जाह्न नापियर्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

परिचय[सम्पादयतु]

जाह्न नापियर्

मर्किन्स्टनस्य जाह्न नेपियर् ( क्रि.श १ फेब्रवरी १५५०-४ एप्रिल १६१७), मार्वेलस् मर्किन्स्टन् इति उपनाम्नापि प्रसिद्ध: स्काट्लैन्ड देशीय: क्षेत्रपति: आसीत् । स: गणितज्ञ: , भौतशास्त्रज्ञ: , ज्योतिरवित् च आसीत् । स: मर्किन्स्टन् प्रदेशस्य अष्टतम: प्रभु: आसीत्। तस्य रोमक नाम “लोऽन्नस् नेपर् “ आसीत् ।

मर्किन्स्टन् हर्म्य

जाह्न नेपियर् घातप्रमापकसंख्यानाम् अविश्काराय बहु प्रसिद्ध: । स: “नेपियर्स् बोन्स् “ इति यन्त्रस्य निर्माणमकरोत् । अनेन अङ्कविद्यायां गणितशास्त्रे च दशमिक स्थानस्य उपयोग: आयोजित: । नेपियरस्य जन्मस्थानम् एडिन्बराया: “मर्किन्स्टन् टवर्” अधुना एडिन्बराह् नेपियर् विश्वविद्यालयस्य पर्यवेक्षणे अस्ति । नेपियर् वातरक्त रोगस्य प्रभावेन तस्य गृहे निधनं गत: । तदनन्तरं तस्य देह: सैन्ट् गैल्स चर्चमन्दिरस्य प्राङ्गणे निचछनित: । तदनन्तरकाले तत्र संसदभवनस्य निर्माणार्थं तस्य प्रेतं एडिन्बराया: पश्चिमस्थे सैन्ट् कठ्बर्ट्स् चर्चमन्दिरे निचछनित: ।

जीवनम्[सम्पादयतु]

नेपियरस्य जनक: सर् आर्चिबाल्ड् नेपियर् आफ़ मर्किन्स्टन् तस्य जननी जानेट् बोथ्वेल् , न्यायाधीशस्य फ्रान्सिस् बोथ्वेल् वर्याणां पुत्री । नेपियरस्य जन्मसमये तस्य पितु: आयु: षोडशवर्शम् आसीत् । तस्य बाल्य शिक्षण विषये किमपि अधिकं न ज्ञायते । अतः केचन जना: गृहे एव अध्ययनम् करोति इति विश्वसन्ति । १३ वर्षे सैन्ट् साल्वटोर्स् महाविद्यालये नामाङ्कनम् अकरोत् । तस्य अध्ययन काले महाविद्यालयस्य शिक्षण गुणतर: क्षीयमाण: आसीत् कातोलिक् - प्रोटेस्टेंट इत्युभय मतानां युद्धवशात् । अनेन स: स्काट्लैन्ड् त्यक्त्वा तस्य अध्ययनं पूरयितुं यूरोपस्य अन्यप्रदेशं गत: तस्य मातलस्य आडम् बाथ्वेलस्य सहाय्येन । स: कुत्र तस्य अध्ययनम् पूरितवान् इति अज्ञातमेव । परम् यदा स: क्रि.श १५७१ वर्षे स्वराष्ट्रं पुनरागत: स: यौवनभाषायां विद्वत्वम् प्राप्तम् आसीत्।

क्रि.श १५७१ वर्षे, २१ वर्षीय: नेपिय् स्वराष्ट्रं प्राप्त्वा १५७४ वर्षे गार्ट्नेस प्रदेशे भवनम् आनेतवान् । तदनन्तरं १६०८ वर्षे पितु: निधनानन्तरं पुन: स्वगृहं प्राप्तवान् सपरिवार: निवसितुं । स: ३७ वयसि निधनम् गत: । बहव: समकालीना: गणितज्ञा: सङ्कलनस्य असुविधां जानन्ति, तथैव तस्य निवारणार्थं प्रयत्नशील: आसन् । नेपियर् तस्य सङ्कलनयनत्राणां निर्माणेन बहु प्रसिद्ध: आसीत् । स: “नेपियर्स् बोन्स्” यन्त्रस्य निर्माणेन सङकलने जातानाम् असुविधां निवारणं कृतवान् ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=जाह्न_नापियर्&oldid=463364" इत्यस्माद् प्रतिप्राप्तम्