"रजस्तमश्चाभिभूय..." इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
thumb|right|300px|गीतोपदेशः :'''रजस्तमश्चाभिभूय स... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०६:३२, २१ अक्टोबर् २०११ इत्यस्य संस्करणं

गीतोपदेशः
रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥ १० ॥


पदच्छेदः

रजः तमः च अभिभूय सत्त्वं भवति भारत रजः सत्त्वं तमः च एव तमः सत्त्वं रजः तथा ॥ १० ॥

अन्वयः

भारत ! रजः तमः च अभिभूय सत्त्वं भवति । रजः सत्त्वं च अभिभूय तमः एव (भवति) तथा तमः सत्त्वम् अभिभूय रजः (भवति) ।

पदार्थः

अभिभूय = अतिक्रम्य ।

तात्पर्यम्

अर्जुन ! यद्यपि एतेषां त्रयाणां गुणानां बुद्धौ समानत्वं तथापि क्वचित् सत्त्वम् अन्यत् गुणद्वयम् अधःकृत्य स्वकार्यं सुखं जनयति । क्वचित् रजः अन्यत् गुणद्वयम् अधःकृत्य स्वकार्यम् दुःखम् । क्वचित् च तमः अन्यत् गुणद्वयम् अधःकृत्य स्वकार्यम् अविवेकम् । अत एवेदं प्राणिषु तारतम्यम् ।

सम्बद्धसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=रजस्तमश्चाभिभूय...&oldid=139566" इत्यस्माद् प्रतिप्राप्तम्