"गान्धिजयन्ती" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{Infobox Holiday
|holiday_name = Gandhi Jayanti
|type = National
|longtype =
|image = Gandhi Juhu May1944.jpg
|caption =
|official_name =
|nickname =
|observedby = [[India]]
|date = 2nd of October
|observances = Community, historical celebrations.
|significance = Honours Mohandas Karamchand Gandhi's role in Indian Independence.
|relatedto =[[Republic Day (India)|Republic Day]] <br /> [[Independence Day (India)|Independence Day]]
}}
[[चित्रम्:MKGandhi.jpg|thumb|150px|right]]
[[चित्रम्:MKGandhi.jpg|thumb|150px|right]]



०६:३६, २० अक्टोबर् २०११ इत्यस्य संस्करणं

Gandhi Jayanti
Gandhi Jayanti
के आचरन्ति India
महत्त्वम् Honours Mohandas Karamchand Gandhi's role in Indian Independence.
दिनाङ्कः 2nd of October
रीतयः Community, historical celebrations.
सम्बद्धम् Republic Day
Independence Day

श्रीमोहनदासकरमचन्दगान्धिमहोदयः भारतस्य राष्ट्रपिता इति प्रसिद्धः अस्ति । एतस्य जन्मदिनम् अक्टोबरमासस्य द्वितीयदिवसे गान्धिजयन्ती इति आचरन्ति । न केवलं भारते विश्वेऽपि गान्धिजयन्ती आचरणं प्रचलति । अहिंसा, सत्याग्रहः, ग्रामोध्दारः, प्रकृतिचिकित्सा इत्यादिभिः गान्धिमहाभागः विश्वमान्यः आसीत् । भारतमातुः श्रेष्ठः पुत्रः महात्मा गान्धिः स्वातन्त्र्यान्दोलने सर्वेषां भारतीयानाम् आधारभूतः मार्गदर्शकः च आसीत् । अत एव गान्धिजयन्ती पर्व राष्ट्रियपर्वरुपेण आचर्यते । दक्षिण-आफ्रिकादेशेऽपि महात्मा गान्धिः उत्तमं कार्यं कृतवान् ।

पोरबम्न्दरुनगरे विद्यमानं गान्धिवर्यस्य जन्मगृहम्

मोहनदासकरमचन्दगान्धिः गुजरातराज्यस्य पोरबन्दर इति स्थले क्रिस्ताब्दे १८६९ तमे वर्षे अक्टोबरमासस्य द्वितीये दिने जन्म लब्धवान् । अस्य पिता श्री करमचन्दगान्धिः राजकोटसंस्थाने पोरबन्दरसंस्थाने च दिवान् इति प्रसिद्धः आसीत् । माता श्रीमती पुतलीबायी साध्वी व्रतोपावासादिधर्मानुसारिणी प्रेममयी च आसीत् । मोहनदासगान्धिमहोदयस्य बाल्यं पोरबन्दरनगरे उत्तमपरिसरे सहजसुन्दरम् आसीत् । मातुः सेवाभावः त्यागबुद्धिः सर्वप्रियता इत्येते गुणाः पुत्रेऽपि परिणामम् अकुर्वन् । विद्याभ्याससमये मोहनदासगान्धिः साधारणबालकः आसीत् । मोहनदासगान्धिः राजकोटनगरे प्रौढविद्याभ्यासं कृतवान् । विनयशीलः लज्जालुः विधेयः इति च सहपाठिषु प्रख्यातः आसीत् ।

बाल्ये सत्यप्रियतायाः पाठः

बालकः गान्धिः (१८७६तमवर्षस्य चित्रम्)

बाल्ये एकदा मोहनदासगान्धिः ‘श्रवणपितृभक्तिः ‘सत्यहरिश्चन्द्रः’ च इति नाटाकद्वयं दृष्टवान् । तदा बालकस्य मनसि महान् परिणामः दृष्टः आसीत् । मोहनदासः “श्रवणकुमारः इव भक्तियुक्तः तथा हरिश्चन्द्रः इव सत्यप्रियः भवामि “ इति निश्चितवान् । आजीवनं सत्यप्रियतां त्यक्तुं न इष्टवान् । मोहनदासगान्धिः बाल्ये मातुः सकाशात् पुराणकथाः श्रुतवान् । सदा प्रामाणिकः सन् स्वकृतं दोषमपि मात्रे कथयति स्म । ग्रामजीवनं तस्य इष्टम् आसीत् । अतः एव स्वदेशीवस्तुषु मोहनदासगान्धिमहोदयस्य अतीव प्रीतिः आसीत् । त्रयोदशे वयसि मोहनदासगान्धिः कस्तूरबा इति कन्यया सह विवाहं कृतवान् । त्रयाणां भ्रातॄणां विवाहः एकदा एव कृतः आसीत् । बाल्ये मोहनदासः कदापि असत्यं न वदति स्म । एकदा प्राथमिकविद्यालये निरीक्षकाः आगच्छन् । ते शब्दान् लेखितुम् अवदन् । बालकः मोहनदासः एकं शब्दं दोषपूर्णं लिखितवान् । अध्यापकः समीकर्तुं संज्ञया सूचितवान् तथापि मोहनदासः स्वापराधम् अङ्गीकृतवान् आसीत् । भारतदेशात् आङ्गलान् उच्चाटयितुं प्रबलानां सैनिकानां यूनां आवश्यकता अस्ति । अतः शरीरं बलिष्ठं कर्तुं मांसाहारः उत्तमः इति मित्रवचनात् अनिच्छन्नपि मांसाहारं स्वीकृतवान् । भ्रातुः ऋणविमोचनार्थं गृहे सुवर्णं चोरितवान् । किन्तु एतत् सर्वं दुष्टं कार्यम् इति मत्वा पित्रे पत्रमेकं लिखितवान् । अग्रे दुष्टं कार्यं न करोमि इति प्रतिज्ञां कृतवान् तथैव अग्रे अनुसरन् आसीत् ।

शिक्षणम्

मोहनदासस्य पत्रं दृष्ट्वा पिता करमचन्दगान्धिः अश्रूणि अमुञ्चत तदा मोहनदासस्य हृदयं पश्चात्तापेन पूर्णम् आसीत् । मोहनदासस्य पत्नी कस्तूरबा साध्वी विद्यावती आसीत् । तस्याः विद्यादानद्वारा तस्याः मार्गदर्शनं कर्तुं पतिः मोहनदासगान्धिः इष्टवान् आसीत् । १८८८ तमे वर्षे मोहनदासगान्धिः न्यायशास्त्रस्य अध्ययनार्थम् इङ्ग्लेण्ड्देशम गन्तुं प्रयत्नं कृतवान् । कुटुम्बे विरोधः आसीत् । अन्ते मोहनदासगान्धिः मातरं “मांसं न खादामि, मदिरां न पिबामि, परस्त्रीव्यामोहं न करोमि” इति प्रतिज्ञापूर्वकम् उक्त्वा तत्थैव आचरणं कर्तुं निश्चितवान् । अनन्तरमेव लण्डननगरं प्रति गन्तुम् अनुज्ञा दत्ता । त्रीणिवर्षाणि यावत् लण्डननगरे न्यायशास्त्राध्ययनं कृत्वा ‘ब्यारिस्टर्’ पदवीं प्राप्तवान् मोहनदास गान्धिः १८९१ तमे वर्षे भारतदेशं प्रत्यागतवान् । तदा एव मातुः मरणवृत्तान्तं श्रुत्वा दुखितः अभवत् । भारतदेशे न्यायवादिवृत्तिं कर्तुं प्रयत्नं कृतवान् । किन्तु असफलः सन् अतीव निराशः अभवत् ।

दक्षिण-आफ्रिकादेशे गान्धिः

दक्षिण-आफ्रिकादेशे गान्धिः

एतस्मिन् समये दक्षिणआफ्रिकादेशे विवादे आङ्ग्लन्यायवादिने साहाय्यकरणस्य अवसरः प्राप्तः अभवत् । एतदर्थं भ्रात्रा अनुमतिं प्राप्य मोहनदासगान्धिः दक्षिणआफ्रिकादेशं गतवान् । तत्र कार्यकरणसमये रेलयानेन यात्रासमये यानात् निष्कासितः सन् अतीव दुःखितः अभवत् । दक्षिणआफ्रिकादेशे अनेके भारतीयाः श्रमिकाः पीडिताः आसन् । दादा अब्दुल् सेटनामकस्य विवादः परस्परं वार्तालापेन द्वयोः पक्षयोः इच्छानुसारं समाप्तम् आसीत् किन्तु भारतीयानां श्रमिकाणां समस्याः परिहर्तुं कार्यं कर्तुं गान्धिः तत्रैव स्थातव्यम् इति निर्धारं कृतवान् । एतदर्थं नेटाल्-इण्डियन्-काङ्ग्रेस इति संस्थां स्थापयित्वा कार्यरतः अभवत् । तत्र आन्दोलनद्वारा भारतीयानां कष्टपरिहारकार्ये यशस्वी अभवत् । तेन गान्धिमहाभागस्य विश्वे एव प्रसिध्दिः अभवत् । अहिंसारीत्या सत्याग्रहः सफलः आसीत् । १९२५ तमे वर्षे मोहनदासगान्धिः भारतदेशं प्रत्यागतवान् ।

स्वातन्त्र्यान्दोलनस्य नेतृत्वम्

लवणसत्याग्रहस्य समापनावसरे दाण्डीनगरे गान्धिः (१९३०, एप्रिल् ५ दिनाङ्कः)

भारतदेशे काङ्ग्रेससंस्था १८८५ तमे वर्षे एव स्थापिता आसीत् स्वातन्त्र्यान्दोलनकार्यं करोति स्म । गान्धिः काङ्ग्रेससंस्थायाम् प्रविष्टः अहमदाबादसमीपे सत्याग्रहार्थम् आश्रमं स्थापयित्वा अत्यन्तसरलरीत्या वासं कर्तुम् इष्टवान् । सरलजीवनम् उदात्तचिन्तनं राष्ट्रसेवा स्वातन्त्र्यलाभाय कार्यकरणं गान्धिमहात्मनः कार्यम् अभवत्। अहिंसापूर्वकं स्वातन्त्र्यप्राप्तिः महात्मा गान्धिः सरदारपटेलः जवाहरलालनेहरुः लालबहादुरशास्त्री राजेन्द्रप्रसादः इत्यादिभिः अनेकैः नायकैः प्राप्तव्यः विषयः आसीत् । लाला लजपतरायः सुभाषचन्द्रबोसः इत्यादिप्रमुखाः नायकाः आधुनिककाले क्रान्तिमार्गं स्वीकृतवन्तः आसन् । एवं सर्वेषां प्रयत्नेन भारतदेशः १९४७ तमे वर्षे आगष्टमासे १५दिनाङ्के स्वतन्त्रः अभवत् । अङ्गलाः भारतं त्यक्त्वा स्वदेशं गतवन्तः । भारते अस्मदीयः सर्वकारः स्थापितः अभवत् । डा बाबूराजेन्द्रप्रसादः राष्ट्राध्यक्षः, श्री सर्वपल्ली राधाकृष्णन् महोदयः उपराष्ट्रपतिः अभवत् । प्रधानमन्त्रीरुपेण श्रीजवाहरलालनेहरुः अधिकारं स्वीकृतवान् । महात्मा गान्धिः अधिकारं न स्वीकृतवान् । महात्मागान्धिः भारतपाकिस्तानविभागे विरोधम् प्रकटितवान् आसीत् । किन्तु भारतेन साकं पाकिस्तानदेशे अपि स्वातन्त्र्यं प्राप्तम् इति तु बहुजनानां दुःखकारणम् अभवत् । १९४८ तमे वर्षे जनवरी ३० तमे दिने नाथूरामगोडसे मोहनदासगान्धिमहोदस्य हत्यां कृतवान् । भारतदेशे मोहनदासकर्मचन्दगान्धिमहोदयस्य जन्मदिनं गान्धिजयन्ती इति अक्टोबरमासस्य द्वितीये दिने आचरन्ति । तस्मिन् दिने रघुपति राघव राजाराम पतित पावन सीताराम इत्यादिशान्तिप्रार्थनां कुर्वन्ति । श्रमदानं, पथसञ्चारः, गान्धिमहोदयस्य पुष्पाञ्जलिप्रदानं महात्मागान्धिमहोदयस्य कार्याणां स्मरणं, रक्तदानम् इत्यादि- अनेककार्यक्रमाः प्रचलन्ति ।

"https://sa.wikipedia.org/w/index.php?title=गान्धिजयन्ती&oldid=139168" इत्यस्माद् प्रतिप्राप्तम्