कुमार गन्धर्व

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कुमार गन्धर्वः
मूलतः भारतीयः
सङ्गीतविद्या हिन्दुस्तानीशास्त्रीयसङ्गीतम्
वृत्तिः गायकः
सक्रियवर्षाणि क्रि.श १९३७ तः १९९२ ।


कुमार गन्धर्वः (Kumar Gandharva) (क्रि.श. १९२४ तः १९९२) ख्यातः हिन्दुस्तानीसङ्गीतस्य गायकः । अस्य मूलं नाम शिवपुत्रः सिद्धरामय्य कोङ्काळी इति । एषः क्रि.श. १९२४ तमवर्षस्य एप्रिल् मासस्य अष्टमे दिने धारवाडप्रदेशे अजायत । बाल्ये क्षयरोगेन पीडितः एकः पुप्फुसः निष्क्रियः अभवत् । अतः एकेन पुप्फुसबलेन सङ्गीताभ्यासः अनिवार्यः अभवत् । अतः स्वगानशैलीं दौर्बल्येन सह समञ्जनं कृतवान् । एवं सत्यपि बाल्ये एव अनुपमां प्रतिभां प्रदर्शितवान् । तदानीन्तने काले प्रसिद्धहिन्दुस्तानीसङ्गीतज्ञौ बालगन्धर्वः, सवायी गन्धर्वः च अस्य प्रतिभाम् अनुलक्ष्य अस्य नाम "कुमारगन्धर्वः" इति कृतवन्तौ ।

घराणा निबद्धः न[सम्पादयतु]

कुमारगन्धर्वः यस्याः कास्याश्चिदपि घराणायाः विषये निबद्धः न । एषः शास्त्रीयं सङ्गीतम् अतिरिच्य मराठीनाट्यसङ्गीतं भजनानि, मध्यप्रदेशराज्यस्य मालवा जानपदगीतानि अपि गीतवान् । जानपदीयं सङ्गीतम् एव शास्त्रीयसङ्गीतस्य जननी इति कुमारगन्धर्वस्य अभिप्रायः । एषः काञ्चन रागान् सृष्टवान् अस्ति । यथा मधुसूर्जः, अहिमिहिनी, सहेलितोडी, बिहादभैरवः, लगनगान्धारः, सञ्जारी, मालवती इति ।

राजन्, टि एन् कृष्णन् तथा कुमार गन्धर्वः

कुटुम्बः[सम्पादयतु]

कुमारगन्धर्वस्य पुत्री कलापिनि कोङ्काळी, पुत्रः मुकुल शिवपुत्र च हिन्दुस्तानीगायकौ । सत्यशीला देशपाण्डे अस्य प्रमुखा शिष्या ।

प्रशस्तिः[सम्पादयतु]

क्रि.श. १९९० तमे वर्षे पद्मविभूषणप्रशस्तिः

मरणम्[सम्पादयतु]

क्रि.श. १९९२ तमवर्षस्य जनवरिमासः।

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कुमार_गन्धर्व&oldid=480144" इत्यस्माद् प्रतिप्राप्तम्