"मनुस्मृतिः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) gen fixes using AWB
(लघु) added Category:स्मृतयः using HotCat
पङ्क्तिः २७: पङ्क्तिः २७:
[[वर्गः:Sanskrit words and phrases|मनुस्मृतिः]]
[[वर्गः:Sanskrit words and phrases|मनुस्मृतिः]]
[[वर्गः:Customary legal systems|मनुस्मृतिः]]
[[वर्गः:Customary legal systems|मनुस्मृतिः]]
[[वर्गः:स्मृतयः]]


[[cs:Smrti]]
[[cs:Smrti]]

१०:५९, १५ नवेम्बर् २०११ इत्यस्य संस्करणं

मनुस्मृतेः तालपत्रम्

स्मृतिशास्त्रेषु मनुस्मृतिः प्राचीनतमा भवति । मनुमहर्षि र्मानवसभ्यताया प्रतिष्ठाता तथा तेन प्रणीता मनुसंहिता पृथिव्याः सर्वप्रथमंप्रमुखञ्च विधिशास्त्रमिति प्रणिगदनस्य याथार्थ्यं शास्त्रकारौः बहुमानपुरः सरं प्रमाणीकृतम् । मनोरपत्यं मानव इति व्युत्पत्तिगतादर्थादवगाम्यते मानवानां सर्वेषां संस्कृतेः, धर्मस्य पुरुषार्थस्य च प्राणप्रतिष्ठाता महर्षि र्मनुरिति कथनं वस्तुतो यथार्थमेव प्रतिभाति । तत् प्रणीता संहिताऽपि पृथिव्याः सर्वमान्येति स्वक्रियते । विदेशिभिः विद्वदभिरपि मनुस्मृतेः प्राचीनता स्वीक्रियते । मनुः इति शब्दः ऋग्वेदेऽपि समुपलभ्यते ऋक् १/११४/२, १/८०/१६ तथा २/२३/१३ सूक्तानि द्रष्टव्यानि/ एवमेव ऋगवेदस्याष्टममण्डले २७-३१ सूक्तानां रचयिता मनुवैवस्वत एवास्तीति दरिदृश्यते । प्रोक्तञ्च-

विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽव्रवीत् ।
भगवाद्गीता ४ / १ ।:

पृथिव्याः प्रायो विभिन्नदेशानां विधिप्रणयनप्रसङ्गे भगवतो मनुमहर्षे र्नामोल्लेखो दृश्यते । भारताद् बहिः प्रायः कतिपयानां देशानां विधिशास्त्रेषु मनुसंहितायाः केचनांशा अपि समुद्धृता दृश्यन्ते । आचार-व्यवहार-विधिनिषधादीनां व्यवस्थानां तुलनात्मकधिया मनुस्मृतिरद्वितीयाऽनुपमा चास्ति । मनुस्मृतौ एतस्मात् कारणात् लिखितमस्ति

"एतद्देशप्रसूतस्य सकाशादग्रजन्मनः ।:
स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥:

समाजे मनुस्मृते र्माहात्म्यदृष्टया मनुसंहिता मपि मानव धर्मसूत्रमिति कथनं नैव युक्तम । यतोहि धर्मसूत्रस्य शैली सूत्रात्मिका, स्मृतेश्च रीतिः शलोकात्मिका भवति । स्मृतीनां विशयविवेचनं क्रमवद्धं शृङ्खलितञ्च । सूत्राणाञ्च विषयविन्यासो विपर्यस्तो दृश्यते । एक एको विषयो भूयो भूयः पौनः पुन्येन विचार्यते । अतः शैलीभेदेन स्मृतिसाहित्य-सूत्रसाहित्ययो र्मध्ये भेदो विद्यत एव । यद्यपि द्वयोः साहित्ययोः सृष्टिः (ख्री० पू० तृतीयशतकात् पञ्चमशतकमध्ये ) तथापि स्मृतिसाहित्यस्य प्रचीनता सूत्रसाहित्यस्य चार्वाचीनता स्वीकार्या एवास्ति किञ्च मानवधर्मसूत्रं मनुस्मृतिरुपेण कालान्तरेण परिणमितं विषयसाम्यादिति केचन वदन्ति । किन्तु तन्न समीचीनम्, मानवधर्मसूत्रस्यास्तित्वाभावात् । मनुस्मृतेः वैदिकस्मृतित्वेन प्रसिद्धेः वेदार्थानुमापकत्वेन वेदार्थोपनिबद्धत्वात् मनुस्मृतेः प्राधान्यं प्रत्यपादि । यथोक्तं वृहस्पतिना -

"वेदार्थोपनिबद्धत्वात् प्रधान्यं हि मनोः स्मृतम् ।:
मन्वर्थविपरीता या सा स्मृति र्नैव शस्यते ॥:

पुनश्च यद् वै मनुरवदत् तद् भेषजम् इति स्मृति वचनात् मनुस्मृतेः प्राधान्यं प्राशस्त्यं प्राचीनत्वञ्च विद्यत इति नास्ति काचन विप्रतिपत्तिः । मनुश्च स्वायम्भुवमनुरिति निश्चीयते । भगवन्नारायणात प्राप्तं लक्षश्लोकात्मकं धर्मशास्त्रं ब्रह्मा स्वायम्भुवे मनवे प्राह । मनुः संक्षिप्य भृगवे प्राह । भृगुश्च अन्येभ्य ऋषिभ्य एवं परम्पपरया मनुस्मृति रियं जगति प्रतिष्ठा जाता सम्प्रति समुपलब्धायां मनुस्मृतौ २३८४ श्लोकाः विद्यन्ते । न केवल भारते अपितु बहुषु राष्ट्रेष्वपि मनुस्मृतेः प्रचारप्रसारो वर्त्तते ।

समाजस्य विधिव्यवस्थां लक्षीकृत्य मानवजीवनस्याव श्यक्तानुसारेण सर्वविधा विषया भगवता मनुना स्वसंहतियां सन्निवेशति एव । मनुस्मृतौ द्वादशाध्यायाः सन्ति । तेषु प्रथमेऽध्याये सृष्टिरचना तथा प्राणिनाम उत्पत्तिः, द्वितीयेऽयाये जात्कर्मादिसंस्कारविधिः, ब्र्ह्मचारिधर्मः, गुरोरभिवादनविधिः विचारितः । ततस्तृतीयेऽध्याये समावर्त्तन-विवाह-नित्यश्राद्धादीनां विचारः । चतुर्थे ऽ ध्याये ऋतप्रमुतादिजीविकानां लक्षणम् स्नातकधर्माश्च प्रतिपादिताः । ततः पञ्चमाध्याये भक्ष्या भक्ष्यप्रकरणस्य विचारः, द्रव्यशुद्धिविचारः, अशौचविचारश्च कृतः । तदनु षष्ठाध्याये वानप्रस्थाश्रम-सन्यासाश्रमयो धर्माः, सप्तमेऽध्याये राजधर्मः, अष्टमाध्याये व्यवहारपदानां विवेचनम्, साक्षिप्रश्नविधानञ्च, नवमाध्याये दायभागः, स्त्रीपुंधर्म द्यूतसमाहवयादि -विवादपदानि विवेचनानि, दशमाध्याये आपद्धर्मः जातिवर्णविवेकश्च विचारितः, एकाडशाध्याये पापानां विविधत्वम्, प्रायश्चित्तानां च विचारः कृतः । द्वादशाध्याये कर्मानुसारेण सांसारिकगतयः देशधर्म-जातिधर्मादीनां च विवेचनं कृतम । इयञ्चोपलब्धा मनुस्मृतिः भृगुप्रोक्तेति कथ्यते ।

अस्याः स्मृतेरुपरि नवटिकाः प्रकाशिताः सर्वत्र ममुपलभ्यते । तासु कुल्लूकभट्टस्य मन्वर्थमुक्तावली प्रसिद्धा प्रामाणिकी विद्वज्जनादृता चेति वक्तुं शक्यते । एवमेव तपोमहत्त्वस्य तथा कृतकर्मणां च फलादीनां वर्णनमपि साङ्गेपाङ्गतया दृश्यते । मनुष्याणां नियमविधिः, अध्ययनाध्यापनविधिः, राजधर्मः, गार्हस्थ्यधर्मः, तथा वर्णाश्रमानुकूलानां धर्माणां सर्वविधोपायश्च सर्वं किञ्चित् मनुस्मृतौ बर्णितमस्ति, यस्या अनुशीलनेनावश्यं मनुष्यः सम्यकतया सचेतनः पूतचित्तो नागरिकः सन् समाजे जनकल्याणं साधयितुं क्षमो भवेत् । सर्वासामितरासां स्मृतीनां ‘मनुस्मृतिः’ मूलाधारो भवतीति कथनं सर्वथा समीचीनमिति ।

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=मनुस्मृतिः&oldid=143692" इत्यस्माद् प्रतिप्राप्तम्