"कूर्मपुराणम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) gen fixes using AWB
(लघु) r2.7.2) (Robot: Adding mr:कूर्म पुराण
पङ्क्तिः ५७: पङ्क्तिः ५७:
[[ja:クールマ・プラーナ]]
[[ja:クールマ・プラーナ]]
[[kn:ಕೂರ್ಮ ಪುರಾಣ]]
[[kn:ಕೂರ್ಮ ಪುರಾಣ]]
[[mr:कूर्म पुराण]]
[[ne:कूर्म पुराण]]
[[ne:कूर्म पुराण]]
[[pl:Kurmapurana]]
[[pl:Kurmapurana]]

०३:५५, २ नवेम्बर् २०११ इत्यस्य संस्करणं

कूर्मपुराणम् (Kurmapurana)अष्टादशसु महापुराणॆषु अन्यतमम् अस्ति | इदं पुराणं साक्षात् कूर्मावतारी भगवान् विष्णुः नारदम् उपदिष्टवान् इति श्रूयतॆ | नारदमहर्षिः सूतमुनिम् इदम् उपदिष्टवान् अस्ति | कूर्मपुराणं द्विधा विभक्तम् अस्ति - पूर्वभागः उत्तरभागः चॆति | पूर्वभागॆ ५३ अध्यायाः, उत्तरभागॆ ४६ अध्यायाः विद्यन्तॆ | मूलतः कूर्मपुराणॆ चतस्रः संहिताः आसन् इति श्रूयतॆ | ताः - ब्राह्मी, भागवती, सौरी, वैष्णवी च |ब्राह्मीसंहितायां ६००० श्लॊकाः, भागवतीसंहितायां ४००० श्लॊकाः, सौरीसंहितायां २००० श्लॊकाः, वैष्णवीसंहितायां ५००० श्लॊकाः विद्यनतॆ | अधुना उपलभ्यमानाः श्लॊकाः ब्राह्मीसंहितायां विद्यमानाः |

अन्तर्विषयाः

प्रजापतीनाम् उगमः
वर्णाश्रमधर्मः
पुरुषार्थानां विवरणम्
महाभक्तानां गुणस्वभावव्यवहारादयः
जीवनस्य विभिन्नस्तराः
ब्रह्माण्डस्य हिरण्यगर्भस्य उगमः
कालस्य गणना
ईश्वरस्य महिमा
भुवनानां विवरणम्
ग्रहादीनां विवरणम्
नदीनां विवरणम्
मुक्तिमार्गः

कॆचन पुराणॊक्तयः

१ अस्मिन् पुराणॆ पार्वत्याः सहस्रनाम उपलभ्यतॆ | (अध्यायः - १२।६२-१९८)

शिवॊमा परमा शक्तिरनन्ता निष्कलामला |
शान्ता माहॆश्वरी नित्या शाश्वती परमाक्षरा ||६२||

२ पञ्चदशॆ अध्यायॆ ब्रह्मा दक्षम् उपदिशति यत् यः विष्णुः सः एव रुद्रः सः ऎव जनार्दनः अस्ति | एवं यः अवगच्छति सः वॆदॊक्तम् अङ्गीकरॊति इत्यतः मुक्तिं लभतॆ इति -

मन्यन्तॆ तॆ जगद्यॊनिं विभिन्नं विष्णुमीश्वरात् ||८८||
मॊहादवॆद निष्ठत्वात्तॆ यान्ति नरकं नराः |
वॆदानुवर्तिनॊ रुद्रं दॆवं नारायणं तथा ||८९||
ऎकीभावेन पश्यन्ति मुक्तिभाजो भवन्ति तॆ |
यॊ विष्णुः स स्वयं रुद्रॊ यॊ रुद्रः स जनार्दनः ||९०|| पूर्वभागः १।८८-९०

३ कूर्मपुराणस्य उत्तरभागॆ साङ्खययॊगः विवृतः अस्ति -

यथा नदीनदा लॊकॆ सागरॆणैकतां ययुः |
दद्वदात्माक्षरॆणासौ निष्कलॆनैकतां व्रजॆत् ||३८||
तस्माद्विज्ञानमॆवास्ति न प्रपञ्चॊ न संस्थितिः |
अज्ञानॆनावृतं लॊकॆ विज्ञानं तॆन मुह्यति ||३९||
विज्ञानं निर्मलं सूक्षं निर्विकल्पं तदव्ययम् |
अज्ञानमिततत्सर्वं विज्ञानमिति तन्मतम् ||४०||
एतद्धः कथितं साङ्ख्यं भाषितं ज्ञानमुत्तमम् |
सर्ववॆदान्तसारं हि यॊगस्तत्रैकचित्तता |४१|| उत्तरभागः २।२।३८-४१

४ जैनमतस्य प्रथमतीर्थङ्करस्य ऋषभदॆवस्य विषयः कूर्मपुराणॆ तत्र तत्र उल्लॆखितः अस्ति -

हिमाह्वयं तु यद्वर्षं नाभॆरासईन्महात्मनः |
तस्यर्षभॊवत्पुत्रॊ मॆरुदॆव्यां महाद्युतिः ||३७||
ऋषभाद्भरतॊ जज्ञॆ वीरः पुत्रशताग्रजः |
सॊभिषिच्यर्षभः पुत्रं भरतं पृथिवीपतिः ||३८|| पूर्वभागः १।४१।३७-४१

५ उत्तरभागस्य सप्तमॆ अध्यायॆ शिवः स्वयम् आत्मनः महिमानं वर्णयति -

यॊगिनामस्म्यहं शम्भुः स्त्रीणां दॆवी गिरीन्द्रजा |
आदित्यानामहं विष्णुर्वसूनामस्मि पावकः ||४||
रुद्राणां शङ्कर्श्चाहं गरुडः पततामहम् |
ऎरावतॊ गजॆन्द्राणां रामः शस्त्रभृतामहम् ||५|| २।७।४-७
श्रॆणी: पुराणानि
श्रॆणी: संस्कृतसाहित्यम्
"https://sa.wikipedia.org/w/index.php?title=कूर्मपुराणम्&oldid=141132" इत्यस्माद् प्रतिप्राप्तम्