"होलीपर्व" इत्यस्य संस्करणे भेदः
Content deleted Content added
होलाक:, होलीक:, होली, फाल्गुनिका, वसन्तोत्सव:, कामप... नवीन पृष्ठं निर्मीत अस्ती |
clean up, added stub, uncategorised tags using AWB |
||
पङ्क्तिः १: | पङ्क्तिः १: | ||
होलि-पर्वणि हार्दिकाभिनन्दनम्। |
|||
होलाक:, होलीक:, होली, फाल्गुनिका, वसन्तोत्सव:, कामपर्व इत्यादिभि: नामभि: निर्दिश्यमानम् एतत् पर्व समग्रे [[भारतम्|भारते]] सर्वत्रापि आचर्यते । फाल्गुणपूर्णिमायाम् एतत् पर्व आचर्यते । वङ्गदेशे अस्मिन् दिने एव श्री[[कृष्णः|कृष्णस्य]] दोलोत्सवम् आचरन्ति । होलीपर्वसम्बद्धा: बह्व्य: कथा: सन्ति [[पुराणम्|पुराणेषु]] । |
|||
*[[अभिनन्दन-वाक्यानि]] |
|||
होलिकानामिका [[हिरण्याक्षः|हिरण्याक्ष]]-[[हिरण्यकशिपुः|हिरण्यकशिपो:]] सोदरी । महामायाविनी सा [[अग्निः|अग्निसिद्धिम्]] अपि प्राप्तवती आसीत् । यद्यपि दैत्यराज: हिरण्यकशिपु: परम[[विष्णुः|विष्णुभक्तं]] स्वपुत्रं [[प्रह्लादः|प्रह्लादं]] मारयितुं बहुविधप्रयत्नानि अकरोत् तथापि स: सफल: नाभवत् । तस्मात् कुपित: हिरण्यकशिपु: सोदरीं होलिकाम् आदिशति प्रह्लादं मारयतु कथञ्चित् इति । तदा होलिका प्रह्लादं गृहीत्वा महाकाष्ठराशौ उपविशति । राक्षसान् च अग्निं ज्वालयितुं सूचयति । तेषां चिन्तनम् आसीत् होलिका अग्निसिद्धिं प्राप्तवती अस्ति, तस्या: किमपि न भवति । प्रह्लादम् अग्नि: दहति इति । अत: राक्षसा: होलिकाया: उपरि अपि काष्ठानि संस्थाप्य अग्निं ज्वालितवन्त: । किन्तु परिणाम: तु व्यतिरिक्त: जात: । होलिका तदग्नौ दग्धा सती तत्रैव मरणं पाप्नोत् । भगवद्भक्त: प्रह्लाद: भस्मराशित: बहिरागत्य सन्तोषेण नृत्यम् आरभत । अस्य दिनस्य स्मरणार्थं राक्षसत्वनाशाय सत्पुरुषरक्षणाय च होलीपर्व आचर्यते । |
|||
{{Uncategorized stub|date=सप्तम्बर् २०११}} |
|||
[[सत्ययुगम्|सत्ययुगे]] ढुण्ढानामिका मालिनामकस्य राक्षसराजस्य पुत्री आसीत् । सा कठोरं तप: आचर्य युवै: वा वृद्धै: वा मनुष्यै:, देवै: केनापि प्राणिना च मम मरणं न भवेत् इति वरं प्राप्तवती । बाला: किं कर्तुं शक्नुयु: इति तेषाम् उपेक्षां कृतवती । सा पृथु अथवा रघु इत्याख्यातस्य राज्ञ: काले अहर्निशं सञ्चरन्ती बालान् सर्वान् मारयति स्म । मायाविनीं तां राक्षसीं गृहीतुं केऽपि न शक्तवन्त: । [[वसिष्ठः|वसिष्ठ]]महर्षिद्वारा तस्या: रहस्यं ज्ञातवान् राजा तस्या: ग्रहणकार्ये बालान् एव नियुक्तवान् । फाल्गुनमासस्य पूर्णिमायां देशस्य सर्वे बाला: सम्भूय काष्ठकारीषेषु अग्निं प्रज्वाल्य नृत्यन्त: चीत्कुर्वन्त: तस्या: ग्रहणार्थं धावितवन्त: । भीता सा मनुष्यलोकादेव निर्गता । एतस्य स्मरणार्थम् होलीपर्व आचर्यते । |
|||
{{stub}} |
|||
[[शिवः|शिव:]] समाधिस्थितौ तप: आचरन् आसीत् । तदा तस्य तप: नाशितवान् [[कामः|काम]]देव: । तदा तपोभाङ्गात् क्रुद्ध: शिव: तृतीयं नेत्रम् उद्घाट्य कामदेवं दहति । तस्य दिनस्य स्मरणार्थं होलीपर्व आचर्यते । |
|||
एतद्दिने कामदेवम् आवह्य षोडशोपचारै: पूजयन्ति च । अस्मिन् दिने होलिका अथवा [[पोलिका|पोलिका]] इति विशिष्टं भक्ष्यं समर्पयन्ति देवेभ्य: । तद्दिने देवपितृभ्य: तर्पणं प्रदाय दोषशान्त्यर्थं होलीधूलिं नमस्कुर्वन्ति । गृहस्य अङ्गणं शुद्धीकृत्य अक्षतारङ्गवल्लीभि: अलङ्कृत्य मध्यभागे श्वेतवस्त्रयुक्तं पीठं स्थापयन्ति । तत्पुरत: श्वेत[[चन्दनम्|चन्दन]]-रक्तवस्त्र-पल्लवै: युक्तं कलशं प्रतिष्ठापयन्ति । तदुपरि [[रती|रती]]देवीसहितं कामदेवं प्रतिष्ठाप्य अर्घ्य-पाद्य-गन्ध-दीप-धूप-पुष्प-नैवेद्यानि समर्पयन्ति । महिला: रक्तवर्णस्य वस्त्रम् आभूषणानि च धृत्वा चन्दनवृक्षं पूजयन्ति । तेन आयुरारोग्यवृद्धि: भवति इति । पञ्चमीत: आरभ्य दश दिनानि विनोदार्थं चोरितानि काष्ठानि सङ्गृह्य होलिकादहनं कुर्वन्ति । पूर्णिमादिने अग्निप्रदीपनं कुर्वन्ति । ग्रामात् बहि: मध्ये वा होलिकादहनम् आचरन्ति । चण्डालगृहात् वा सूतिकागृहात् वा बालानां द्वारा अग्निम् आनाययन्ति होलिकादहनार्थम् । राजा एव स्वयं स्नानादिना शुद्ध: सन् स्वस्तिवाचनं कारयित्वा तूर्यनादसहित: आगत्य दानधर्मादिकम् आचर्य अग्निज्वालनं कुर्यात् । अग्नये [[घृतम्|घृतं]] [[दुग्धम्|दुग्धं]] च समर्पयन्ति । अनन्तरं [[जलम्|जलेन]] अग्निकेन्द्रं शान्तं क्रुत्वा एकान्तस्थाने स्थापयन्ति । [[नारिकेलम्|नारिकेलस्य]] [[दाडिमफलम्|दाडिमस्य]] [[बीजपूरफलम्|बीजपूरस्य]] च दानं कृत्वा रात्रिं गीतवाद्यनृत्यै: यापयन्ति । त्रिवारम् अग्ने: प्रदक्षिणं कृत्वा गृहमानयन्ति तम् अग्निम् । अपरस्मिन् दिने प्रात:काले तेन अग्निना एव जलम् उष्णीकृत्य स्नानं कुर्वन्ति । |
|||
:'''”दशस्यु: शोभमानास्तु काष्ठस्तेयं विधीयते ।''' |
|||
:'''चण्डालसूतिकागेहाच्छिशुहारितवह्निना ॥''' |
|||
:'''प्राप्तायां पूर्णिमायां तु कुर्यात्काष्ठप्रदीपनम् ।''' |
|||
:'''ग्रामद्बहिा मध्ये वा तूर्यनादसमन्वित: ॥''' |
|||
:'''स्नात्वा राजा शुचिर्भूत्वा स्वस्तिवाचनतत्पर: ।''' |
|||
:'''दत्वा दानानि भूरीणि दीपयेद्धोलिकाचितिम् ॥“''' |
|||
एवं रात्रौ होलिकोत्सवम् आचर्य अपरस्मिन् दिने प्रात:काले सर्ववर्गीया: अपि जना: मिलित्वा आमोदप्रमोदम् आचरन्ति । पाटलवर्णस्य जलं प्रथमं देवेभ्य: ज्येष्ठेभ्य: च समर्प्य प्रसादरूपेण परस्परं सिञ्चन्ति । |
|||
वङ्गदेशे तद्दिने श्रीकृष्णस्य दोलोत्सवम् आचरन्ति । तत्र त्रीणि वा पञ्च वा दिनानि पर्व आचरन्ति । फाल्गुनशुद्धचतुर्दश्यां रात्रौ मण्डपस्य पूर्वभागे अग्निदेवस्य आराधनं कुर्वन्ति । गोविन्दस्य विग्रहं कृत्वा १६ स्तम्भै: युक्तस्य मण्डपस्य वेदिकायां प्रतिष्ठापयन्ति । पञ्चामृताद्यै: अभिषेकं कृत्वा देवस्य अलङ्कारं कुर्वन्ति । अनन्तरं सम्यगलङ्कृतायाम् आन्दोलिकायां देवम् उपवेश्य सप्तवारं आन्दोलयन्ति । उत्सवस्य प्रथमदिने ज्वालितम् अग्निम् अन्तिमदिनपर्यन्तमपि रक्षन्ति । अन्तिमदिने देवम् २१ वारम् आन्दोलयन्ति । [[इन्द्रद्युम्नः|इन्द्रद्युम्नमहाराज:]] [[वृन्दावनम्|वृन्दावने]] एतत् पर्व आरब्धवान् इति विश्वसन्ति जना: । |
|||
[[वर्गः:संस्कृतिः]] |
|||
[[वर्गः:हिन्दुधर्मः]] |
|||
[[वर्गः:भारतम्]] |
|||
[[ar:مهرجان]] |
|||
[[arc:ܥܕܥܐܕܐ]] |
|||
[[bn:উৎসব]] |
|||
[[be:Фестываль]] |
|||
[[be-x-old:Фэстываль]] |
|||
[[bo:དུས་ཆེན།]] |
|||
[[br:Gouel-meur]] |
|||
[[bg:Фестивал]] |
|||
[[ca:Festival]] |
|||
[[cs:Festival]] |
|||
[[da:Festival]] |
|||
[[de:Festival]] |
|||
[[en:Festival]] |
|||
[[es:Festival]] |
|||
[[eo:Festivalo]] |
|||
[[fa:جشنواره]] |
|||
[[fr:Festival]] |
|||
[[ko:축제]] |
|||
[[hi:उत्सव]] |
|||
[[hr:Festival]] |
|||
[[id:Festival]] |
|||
[[is:Hátíð]] |
|||
[[it:Festival (antropologia)]] |
|||
[[he:פסטיבל]] |
|||
[[kn:ಹಬ್ಬ]] |
|||
[[hu:Fesztivál]] |
|||
[[ml:ഉത്സവം]] |
|||
[[mr:उत्सव]] |
|||
[[nl:Festival]] |
|||
[[ne:उत्सव]] |
|||
[[new:नख:]] |
|||
[[no:Festival]] |
|||
[[nn:Festival]] |
|||
[[pl:Festiwal]] |
|||
[[pt:Festival]] |
|||
[[rue:Фестівал]] |
|||
[[ru:Фестиваль]] |
|||
[[simple:Festival]] |
|||
[[sk:Festival]] |
|||
[[sr:Фестивал]] |
|||
[[sh:Festival]] |
|||
[[fi:Festivaali]] |
|||
[[sv:Festival]] |
|||
[[te:పండుగ]] |
|||
[[chr:ᏓᎾᎵᏍᏓᏴᎲᏍᎬ]] |
|||
[[tr:Festival]] |
|||
[[uk:Фестиваль]] |
|||
[[vi:Lễ hội]] |
|||
[[zh-yue:節]] |
|||
[[zh:节日]] |
०९:३८, २० सेप्टेम्बर् २०११ इत्यस्य संस्करणं
होलि-पर्वणि हार्दिकाभिनन्दनम्।
This article has not been added to any categories. Please help out by adding categories to it so that it can be listed with similar articles, in addition to a stub category. Please remove this tag after categorizing. (सप्तम्बर् २०११) |