वनमहोत्सवदिनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


नगरीकरणं, वननाशः, गृहनिर्माणं यन्त्रागाराणां स्थापनम् इत्यादिकारणात् भूमण्डले वनप्रदेशाः न्यूनाः सञ्जाताः सन्ति । अत एव भूमण्डले उत्तमपरिसर निर्माणाय वनमहोत्सवाचरणं भारते स्वातन्त्र्यानन्तरम् आरब्धम् अस्ति ।

जगति जनसङ्ख्या यथा यथा अधिका अभवत् तदा सर्वेषां निवासाय, आहारोत्पादनाय, गृहनिर्माणाय च वनस्य नाशोऽपि अधिकः सञ्जातः । वृक्षाणाम् उपयोगः गृहनिर्माणे अग्निज्वालने च पूर्वकालतः प्रचलति । वनेन भूमण्डले अधिका वृष्टिः भवति । तेन च कृषिक्षेत्रे उत्तमधान्यादीनाम् उत्पादनं भवति । अनेन मानवानाम् आहारः प्राप्तः भवति स्म ।

यदा वननाशात् भूमण्डले उष्णता अधिका सञ्जाता तदा । वृष्टिः न्यूना अभवत् । नद्यः तटाकानि शुष्काणि अभवन् । ग्रामे कृषिकार्यार्थं जलम् अलभ्यम् अभवत् । नगरे पेयजलपूरणं समस्यापूर्णम् अभवत् । सर्वत्र वातावरणे अधिकोष्णतया कुपरिणामः अधिकः अभवत् । वनरक्षणार्थम् अनेकविधाः कार्यक्रमाः आयोजिताः सन्ति । जनजागर्तिकरणं , वृक्षारोपणम्, उद्याननिर्माणं, सामूहिकसुरक्षितवननिर्माणम वननाशस्य निर्बन्धः इत्यादि सफलाः सञ्जाताः सन्ति ।

भारतदेशे चिपकोआन्दोलने उत्तमं कार्यं कृतम् अस्ति । श्रीसुन्दरलालबहुगुणः अस्यान्दोलनस्य नेता आसीत् । इदानीं देशे सर्वत्र प्रकृतिप्रियाः जागरिताः वननाशविरोधिप्रदर्शनानि कृतवन्तः सन्ति । सर्वकारेणापि प्रतिवर्षं कोटिकोटिवृक्षाणाम् आरोपणं भविष्यति । वनरक्षणं न केवलं सर्वकारस्य कार्यम् अपितु सर्वेषां कार्यमस्ति । सर्वेषां जनानां हितमिच्छन् सदा मानवः वननाशं न करोतु । वृक्षारोपणं च करोतु इति दिनाचरणस्य उद्देशः अस्ति । वनैः जनानाम् अनेकोपयोगाः सन्ति । वने अनेकविधवस्तूनाम् उत्पत्तिः भवति । अनेकौषधसस्यानि वने भवन्ति । अनेकपुष्पफलवृक्षैः जनानां सन्तोषः आहारः च प्राप्तः भवति । मधु, श्रीगन्धः रक्त चन्दनं, नीलगिरितैलं, रळर द्रव्यं धूपः, हिङ्गु लवङ्गादिद्या आहारपदार्थाः वनेनैव सुलभ अस्ति ।

प्रकृतौ समतोलनं स्थापयितुं वनप्रदेशानाम् आवश्यकता अधिकास्ति । ग्रामीणप्रदेशे च वनस्य वीक्षणम एव सन्तोषाय भवति । नगरप्रदेशेषु सर्वत्र वनानां स्थापनमपि असाध्यमअस्ति । वृक्षैः मानवानां शुध्दाम्लजनकस्य पूरणं भवति । एवं वृक्षाः मानवोपयोगिनः इत्यत्र संशयः नास्ति ।

सर्वैः जनैः वनस्य रक्षणं करणीयम् । नूतनानां वनानाम् उपवनानां स्थापनं कर्तव्यम् । तेन सह वननाशविरोधः कर्तव्यः अस्ति । एतेन सर्वेषां मानवानां हितं भवति इति सर्वेषां सम्यक् ज्ञापनीयम् एव दिनाचरणस्य उद्देशः । वनमहोत्सव कार्यक्रमेषु विद्यालयेषु बालानामेव वनरक्षणार्थं प्रेरयन्ति । वृक्षारोपणं कुर्वन्ति । वृक्षाणां महत्वं विद्यार्थिनां स्मारयन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वनमहोत्सवदिनम्&oldid=409653" इत्यस्माद् प्रतिप्राप्तम्