क्लव्डी ईदर्ली

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Claude Robert Eatherly
जन्म (१९१८-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०२)२, १९१८
Van Alstyne, Texas, US
मरणम् १, १९७८(१९७८-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-०१) (आयुः ५९)
देशः  United States of America
कार्यविभागः/शाखा United States Army Air Forces
पदम् Major
घटकः 509th Composite Group
308th Bomb Wing
समर/युद्धानि World War II
atomic bombing of Hiroshima

क्लव्डी ईदर्ली[सम्पादयतु]

अमेरिकवैमानिकसेनायाम् सः एकः सैनिकः । द्वितीयलोकसङ्ग्रामे तस्मै या आज्ञा प्राप्ता आसीत् ताम् सुष्टु समापितवान् । तदर्थम् अमेरिकसर्वकारेण तस्मै श्रेष्ठ: पुरस्कारः दत्त: ; तेन साकम् प्रभूतम् धनम् अपि दत्तम् । ततः पूर्वमेव तस्य नाम लोकस्य सर्वासु पत्रिकासु अपि प्रकाशिता आसीत् । अमेरिकपत्रिका: तु तम् प्रशम्शया आकाशपर्यन्तम् नीतवन्तः । सः वीरः तेन प्राप्तपुरस्कारेण सह , धनमपि स्वीकृत्य प्रियपत्नीम् द्रष्टुम् आनन्दपूरितः सन् प्रस्थितवान् । पत्नी कथम् स्वगती कुर्यात् इति विचिन्त्य तस्य ह्दयः पुलकाङ्कितः आसीत् । “ टक्...टक्...” इति सैनिकस्य आगमनस्य पदध्वनिम् शृत्वा सा महिला द्वारम्प्रति शीघ्रमेव धावित्वा आगतवती । किन्तू तस्याः मुखे सन्तोष: नासीत् ; नेत्रयोः आनन्दोत्प्लवः न । कोपाग्निः तथा अश्रूणि एव आसीत् । "तिष्ठ... अन्तः मा प्रविश...” प्रैयपत्नी अग्निपर्वतः इव तिष्ठति इति स्थितिम् दृष्ट्वा सैनिकः चकितः अभवत् । समीपे स्थितम् शिशुम् स्प्रष्टुम् हस्तम् पासारितवान् । “ मा स्पृशतु... भवतः पापयुक्तेन हस्तेन मम शिशोः स्पर्शनम् मा कुरु... “ इति पत्न्याः वाक्यम् । सः कथमपि ताम् सान्त्वयितुम् प्रयत्नम् कृतवान् । किन्तू तस्य प्रयत्नस्य साफल्यम् तु नाभवत् एव । एवम् स्वपत्न्या एव दूरीकृतः कः ? सः एव “ क्लव्डी ईदर्ली “ । सः एव जपान् देशस्य हिरोशिमायाः उपरि प्रप्रथमतया अणुस्पोटम् प्रयुक्तवान् । सः लोके एव प्रप्रथमतया अणुस्पोटम् प्रयुज्य महत्पापम् सम्पादितवान् ।हिरोशिमाया: , नागसाग्या: उपरि अणुस्पोटम् स्थापयितुम् बहवः विमानेन भ्रमन्तः एव आसन् । तत्र प्रथम स्पोटस्य स्पोटनम् केन कृतम् चेत् तत् “ क्लव्डी ईदर्ली “ वर्येणैव । ईदर्ली वर्येण श्रेष्ठः पुरस्कारः प्राप्तः ,प्रभूतम् धनम् प्राप्तम् इति यदा श्रुतिपदमागतम् तदा सा गृहिणी अपि महदानन्दम् अनुभूतवती । किन्तू तदनन्तरम् दूरदर्शने तया हिरोशिमायाः नाशः , एकस्मिन्नेव निमेषे लक्षशह जनानाम् मारणस्यघोरदृश्यानि , पितृणाम् मरणकारणेन मार्गे स्थित्वा रोदनम् कुर्वाण: शिशवः इत्यधिकम् सर्वम् दृष्ट्वा तस्याः ह्दयभ्ङ्गः जात: इव अभवत् । हिरोशिमायामेव हस्तस्य ,पादस्य , नेत्रस्य च नष्ठकारणेन जनानम् कष्ठम् , अणुकिरणानाम् कारणात् शरीरे महत् तापम् अनुभवन्तीति सामान्यजनाः इति दृष्ट्वा तस्याः ह्दये रक्तप्र्वाहः एव भवति स्म । एतादृशम् महत् पापकरम् कार्यम् यः कृतवान् सः मम पति: वा ? इति सा यदा चिन्तितवती तदा सा उन्म्त्ता इव अभवत् । अतः एव स्वपतिम् उद्दिश्य सा “ धावतु...धावतु... क्षन्तुमपि अनर्हम् मह्त्पापकरम् कार्यम् कृतवान् किल इत: धावतु... “ इति तम् हटात् दूरीकृतवती । तावत् पर्यन्तम् ईदर्ली अपि स्वयम् कीदृशम् कार्यम् कृतवान् इति न अवलोकितवान् । “ अहो ! मया आप्ताम् आज्ञामेव पूरितवान् खलु “ इति तस्य हृदयम् रोदनम् करोति स्म । तथापि तम् क्षन्तुम् सा सिद्धा नासीत् । “ सामान्यजनानाम् उपरि अणुस्पोटम् कृत्वा नीचतया पशुरिव विजयम् प्राप्तुम् ये यत्नम् कुर्वन्ति ते क्षन्तव्या: एव न “ इति सा मेघध्वनिरिव गर्जितवती । वीथिषु धावितवान् ईदर्ली । तस्य मित्राणि तम् द्वेषेण , दु:खेन च दृष्टवन्त: । आत्मना कृतस्य पापस्य परिहारार्थम् पुरस्काररूपेण यावत् धनम् प्राप्तवान् तत् सर्वमपि हिरोशिमायाः निवारणनिधिरूपेणैव दत्त्वा गृहम् प्रति गतवान् । “ भवताकृतपापाय एष: परिहार: भवितुम् नार्हति इति तस्य पत्नी तम् निराकृतवती एव । पुनरपि गृहात् निर्गतः सः । हिरोशिमाविषयकानि चलचित्राणि प्रकटितानि । तेषु चित्रेषु अणुस्पोटनेन ये अनाथाः अभवन् तेषाम् सहस्रशः जनानाम् शोकव्रुतान्तानि उक्तानि । ईदर्लीवर्यस्य हृदये सम्भ्रम: जातः । सः सैनिकानाम् मध्ये युद्धाक्षेपात्मकम् प्रचारम् कृतवान् । तदा एव सर्वकारस्य जागरणम् अभवत् । तस्मिन् स्थितौ तत् कार्यम् अपायकरम् इति सर्वकारण चिन्तितम् । तथापि किम् वा कर्तुम् शक्येत ? एकस्मिन् दिने स्वगृहस्य पुरतः एव स्वहस्तय भ्ग्नम् कृत्वा रक्तप्रवाहे पतितः आसीत् ईदर्ली । आम् ! एतस्मात् लोकादेव विमोचनम् प्राप्तुम् इष्टवान् सः । तदर्थम् आत्महत्याम् कर्तुम् प्रयत्नम् कृतवान् । किन्तू वैद्या: तम् रक्षितवन्तः । चिकित्सालये यदा तस्य बोधः आगतः तदा सः “ अहो ! मम इतोपि मरणम् किमर्थम् नाभवत् ? “ इति दु:खतप्तः सन् प्रलपितवान् । किञित् कालानन्तरम् अन्ये केपि तम् न दूषितवन्तः । किन्तू सः स्वयम् आत्मानम् निन्दयन् स्वस्थ्ताम् विना अटन् आसीत् । एतम् विषयम् ज्ञात्वा तम् उन्मत्तालयम् प्रति प्रेषितवन्तः । एकस्मिन् दिने सः उन्मत्तलयात् पलायितः । कारागृहवासः एव स्वस्मै उचितम् स्थानम् इति मत्वा कारागृहम् गन्तव्यम् इति निश्चितवान् । तदर्थम् एकस्मिन् गृहे चौर्यम् कृतवान् । किन्तू तेन यत् चिन्तितम् तत् न अभवत् । आरक्षका: तम् पुनः चिकित्सालयमेव प्रेषितवन्तः । बहु कालानन्तरम् वैद्या: तस्य उन्मादः सम्यक् अभवत् इति बहिः प्रेषितवन्तः । तदानीमपि कारागृहवास: स्वस्यकृते उत्तमम् दण्डनम् इति सः स्वयमेव निश्चितवान् । स: "कल्वल्स्टन् “ इयेकस्मिन् स्थाने एकस्मिन् आपणे चोरितवान् । सः १६२ डालर् एव चोरितवान् । तथापि तस्य चिन्तनस्य साफल्यम् अभवत् । सः कारागृहम्प्रति प्रेषितः । ईदर्लीवर्येण सह ये अणुस्पोटार्थम् गता: ते अमेरिकसेनायाम् श्रेष्ठतमाः पदव्यः प्राप्तवन्तः । किन्तू ईदर्ली स्वस्य स्थानम् कारागृहे एव अन्विष्टवान् । लोके विद्यमान युद्धाकाङ्क्षिणाम् ईदर्लीवर्यस्य जीवनम् एक: पाठः एव । किन्तू सः तु प्रेषितः बाणः एव । तस्यैव एतादृशः स्थितिः चेत् धर्ममार्गात् भ्रम्शनम् भूत्वा ये योद्धुमेव इच्छन्ति तेषाम् गतिः कीदृशी वा भवेत् ?

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=क्लव्डी_ईदर्ली&oldid=480205" इत्यस्माद् प्रतिप्राप्तम्