"सर्वद्वारेषु देहेऽस्मिन्..." इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
thumb|right|300px|गीतोपदेशः :'''सर्वद्वारेषु देहे... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०६:५५, २१ अक्टोबर् २०११ इत्यस्य संस्करणं

गीतोपदेशः
सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते ।
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥ ११ ॥

पदच्छेदः

सर्वद्वारेषु देहे अस्मिन् प्रकाशः उपजायते ज्ञानं यदा तदा विद्यात् विवृद्धं सत्त्वम् इति उत ॥ ११ ॥

अन्वयः

अस्मिन् देहे सर्वद्वारेषु यदा ज्ञानं प्रकाशः उपजायते तदा सत्त्वं विवृद्धम् उत इति जानीयात् ।

पदार्थः

सर्वद्वारेषु = सकलेन्द्रियेषु
ज्ञानम् = ज्ञानरूपम्
प्रकाशः = ज्योतिः
उपजायते = उद्भवति
विवृद्धम् = प्रवृद्धम्
विद्यात् = जानीयात् ।

तात्पर्यम्

पुरुषस्य यदा श्रोत्रचक्षुःप्रभृतिभिः इन्द्रियैः पदार्थस्य यदा यथावत् ज्ञानं भवति तदा तस्मिन् सत्त्वगुणः वृद्धिं गतः इति ज्ञातव्यम् ।

सम्बद्धसम्पर्कतन्तुः