एलिजबेत् ब्ल्याक्वेल्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अमेरिकादेशस्य मूल्याङ्के एलिजबेत् ब्ल्याक्वेल् चित्रम्

(काल: - १८२१ तः १९१०)

Elizabeth Blackwell, M.D.
जन्म (१८२१-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २-०३)३ १८२१
Bristol, Gloucestershire, England, UK
मृत्युः ३१ १९१०(१९१०-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ५-३१) (आयुः ८९)
Hastings, Sussex, England, UK
शान्तिस्थानम् Kilmun Edit this on Wikidata
देशीयता British
नागरिकता British and American
शिक्षणस्य स्थितिः Geneva Medical College
वृत्तिः

इयं एलिजबेत् ब्ल्याक्-वेल् (Elizabeth Blackwell) अमेरिकादेशस्य प्रथमा महिला वैद्या । एषा १८२१ तमे वर्षे अमेरिकादेशे जन्म प्राप्नोत् । वैद्यकीयक्षेत्रे महिलानाम् अपि स्थानं भवेत् इति धिया एव एषा एलिजबेत् ब्ल्याक्-वेल् वैद्यकीयक्षेत्रम् अचिनोत् । परन्तु २९ विश्वविद्यालयेषु महिला इति एकेन एव कारणेन सा तिरस्कृता । अन्ते न्यूयार्क्-नगरस्य जिनीवा–विश्वविद्यालये सा प्रवेशं प्राप्नोत् । तत्र अपि तस्य विश्वविद्यालयस्य निर्वहणसमितिः तत्रत्यान् सर्वान् अपि पुरुषविद्यार्थीन् पृष्ट्वा एव तस्यै प्रवेशम् अयच्छत् । यदा सा पिलिडेल्फिया–विश्वविद्यालये अध्ययनं कुर्वती आसीत् तदा अपि तस्याः एलिजबेत् ब्ल्याक्-वेल्याः कष्टं न्यूनं न आसीत् । तत्र यदा सा रोगिणां प्रकोष्ठं प्रविशति स्म तदा अन्ये सर्वे वैद्यविद्यार्थिनः बहिः गच्छन्ति स्म । तया एलिजबेत् ब्ल्याक्-वेल् एकया एव रोगिणां परीक्षाः कृत्वा विवरणपत्रे विवरणं लेखनीतम् आसीत् । तथापि सा एलिजबेत् ब्ल्याक्-वेल् छलेन अध्ययनं समाप्य १८४९ तमे वर्षे वैद्यपदवीं प्राप्नोत् । ततः सा यूरोप्-देशम् अगच्छत् । तत्र तया उत्तमं स्वागतं प्राप्तम् । तत्रैव विभिन्नेषु वैद्यालयेषु सा एलिजबेत् ब्ल्याक्-वेल् कार्यं कुर्वती अनुभवं सम्पादितवती ।

एषा एलिजबेत् ब्ल्याक्-वेल् १८५१ तमे वर्षे पुनः न्यूयार्क्-नगरं प्रत्यागता । तत्र लघु वैद्यालयस्य उद्घाटनं तस्याः लक्ष्यम् आसीत् । किन्तु तत् सुलभसाध्यं न आसीत् । “शरीरस्य, वातावरणस्य,परितः विद्यमानस्य परिसरस्य च मालिन्यस्य निवारणात् एव रोगाणां निवारणं साध्यम्” इति तया कृतानि भाषणानि कासाञ्चन महिलानां मनः आकर्षत् । तदनन्तरं १८५३ तमे वर्षे भगिन्या एमिल्या सह मिलित्वा सा एलिजबेत् ब्ल्याक्-वेल् वैद्यालयम् उदघाटयत् । अस्याः एलिजबेत् ब्ल्याक्-वेल्याः भगिनी एमिली अपि वैद्यपदवीं प्राप्तवती आसीत् । १८५७ तमवर्षाभ्यन्तरे तया आरब्धः वैद्यालयः सम्पूर्णतया महिलानां तथा बालानां च वैद्यालयः जातः । तादृशी एलिजबेत् ब्ल्याक्-वेल् १९१० वर्षे इहलोकम् अत्यजत् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]