"भारतीयदर्शनशास्त्रम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Added {{essay-like}} and {{wikify}} tags to article
(लघु) दर्शनम् भारतीयदर्शनशास्त्रम् प्रति प्रविचलित।
(भेदः नास्ति)

०९:१८, २२ अक्टोबर् २०११ इत्यस्य संस्करणं

दर्शनम्

दृश्यते अवबुध्यते वस्तुतत्त्वम् अनेन इति दर्शनम् । परमं वस्तुतत्त्वम् एकं चेदपि दृष्टिकोणस्य भेदमनुसृत्य दर्शनानां भेदः सञ्जातः । एतेषु चार्वाक्-बौद्ध-जैनदर्शनानि नास्तिकदर्शनानि, अन्यानि आस्तिकदर्शनानि इति गण्यन्ते । ये वेदप्रामाण्यं न अङ्गीकुर्वन्ति ते नास्तिकाः । आस्तिकानां तु परमं प्रमाणं वेदाः भवन्ति| दर्शनस्य उदयकालः वेदकाले एव । संहितायामुदितं दर्शनम् उपनिषदि पल्लवितम् इति श्रूयते च | श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः । मत्वा च सततं ध्येयः इति दर्शनहेतवः ॥ अद्यत्वे सर्वं वैज्ञानिकदृष्ट्या विविच्यते । प्रपञ्चे जीवस्य चेष्टाः दृश्यन्ते । भोजनं, स्वापः, अन्यान्यक्रियाः प्रापञ्चिकाः भवन्ति । एतत् इन्द्रियग्राह्यं वर्तते । अतः दृश्यम् इति व्यवहारः । एवम् अदृश्यं जगत् महत्वपूर्णं विशिष्टं च भवति । विज्ञानं प्रायशः दृश्यवस्तुनः विश्लेषणं करोति । अदृश्यकल्पना विज्ञानविरुद्धम् इति केचन वदन्ति । दर्शनप्रतिपादकाः ग्रन्थाः बहवः उपलभ्यन्ते । तत्र ग्रन्थेषु दृश्य-अदृश्यप्रपञ्चस्य विवेचनम् उपलभ्यते । सत्यान्वेषणं, तत्वनिरुपणम् - भारतीयदर्शनस्य परमं लक्ष्यम् । महाभारते सत्यस्य महत्वं प्रतिपादितम् । यथा- सत्यधर्मच्युतात् पुंसः क्रुद्धादर्शाविषादिव । अनास्तिकोऽप्युद्विजते जनः किं पुनरास्तिकः ॥ एवं दर्शनेन लौकिकम् अलौकिकं च ज्ञानं लभ्यते । दार्शनिकतत्वानाम् अधिगमेन मानवः प्रापञ्चिकजीवने परमं सुखं प्राप्नोति । प्राचीनकालतः आत्मतत्वं जिज्ञासवः दार्शनिकाः दर्शनसाहित्यं रचयामासुः । मानवजीवनस्य विविधक्षेत्रेषु दार्शनिकं तत्वं स्थापयामासुः ।भारतीयदर्शनं प्राधान्येन द्वेधा विभक्तं दृश्यते अस्तिकं नास्तिकम् इति । वेदस्य प्रामाण्यम् ईश्वरस्य अस्तित्वम् अभ्युपगन्तारः अस्तिकाः तद्भिन्नाः नास्तिकाः इति निरुप्यते । जीवमात्रस्य सुखप्राप्तिः दुः खनिवृत्तिः उद्देश्यं भवति । तदर्थमेव दर्शनं उपदिशति । सांसारिकजीवने यशः प्राप्तुं तदनन्तरं चिरसुखम् अवाप्तुं च दर्शनं सहकरोति । इह-परयोः सर्वहितं साधयितुं प्रवर्तते दर्शनम् । सर्वस्तरतु दुर्गाणि, सर्वो भद्राणि पश्यतु । सर्वः कामानवाप्नोतु, सर्वः सर्वत्र नन्दतु ॥ इत्युक्तिः दर्शनस्य उपदेशॆ वर्तते । अधिभौतिक= आधिदैविक=आध्यात्मिकदुःखं निवार्य परमं सुखं प्रापयति दर्शनम् इति कारणेन शिक्षणक्षेत्रे प्राथमिकस्तरादारभ्य दर्शनबोधनम् अनिवार्यं स्यात् । पूर्वं दर्शनानां द्वैविध्यं निरिपितम् । तदनुसारं चार्वाक-जैन-बौद्धदर्शनानि नास्तिकदर्शनानि, न्याय -वैशेषिक-सांख्य योग-मीमांसा-वेदान्तदर्शनानि आस्तिक-दर्शनानि इति कथ्यन्ते स्म। तदत्र संक्षेपेण उपस्थाप्यते ।

प्रसि्द्धानि दर्शनानि

  1. चार्वाकदर्शनम्
  2. बौद्धदर्शनम्
  3. जैनदर्शनम्
  4. साङ्ख्यम्
  5. योगदर्शनम्
  6. न्यायदर्शनम्
  7. वैशेषिकम्
  8. मीमांसा
  9. वेदान्तः

आधाराः

दर्शनशिक्षणम्, शिक्षायाः सामाजिकाधाराश्च

श्रेणी: भारतीयतत्त्वशास्त्रम्