"गुरुत्वाकर्षणशक्तिः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
thumb|180px|गुरुत्वशक्तिः विद्यमानेषु चत... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

१५:४४, १५ नवेम्बर् २०११ इत्यस्य संस्करणं

गुरुत्वशक्तिः

विद्यमानेषु चतुर्षु प्रधानेषु बलेषु गुरुत्वमपि अन्यतमम् । यया शक्त्या द्रव्यराशिसहितयोः द्वयोः वस्तुनोः परस्पराकर्षणं भवति सा एव गुरुत्वशक्तिः इति आख्याता । तां शक्तिं वयं प्रतिनित्यम् अनुभवामः । एतया शक्त्या दूरस्थपदार्थाः निकटम् आयान्ति । तत्कारणादेव सूर्यं परितः भूमिः, भूमिं परितः चन्द्रः इत्येवं आकाशकायेषु परिभ्रमणं भवति । आधुनिकविज्ञानिषु न्यूटन् एव अस्य आविष्कर्ता इति उच्यते । ततः प्रागपि गेलिलियो गेलिलि इति विज्ञानी एतस्य बलस्य उल्लेखं कृतवान् । तस्य रीतिः अन्यादृशी आसीत् ।

Gravity field near earth

गेलिलियो प्रयोगः

गेलिलियो इटलिदेशस्य प्रमुखस्थाने पीसागोपुरे एकं प्रयोगं कृतवान् । पीसागोपुरात् विषमद्रव्यराशियुक्तपदार्थद्वयं त्यक्तवान् । किन्तु उभयोः अपि भूप्राप्तिः समानकाले एव अभवत् । सामान्यजनानाम् उपपत्तिः आसीत् यत् भारतमं वस्तु शीघ्रमागच्छति न्यूनभारं वस्तु मन्दमागच्छति इति । किन्तु एतस्य प्रयोगस्य अनन्तरम् एषः प्रस्तावं कृतवान् यत् भूमेः गुरुत्वबलं तत्तद्द्रव्यराशिमनुसृत्य एव आकर्षति । तत्र अनुपातः समानः भवति ।

न्यूटन्-गुरुत्वसिद्धान्तः

यद्यपि गेलिलियो पूर्वमेव गुरुत्वबलस्य विषये प्रस्तावं कृतवान् । तथापि formula रूपेण पुनः च गणितशास्त्रानुगुण्येन कथितवान् न्यूटन् एव । सिद्धान्त: - जगति विद्यमानाः सर्वे द्रव्यराशिमन्तः पदार्थाः परस्परम् अन्यं पदार्थम् आकर्षन्ति ।

"https://sa.wikipedia.org/w/index.php?title=गुरुत्वाकर्षणशक्तिः&oldid=143750" इत्यस्माद् प्रतिप्राप्तम्