विन्ध्यपर्वतश्रेणी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
विन्ध्य
विन्ध्याचल्, विन्ध्याः
कोटि
शिखरम् (सद्भवन शिखरः/ कलुमर् शिखर)
औन्नत्यम् ७५२ m
यामः २३°२८′०″ उत्तरदिक् ७९°४४′२५″ पूर्वदिक् / 23.46667°उत्तरदिक् 79.74028°पूर्वदिक् / २३.४६६६७; ७९.७४०२८निर्देशाङ्कः : २३°२८′०″ उत्तरदिक् ७९°४४′२५″ पूर्वदिक् / 23.46667°उत्तरदिक् 79.74028°पूर्वदिक् / २३.४६६६७; ७९.७४०२८
Naming
Etymology "व्याधः"
Native name विन्‍ध्य
भूगोल
विन्ध्यपर्वतश्रेणी is located in India<div style="position: absolute; z-index: 2; top: वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम [%; left: वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम [%; height: 0; width: 0; margin: 0; padding: 0;">
<div style="font-size: 90%; line-height: 110%; z-index:90; position: relative; top: -1.5em; width: 6em; वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम [">
Topographic map of India showing the highest point of the Vindhya range
Country भारतम्
States मध्यप्रदेश्, गुजरात्, उत्तरप्रदेश् and बिहार्
Borders on सात्पुर

भूमे वेधनं कृत्वा भारतस्य मध्यभागे स्थितः पर्वतः विन्ध्यः। भारतस्य मध्यभागे गुजराततः बिहारपर्यन्तं ७०० मैल् यावत् “विन्ध्य”पर्वतपङ्क्तिः प्रसृता अस्ति । विन्ध्यपर्वतस्य उत्तरभागम् उत्तरपथः इति, दक्षिणभागं दक्षिणपथः इति च वदन्ति । अस्याः पर्वतपङ्क्तेः आरम्भः भवति गुजरातराज्ये । अग्रे मध्यप्रदेशस्य सागर- दामोहमण्डलयोः उत्तरभागस्य बुन्देलखण्ड तथा रेवासंस्थानद्वारा प्रसृता पङ्क्तिः बिहारे समाप्यते । एवं पश्चिमतः प्रसृतः विन्ध्यः पूर्वतः आगतं सातपुरं नर्मदायाः उद्भवस्थाने अमरकण्टके मिलति । सातपुरम् अपि विन्ध्यस्य एव कश्चन भागः ।

भौगोलिकलक्षणानि[सम्पादयतु]

एषा पर्वतपङ्क्तिः ४०,००० च.मै. प्रदेशम् आक्रम्य स्थिता अस्ति । अस्य शिखराणि माकिं १५००-२००० पादमितम् उन्नतानि । कानिचन शिखराणि ३००० पादमितम् उन्नतानि सन्ति । आम्बापाणिः (२३८५ पादमितम्), दाशरथी (२३४५ पादमितम्), सलखानपूरं (२१८७ पादमितम्), मृगनाथः (२१४८ पादमितम्) च अत्रत्यानि प्रमुखाणि शिखराणि । समग्रा प्रर्वतश्रेणी माल्वपीठभूमेः दक्षिणे, नर्मदानद्याः उत्तरे च एकपङ्क्तौ एव अस्ति । विन्ध्यपर्वते महताप्रमाणेन लभ्यमानाः सिकताश्शिलाः (मरळुगल्लु) भवननिर्माणस्य उत्तमसामग्री अस्ति । साञ्चि-बर्हुत्-प्रदेशेषु बौद्धस्तूपस्य निर्माणार्थं, खजराहोप्रदेशे देवालयस्य निर्माणार्थं, ग्वालियर्-नेर्वाड-चान्देरी-मान्द-प्रदेशेषु दुर्गस्य प्रासादस्य च निर्माणार्थं विन्ध्यपर्वतस्य सुधाशिला महता प्रमाणेन उपयुक्ता । “नागोड” इति स्थानं सुधाशिलार्थं, “पन्ना” इति स्थानं च वज्रार्थं प्रसिद्धम् । पर्वतोयं खनिजसम्पत्तेः आगरः । अयः, म्याङ्गनीस इत्यादीनि अत्र महता प्रमाणेन प्राप्यन्ते ।

इतिहासः पुराणोल्लेखाः च[सम्पादयतु]

विन्ध्यः भारतस्य अत्यन्तं प्राचीनः प्रर्वतः । कुलपर्वतेषु अन्यतमौ ऋक्षवान्-पारियात्रौ अपि विन्ध्यस्य एव भागभूतौ । अस्मात् पर्वतात् नर्मदा, क्षिप्रा, करतोया, वैनगङ्गा, तमसा, दशार्णा, विपाशा, शोणभद्रा, महानदी इत्यादयः नद्यः प्रवहन्ति । अयं पर्वतः उत्तरदक्षिणभारतयोः दक्षिणोत्तरसीमा । अयं विन्ध्यः मध्यभारतस्य आधारः अपि । अयं विन्ध्यपर्वतः उत्तरदिशि अवतरन्निव गङ्गायाः उपत्यकापर्यन्तं प्रसृतः । विन्ध्यस्य विषये पुराणे एवं काचित् कथा श्रूयते । मेरुपर्वतं परितः सूर्येण क्रियमाणं प्रदक्षिणं दृष्टवतः विन्ध्यस्य असूया सञ्जाता । मयापि तादृशः गौरवः प्राप्तव्यः इति इच्छया उपर्युपरि अवर्धत सः । अनन्तरं सूर्यं ’मां परितः अपि प्रदक्षिणं करोतु’ इति प्रार्थयत् । किन्तु सूर्यः तथा नाकरोत् । कुपितः विन्ध्यः सूर्यस्य अवरोधं कुर्वन् इतोपि उन्नतः सञ्जातः । तेन सूर्यस्य चलनस्य अवरोधः सञ्जातः । तदा चिन्ताकुलाः देवताः विन्ध्यस्य गुरुम् अगस्त्यम् एतां समस्यां परिहर्तुं प्रार्थयन् । तदा देवतानां प्रर्थनानुसारं वाराणसीतः दक्षिणदिशि प्रस्थाय विन्ध्यपर्वतं प्राप्नोत् अगस्त्यः । गुरुं दृष्टवान् विन्ध्यः शिरः अवनमय्य साष्टाङ्गनमस्कारम् अकरोत् । “मम दक्षिणतः प्रत्यागमनपर्यन्तं भवान् एवमेव भवतु” इति आज्ञाप्य दक्षिणम् अगच्छत् अगस्त्यः । दक्षिणतः अगस्त्यः पुनः न प्रत्यागच्छत् एव । तस्मात् विन्ध्यः अपि शिरः उन्नेतुं नाशक्नोत् । दक्षिणे लोपामुद्राम् ऊढवान् अगस्त्यः । कालान्तरे लोपामुद्रा एव कावेरी अभवत् । एषा कथा अगस्त्यस्य दिग्विजयं बोधयति । प्राचीनतमिळुभाषायाः व्याकरणरचनां कृतवान् अगस्त्यः । सागरम् उल्लङ्घ्य विदेशेषु धर्मप्रसारं कृतवत्सु प्रथमः अगस्त्यः एव ।

अस्य पर्वतस्य विन्ध्याचले विन्ध्यावासिन्याः अथवा कौशिकीदेव्याः मन्दिरम् अस्ति । एतत् देवीभागवते उक्तेषु १०१ शक्तिपीठेषु अन्यतमम् । अस्मिन् मन्दिरे नवरात्रावसरे महान् उत्सवः प्रचलति । अत्र महाकाल्याः अष्टभुजेश्वर्याः च मन्दिरे अपि स्तः । विन्ध्यावसिनी, महाकाली, अष्टभुजेश्वरी च क्रमेण लक्ष्म्याः पार्वत्याः सरस्वत्याः च अंशभूताः । दुर्गासप्तशत्यनुसारं शुम्भ-निशुम्भयोः संहारार्थं पार्वत्याः अंशतः रूपिता शक्तिः एव महाकाली । देवक्याः अष्टमः पुत्रः इति बुध्या कृष्णस्य स्थाने सुप्तं शिशुं यदा कंसः मारयितुम् उद्युक्तः तदा तस्य हस्तात् स्खलित्वा अष्टभुजेश्वरीरूपेण कंसाय दर्शनं दत्तवती सा विन्ध्याचलं प्राविशत् इति । सा विन्ध्यावासिनी एव उज्जयिन्याः विक्रमादित्यस्य कुलस्वामिनी । स्कन्दपुराणानुसारं अस्मात् पर्वतात् दक्षिणदिशि पञ्चद्रविडाः ब्राह्मणसमुदायाः निवसन्ति | तेषां द्राविडः,कार्णाटकः, गौर्जरः,तैलंगवः महाराष्ट्रःइति पञ्चभेदाः सन्ति|विन्ध्याचलात् उत्तरदिशि गौडः, औत्कलः,मैथिलः,कान्यकुब्जः,सारस्वत इति पञगौडाः निवसन्ति |एतेषां परस्परं सहभोजनं यौनसम्बन्धं च नासीत् |

प्रवासोध्यमम्[सम्पादयतु]

प्रतिवर्षं सहस्रशः यात्रिकाः नर्मदायाः परिक्रमणकाले विन्ध्यस्य अनुपमं सौन्दर्यम् आस्वादयन्तः तस्य उपत्यकायां विद्यमानानि तीर्थक्षेत्राणि सन्दर्शन्ते । विन्ध्यस्य स्मरणमात्रेण मालवस्य, करूषस्य, मेकलस्य, उत्कलस्य, दशार्णस्य, भोजस्य, कोसलस्य, त्रैपुरस्य, वैदिषस्य, नैषदस्य, आवन्त्याः पराक्रमिणः राजानः, सुन्दराः प्रासादाः, बलाढ्यानि दुर्गाणि, स्वर्ण-वज्र-खनिः, तीर्थक्षेत्राणि च नेत्रयोः पुरतः आयान्ति ।

"https://sa.wikipedia.org/w/index.php?title=विन्ध्यपर्वतश्रेणी&oldid=393583" इत्यस्माद् प्रतिप्राप्तम्