पद्मानदी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पद्मा बांलादेशस्य एका प्रधाना नदी । इयं हिमालयोत्पन्नगंगालनद्याः प्रधानशाखा वांलादेशस्य द्वितीयदीर्घतमनदी । वांलादेशस्य गुरुत्वपूर्णनगरी राजशाही इयं पद्मायाः उत्तरतीरे स्थितः । पद्मायाः सर्वोच्चोता १५७१ ‍ फुट् ( ‍‍‍‍‍‌‍‍‌‌‍‌‍ ‍‍४७९ मीटर) सामान्यतोच्चता ९६८ फुट् (२९५ मीटर) । वांलादेशस्य नद्याः उच्चता १२१ किलेमिटर । वांलादेशे जलोन्नयनपर्षदेन पद्मानद्याः प्रदत्तपरिचितिसंख्या उत्तरस्य नदी नं ३२ । राजा राजवल्लभस्य कीर्ती पद्मायाः भाङ्नगरस्य प्रान्तभागे विनष्टेन पद्मायाः अपरः नाम कीर्तिनिशा । हिमालयस्य गङ्गोत्रीहिमवाहात् उत्पन्नगङगानद्याः प्रधानशाखा चाँपाइनवावगञ्जजिलायाः शविगञ्जोपजिलायाम् (मानकोसा दुर्लभपुर-इउनियन) वांलादेशस्य प्रविश्य अत्रतः तत्नदी पद्मा इति नाम्ना परिचीयते । गंगायाः अन्यशाखा भागीरथी नाम्ना भारतस्य हूगलीदिशि प्रवाहितः । उत्पत्तिस्थलात् २२०० किमि दूरे गोयालन्दे यमुनानद्या मिलित्य तन्मिलितप्रवाहं पद्मा नाम्नि पुनः पूर्वदिशि चाँदपुरजिलायां मेघनानद्यां मिलिता । सर्वोपरि पद्मा-मेघनायाः मिलितप्रवाहः मेघना नाम्ना दक्षिणे वङ्गोपसागरैः सह मिलितः । पद्मा वांलादेशस्य द्वितीयदीर्घतमनदी, अस्याः दैर्घ्यः ३६६ किमि । पद्मायाः प्रधाना उपनदी महानन्दा पुनर्भवा च । महान्दा उपनदीं चाँपाइनवावगञ्जजिलायाः तथा पुनर्भवा वांलादाशस्य भारतस्य चोपरि प्रवाहिता । पद्मायाः नानाशाखानदीषु गडाइ-वडाल आडियाल खाँ- कुमार-माथाभाङा-भैरव इत्यादि अन्यतमाः । पुनः पद्मायाः विविधाप्रशाखानद्यः भवन्ति- मधुमती- पशुर- कपोताक्ष आदि । इमे नद्यः कुष्टिया-राजवाडी-यशोर-झिनाइदह-नडाइल-मागुरा-वागेरहाट-गोपालकुञ्ज-फरिदपुर-मादारीपुर-शारीयतपुर-वरिशाल-पटुयाखालि इत्यादि जिलासुपरि विस्तृताः । पद्मानदीतीरे अवस्थितनगरेषु राजशाही सरवापेक्षा वृहदेव । नगरस्यायतनं ९६.६८ वर्गकिमि । इयं वांलादेशस्य तृतीयवृहत्तमनगरी उत्तरवङ्गस्यान्यतमा नगरी च । राजशाह्यां पद्मायाः वाँधः पुष्पसौन्दर्येण सुसज्जितः । राजशाही कलेजियेट विद्यालयः उपमहादेशस्य सर्वापेक्षाप्रवीणविद्यलयेषु एका पद्मानदीतीरे स्थितः । इयं विद्यलयं १८२८ तमवर्षे प्रतिष्ठानन्तरं वारत्रयं पद्मातटविध्वंसे पतितः ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पद्मानदी&oldid=463412" इत्यस्माद् प्रतिप्राप्तम्