महेन्द्र सिंह धोनी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
महेन्द्रसिंहः धोनी
{{{imagealt}}}
धोनी जनवरी २०१३
वैय्यक्तिकपरिचयः
सम्पूर्णनाम महेन्द्र सिंह धोनी
प्रसिद्धनामानि मही, एम् एस्, एम् एस् डि
औन्नत्यम् ५ फ़ुट ९ इंच (१.७५ मी)
ताडनशैली दक्षिणहस्तेन
कन्दुकक्षेपणशैली दक्षिणस्कन्धः (मध्यमवेगः)
पात्रम् गणनायकः
अन्ताराष्ट्रियविवरणानि
राष्ट्रम् भारतम्
प्रथमटेस्ट् (cap २५१) २ डिसेम्बर् २००५ v श्रीलङ्का
अन्तिमटेस्ट् १४ फेब्रवरी २०१४ v न्यूझिलेण्ड्
प्रथम-ओ डि ऐ(cap १५८) २३ डिसेम्बर् २००४ v बाङ्ग्लादेशः
अन्तिम-ओ डि ऐ २८ जनवरी २०१४ v न्यूझिलेण्ड्
ओ डि ऐ युतकसङ्ख्या.
प्रथम-टि २० (cap ) १ डिसेम्बर् २००६ v दक्षिणाफ्रिका
अन्तिम-टि २० १० अक्टोबर् २०१३ v आस्ट्रेलिया
गृह्यगणविवरणानि
वर्षम् गणः
1999/00–2004/05 Bihar
2004/05–present Jharkhand
2008–present Chennai Super Kings
वृत्तिजीवनस्य सांख्यिकी
स्पर्धा Test ODI FC T20Is
क्रीडाः 81 243 122 43
प्राप्ताः धावनाङ्काः 4,342 8,046 6,504 772
सामान्यताडनानि 38.76 53.28 37.16 32.16
१००s/५०s 6/28 9/54 9/42 0/0
श्रेष्ठाङ्कः 224 183 224 48
Balls bowled 90 36 120
विकेट् 0 1 0
बोलिङ्ग् 31.00
५ विकेट् (एकस्मिन् इनिङ्गस्)
१० विकेट् (एकास्यां स्पर्धायाम्)
श्रेष्ठबोलिङ्ग् 1/14
क्याच्/स्टाम्पिङ्ग् 219/37 224/80 327/56 22/8
Source: ESPNCricinfo, 31 January 2014

महेन्द्र सिंह धोनी कश्चन प्रसिद्धः भारतीयक्रिकेट्-क्रीडालुः । भारतीयक्रिकेट्-गणस्य नायकः । तदीये नायकत्वे भारतेन २००७ ऐसिसि विश्व ट्वेण्टि२०, २००७-०८ सिबि सरणिः च जिता । २००८ तमे वर्षे आस्ट्रेलियागणं पराजित्य बार्डर्-गवास्कर्-प्रशस्तिः आसादिता भारतीयक्रिकेट्गणेन । श्रीलङ्कायां न्यूझिलेण्ड्देशे च सम्पन्ने ओ डि ऐ सरणिः ऐदम्प्राथम्येन जितस्य गणस्य नायकः आसीत् अयम् । उत्तमप्रदर्शनाय २००८ तमे वर्षे २००९ तमे वर्षे च ऐसिसि ओडिऐ उत्तमक्रीडालुप्रशस्तिः (प्रथमः भारतीयक्रीडालुः) अनेन प्राप्ता अस्ति । राजीवगान्धि खेल् रत्नप्रशस्तिः, पद्मश्रीप्रशस्तिः च अनेन प्राप्ता अस्ति । फोर्ब्स्-पत्रिकया अनुष्ठितात् विषयसङ्ग्रहणात् ज्ञायते यत् विश्वे अत्यधिकवेतनं प्राप्नुवत्सु दशसु क्रिकेट्-क्रीडालुषु महेन्द्र सिंह धोनी अन्यतमः इति ।[१]

वैयक्तिकजीवनम्[सम्पादयतु]

महेन्द्र सिंह धोनी बिहारस्य राञ्चीनगरे (अद्यतनीयं झारखण्डराज्यम्) १९८१ तमे वर्षे जुलैमासस्य ७ दिनाङ्के जन्म प्राप्नोत् ।[२] पिता पान् सिंह, माता देवकीदेवी । तस्य पूर्वजाः उत्तराखण्डस्य अल्मोरामण्डलस्य लाम्गढप्रदेशस्य ल्वालिग्रामस्थाः । महेन्द्रस्य पिता पानसिंहः उत्तराखतग्ग् राञ्चीम् आगत्य तत्रत्ये मेकान्-संस्थायाः उपसहायकरूपेण कार्यम् अकरोत् । तस्य सहोदरी जयन्ती गुप्ता, सहोदरः नरेन्द्र सिंह धोनी । २०१० तमस्य वर्षस्य जुलैमासस्य ४ दिनाङ्के सः डेह्राडून्-मूलां साक्षि सिंह रावत् नामिकां परिणीतवान् । महेन्द्रः जान् अब्राहमस्य, रजनीकान्तस्य, आडम् गिल्क्रिस्टस्य च अभिमानी । क्रीडालुः सचिन् तेण्डुल्करः, अभिनेता अमिताबच्चनः, गायिका लता मङ्गेश्कर् इत्येतेषां साधनेन महेन्द्रः बाल्ये प्रभावितः जातः ।


झारखण्डे राञ्चीमण्डलस्थे श्याम्लिप्रदेशस्थे डिएवि जवाहर विद्यामन्दिरे महेन्द्रः विद्याभ्यासम् अकरोत् । आदौ सः बेड्मिण्टन्क्रीडायां पादकन्दुकक्रीडायां च उत्तमक्रीडालुरूपेण मण्डलस्तरे अपि प्रसिद्धः आसीत् । विद्यार्थिजीवने महेन्द्रः पादकन्दुकक्रीडागणस्य उत्तमः सीमारक्षकः आसीत् । पादकन्दुकगणस्य प्रशिक्षकाः महेन्द्रस्य सामर्थ्यम् अवगत्य तं क्रिकेट्क्रीडनाय स्थानीयक्रिकेट्कूटं प्रति प्रेषितवन्तः । ततः पूर्वं महेन्द्रेण यद्यपि क्रिकेट्क्रीडायां भागः न स्वीकृतः आसीत् तथापि स्वीयेन क्षेत्ररक्षणकौशल्येन सः वैशिष्ट्यं प्रादर्शयत् । अनन्तरं सः कमाण्डो क्रिकेट्कूटस्य पूर्णकालिकं (१९९५-१९९८) क्षेत्ररक्षकोत्तरदायित्वं प्राप्नोत् । तत्र तेन उत्तमप्रदर्शनं दत्तम् इत्यतः सः ऊनषोडशवर्षीयाणां १९९७-९८ वर्षीये वीनू माङ्कड् ट्रॊफि - स्पर्धायै चितः जातः । तत्र अत्युत्तमं प्रदर्शनम् अददात् । [३] महेन्द्रः दशमकक्ष्यायाः अनन्तरं क्रिकेट्क्रीडाविषये एव अधिकम् अवधानम् अददात् । [४]

क्रीडनशैली[सम्पादयतु]

महेन्द्रः कश्चन दक्षिणहस्तताडकः क्षेत्ररक्षकश्च । पार्थिव पटेल्, अजेय रात्रा, दिनेश कार्तिक् प्रभृतयः इव महेन्द्रः अपि अल्पवयसि एव भारतीयेषु ’ए’ क्रिकेट् गणेषु उत्तमप्रदर्शनेन राष्ट्रियक्रिकेट्गणस्य प्रतिनिधिरूपेण चितेषु क्षेत्ररक्षकेषु अन्यतमः विद्यते । १९९८-९९ क्रिकेट् वसन्तावसरे बिहारक्रिकेट् गणस्य परतया प्रथमतया अक्रीडत् । २००४ तमे वर्षे भारत-ए-प्रतिनिधिरूपेण केन्याप्रवासाय चितः । त्रिकोणसरणिषु पाकिस्तान-ए गणस्य विरुद्धं गौतमगम्भीरेण युगलक्रीडायां बहूनि शतकानि तेन साधितानि । अनन्तरेषु वर्षेषु भारतस्य राष्ट्रियगणाय चितः जातः ।

सरणिप्रशस्तिः[सम्पादयतु]

ಎದುರಾಳಿಗಳ ಎದುರು ODI ವೃತ್ತಿಜೀವನದ ದಾಖಲೆಗಳು
# प्रतिपक्षः स्पर्धाः रन् ಸರಾಸರಿ अत्युन्नतं प्राप्ताङ्कः शतकानि अर्धशतकानि ಕ್ಯಾಚ್‌ಗಳು ಸ್ಟಂಪಿಂಗ್‌
1 आफ्रिका XI[५] १७४ ८७।०० १३९*
आस्ट्रेलिया १६ ४०५ ३६.८१ १२४ २३
बाङ्ग्लादेशः १४६ ३६.५० ९१*
बर्मुडा २९ २९.०० २९
इङ्ग्लेण्ड् १८ ५०१ ३३.४० ९६ १९
हाङ्ग् काङ्ग् १०९ - १०९*
न्यूजिलेण्ड् २६९ ६७.२५ ८४*
पाकिस्तान २२ ९१७ ५७.३१ १४८ १९
स्काट्लेण्ड् - - - - - -
१० दक्षिण आफ्रिका १० १९६ २४.५० ५५
११ श्रीलङ्का ३४ १२९८ ६१.८० १८३* ११ ३६
१२ वेस्ट् इण्डीस् १७ ४९९ ४९.९० ९५ १३
१३ याक् १२३ १२३.०० ६७*
ಒಟ್ಟು १४२ ४६६६ ५०.१७ १८३* ३३ १४१ ४७

ODI शतकाः :

ODI शतकाः
# ರನ್‌ಗಳು स्पर्धाः प्रतिपक्षः क्रीडास्थानम् नगरम्/देशः वर्षम्
1 १४८ पाकिस्तान ACA-VDCA क्रीडाङ्गणम् विशाखपत्तनम्, आन्ध्रप्रदेशः, भारतम् २००५
१८३* २२ श्रीलङ्का सावै मानसिंह क्रीडाङ्गणम् जयपुरम्, राजस्थानम्, भारतम् २००५
१३९* ७४ आफ्रिका XI[५] MA चिदम्बरं क्रीडाङ्गणम् चेन्नै, तमिळनाडुराज्यम्, भारतम् २००७
१०९* १०९* हाङ्ग् काङ्ग् राष्ट्रीय क्रीडाङ्गणम् कराची, पाकिस्थानम् २००८
१२४ १४३ आस्ट्रेलिया VCA क्रीडाङ्गणम्, जन्ता नागपुरम्, भारतम् २००९

टिप्पणी[सम्पादयतु]

  1. "अधिकवेतनः-फोर्ब्स्". 27.8.2009. आह्रियत 7 अप्रैल 2014. 
  2. "क्रीडालवः अधिकारिणश्च - धोनी". Cricinfo. आह्रियत 7 अप्रैल 2014. 
  3. "राञ्चीविजेता". दि ट्रिब्यून्. २९ एप्रिल् २००६. आह्रियत 7 अप्रैल 2014. 
  4. "चित्रग्राहकाः अधुना मत्पुरतः". Cricinfo. ४ मे २००५. आह्रियत 7 अप्रैल 2014. 
  5. ५.० ५.१ एष्या XI गणे धोनी

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=महेन्द्र_सिंह_धोनी&oldid=483929" इत्यस्माद् प्रतिप्राप्तम्