenian – Spanish – Swedish – ไทย (Thai) – Turkish – Українська (Ukrainian) – Vietnamese – Welsh