"बौद्धधर्मः" इत्यस्य संस्करणे भेदः
(लघु) r2.6.5) (robot Modifying: ar:بوذية |
(लघु) r2.7.1) (robot Adding: os:Буддизм |
||
पङ्क्तिः ११६: | पङ्क्तिः ११६: | ||
[[nov:Budisme]] |
[[nov:Budisme]] |
||
[[oc:Bodisme]] |
[[oc:Bodisme]] |
||
[[os:Буддизм]] |
|||
[[pap:Budismo]] |
[[pap:Budismo]] |
||
[[pih:Budism]] |
[[pih:Budism]] |
१२:३७, १ आगस्ट् २०११ इत्यस्य संस्करणं
भगवता बुद्धेन बौद्धदर्शनं प्रवर्तितम्। भारतीयशास्त्राधारेषु बौद्धदर्शनस्य प्रभावः विशेषतः दृश्यते। बौद्धमूलग्रन्थाः भारते लुप्तप्रायाः सन्ति। विदेशीयपण्डितानां संशोधनस्य फलतः इदानीं कॆचन् ग्रन्थाः दृश्यन्ते। भगवतः बुद्धस्य अनन्तरं बौद्धेषु बह्व्य: शाखाः उत्पन्नाः। ताश्च चतस्रः प्राधान्येन - वैभाषिकाः, सौत्रान्तिका:, योगाचाराः, माध्यमिकाः चेति। वैभाषिकाणां हीनयानसम्प्रदायः। अन्येषां त्रयाणां महायानसम्प्रदायः। बौध्दानां 'शून्यवादः' प्रसिध्दः।'यत्र किमपि नास्ति तत्' इति अत्र शून्यपदस्य अर्थः न। बौध्ददर्शने शून्यपदस्य दार्शनिकः विशालः अर्थः अस्ति। बौध्दमतस्य धार्मिकाः बहवः अंशाः ' त्रिपिटके निरूपिताः सन्ति।
अस्य दर्शनस्य आद्यप्रवर्तकः श्रीबुद्धः अस्ति । शुद्धोदनस्य मायादेव्याः च सुतः गौतमगोत्रजः क्षत्रियः सिद्धार्थः एव पश्चात् बोधोदयात् बुद्धः इति प्रथितः अभवत् । बौद्धदर्शनस्य परमसिद्धान्तः ‘दु:ख्स्य मूलम् आशा’ इत्यस्ति । माध्यमिक-योगाचार -सौत्रान्तिक-वैभाषिकभेदात् चतुर्धा विभज्यते । प्रपञ्चम् अधिकृत्य तेषां दृष्टिः एवं श्रूयते-
- मुख्यो माध्यमिको विवर्तमखिलं शुन्यस्य मेने जगत्
- योगाचारमते तु सन्ति मतयस्तासां विवर्तोखिलः ।
- अर्थोस्ति क्षणिकस्त्वसानुमितो बुद्धेति सौत्रान्तिकः
- प्रत्यक्षं क्षणभङ्गुरं च सकलं वैभाषिको भाषते । इति ॥
बौद्धदर्शनप्रचारणं पालिभाषायाम् आसीत् । संस्कृतावगणना एव बुद्धमतनाशकारणेषु अन्यतमा इति विवेकानन्दादयः कथितवन्तः इति अत्र स्मर्तव्यम् । प्रत्यक्षम् अनुमानम् इति द्वे प्रमाणे बौद्धाः अङ्गीकुर्वन्ति ॥
आधाराः
- बौद्धदर्शनम्
-
धर्मचक्रः\
-
महाबोद्धिमन्दिरम्