"दूरदर्शनम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.6.5) (robot Adding: ks:ٹٮ۪لِوِجَن
(लघु) clean up, replaced: ॆ → े (25), ॊ → ो (5) using AWB
पङ्क्तिः ३: पङ्क्तिः ३:
<br>
<br>
[[चित्रम्:Sony FD Triniton KV-BZ213N50.jpg|thumb|दूरदर्शनम्]]
[[चित्रम्:Sony FD Triniton KV-BZ213N50.jpg|thumb|दूरदर्शनम्]]
इदानीं प्रपञ्चॆ वार्तादिकं ज्ञातुं, मनॊरञ्जनार्थं, ज्ञानविकासार्थं च बहुविधानि साधनानि सन्ति । तॆषु '''दूरदर्शनम्''' अपि अन्यतमम् । एतत् दृश्यं श्रव्यं च इति कारणतः एतस्य प्रभावः अत्यधिकः । अतः दूरदर्शनं जनप्रियम् अस्ति ।
इदानीं प्रपञ्चे वार्तादिकं ज्ञातुं, मनोरञ्जनार्थं, ज्ञानविकासार्थं च बहुविधानि साधनानि सन्ति । तेषु '''दूरदर्शनम्''' अपि अन्यतमम् । एतत् दृश्यं श्रव्यं च इति कारणतः एतस्य प्रभावः अत्यधिकः । अतः दूरदर्शनं जनप्रियम् अस्ति ।
==कथं कार्यं करोति ?==
==कथं कार्यं करोति ?==
ध्वनीनां प्रसारणे यत्सूत्रं तदेव चित्राणां प्रसारणेऽपि आधारीकृतम् । एकस्मात् निश्चितप्रदेशात् चित्राणां प्रसारणम् अनेकेषु प्रदेशेषु तेषां ग्रहणं च क्रियते । दर्शनीयः विषयः नाटकं, क्रीडा, समावेशो वा भवतु दूरदर्शनस्य छायाग्रहणयन्त्रमपि चलचित्रच्छायाग्रहणयन्त्रमिव भवति । किन्तु तद्वत् वस्तुनः सम्पूर्णं चित्रं न गृह्णाति । चित्रं बहुसमानान्तररेखासु निरन्तरसन्निहितासु स्थानेषु खण्डयति । प्रतिरेखम् अनेके सूक्ष्माः कान्तिबिन्दवः परस्परसन्निहिताः विद्यन्ते । एते कान्तिबिन्दवः प्रबलदुर्बलविद्युत्प्रवाहरूपेण परिवर्तनं प्राप्नुवन्ति । एते च विद्युत्प्रवाहाः विद्युदयस्कान्तरङ्गाः भूत्वा समुन्नतशिखराग्रे निर्मितात् प्रसारसाधनात् अन्तरिक्षे विमुक्ताः भवन्ति ।
ध्वनीनां प्रसारणे यत्सूत्रं तदेव चित्राणां प्रसारणेऽपि आधारीकृतम् । एकस्मात् निश्चितप्रदेशात् चित्राणां प्रसारणम् अनेकेषु प्रदेशेषु तेषां ग्रहणं च क्रियते । दर्शनीयः विषयः नाटकं, क्रीडा, समावेशो वा भवतु दूरदर्शनस्य छायाग्रहणयन्त्रमपि चलचित्रच्छायाग्रहणयन्त्रमिव भवति । किन्तु तद्वत् वस्तुनः सम्पूर्णं चित्रं न गृह्णाति । चित्रं बहुसमानान्तररेखासु निरन्तरसन्निहितासु स्थानेषु खण्डयति । प्रतिरेखम् अनेके सूक्ष्माः कान्तिबिन्दवः परस्परसन्निहिताः विद्यन्ते । एते कान्तिबिन्दवः प्रबलदुर्बलविद्युत्प्रवाहरूपेण परिवर्तनं प्राप्नुवन्ति । एते च विद्युत्प्रवाहाः विद्युदयस्कान्तरङ्गाः भूत्वा समुन्नतशिखराग्रे निर्मितात् प्रसारसाधनात् अन्तरिक्षे विमुक्ताः भवन्ति ।
पङ्क्तिः ९: पङ्क्तिः ९:
ध्वनिवाहको भागः संस्कृतो भूत्वा दूरश्रवणयन्त्रं प्रापितो भवति । एवं प्रसारणकेन्द्रे उपादितं ध्वनिमपि चित्रदर्शनसमये एव शृणुमः ।
ध्वनिवाहको भागः संस्कृतो भूत्वा दूरश्रवणयन्त्रं प्रापितो भवति । एवं प्रसारणकेन्द्रे उपादितं ध्वनिमपि चित्रदर्शनसमये एव शृणुमः ।
==दूरदर्शनतः लाभाः==
==दूरदर्शनतः लाभाः==
दूरदर्शनस्य कार्यक्रमाः कॆचन शैक्षणिकाः, पुनः कॆचन मनॊरञ्जकाः, अन्यॆ कॆचन व्यक्तिदॆशादिपरिचायकाः, इतरॆ कॆचन इतिवृत्तात्मकाः । दूरदर्शनं क्रीडादीनां प्रत्यक्षविवरणम् अपि प्रसारयति । इदानीं दूरदर्शनकार्यक्रमाः उपग्रहसाहाय्यॆन प्रसार्यन्तॆ । अतः दॆशस्य कॊणॆ कुत्रचित् प्रवृत्ता अपि घटना घण्टाभ्यन्तरॆ समग्रॆण देशॆन ज्ञायतॆ । एवम् अतिशीघ्रतया वार्तां प्रसारयति दूरदर्शनम् । वार्तां ज्ञातुं मनॊरञ्जनं प्राप्तुं च यथा, तथैव ज्ञानवर्धनार्थम् अपि दूरदर्शनं सहायकं भवति ।
दूरदर्शनस्य कार्यक्रमाः केचन शैक्षणिकाः, पुनः केचन मनोरञ्जकाः, अन्ये केचन व्यक्तिदेशादिपरिचायकाः, इतरे केचन इतिवृत्तात्मकाः । दूरदर्शनं क्रीडादीनां प्रत्यक्षविवरणम् अपि प्रसारयति । इदानीं दूरदर्शनकार्यक्रमाः उपग्रहसाहाय्येन प्रसार्यन्ते । अतः देशस्य कोणे कुत्रचित् प्रवृत्ता अपि घटना घण्टाभ्यन्तरे समग्रेण देशेन ज्ञायते । एवम् अतिशीघ्रतया वार्तां प्रसारयति दूरदर्शनम् । वार्तां ज्ञातुं मनोरञ्जनं प्राप्तुं च यथा, तथैव ज्ञानवर्धनार्थम् अपि दूरदर्शनं सहायकं भवति ।
बालाः, तरुणाः, वृद्धाः इत्यादयः सर्वे इतः ज्ञानवर्धनं प्राप्तुम् अर्हन्ति । यॆ दूरदर्शनकार्यक्रमाः प्रदर्श्यन्तॆ तॆषु उत्तमाः विरलाः इति जनानाम् अभिप्रायः अस्ति । धारावाहिन्यः कथाः नीरसाः भवन्ति इति, वार्ताप्रसारॆ बहुधा पक्षपातः प्रदर्श्यते इति, शैक्षणिककार्यक्रमाणां स्तरः न्यूनः इति च जनाः आक्षॆपं कुर्वन्ति।
बालाः, तरुणाः, वृद्धाः इत्यादयः सर्वे इतः ज्ञानवर्धनं प्राप्तुम् अर्हन्ति । ये दूरदर्शनकार्यक्रमाः प्रदर्श्यन्ते तेषु उत्तमाः विरलाः इति जनानाम् अभिप्रायः अस्ति । धारावाहिन्यः कथाः नीरसाः भवन्ति इति, वार्ताप्रसारे बहुधा पक्षपातः प्रदर्श्यते इति, शैक्षणिककार्यक्रमाणां स्तरः न्यूनः इति च जनाः आक्षेपं कुर्वन्ति।
जनानाम् अभिप्रायभॆदः यः कॊऽपि स्यात् नाम, दूरदर्शनं ज्ञानवर्धनॆ उपकारकम् इत्यत्र तु नास्ति सन्दॆहः
जनानाम् अभिप्रायभेदः यः कोऽपि स्यात् नाम, दूरदर्शनं ज्ञानवर्धने उपकारकम् इत्यत्र तु नास्ति सन्देहः


== बाह्यगवाक्षा: ==
== बाह्यगवाक्षा: ==

१०:५२, १ डिसेम्बर् २०११ इत्यस्य संस्करणं



दूरदर्शनम्

इदानीं प्रपञ्चे वार्तादिकं ज्ञातुं, मनोरञ्जनार्थं, ज्ञानविकासार्थं च बहुविधानि साधनानि सन्ति । तेषु दूरदर्शनम् अपि अन्यतमम् । एतत् दृश्यं श्रव्यं च इति कारणतः एतस्य प्रभावः अत्यधिकः । अतः दूरदर्शनं जनप्रियम् अस्ति ।

कथं कार्यं करोति ?

ध्वनीनां प्रसारणे यत्सूत्रं तदेव चित्राणां प्रसारणेऽपि आधारीकृतम् । एकस्मात् निश्चितप्रदेशात् चित्राणां प्रसारणम् अनेकेषु प्रदेशेषु तेषां ग्रहणं च क्रियते । दर्शनीयः विषयः नाटकं, क्रीडा, समावेशो वा भवतु दूरदर्शनस्य छायाग्रहणयन्त्रमपि चलचित्रच्छायाग्रहणयन्त्रमिव भवति । किन्तु तद्वत् वस्तुनः सम्पूर्णं चित्रं न गृह्णाति । चित्रं बहुसमानान्तररेखासु निरन्तरसन्निहितासु स्थानेषु खण्डयति । प्रतिरेखम् अनेके सूक्ष्माः कान्तिबिन्दवः परस्परसन्निहिताः विद्यन्ते । एते कान्तिबिन्दवः प्रबलदुर्बलविद्युत्प्रवाहरूपेण परिवर्तनं प्राप्नुवन्ति । एते च विद्युत्प्रवाहाः विद्युदयस्कान्तरङ्गाः भूत्वा समुन्नतशिखराग्रे निर्मितात् प्रसारसाधनात् अन्तरिक्षे विमुक्ताः भवन्ति । द्वितीयस्तरे आकाशे विमुक्ताः विद्युदयस्कान्ततरङ्गाः सर्वतः प्रयाणं कुर्वन्तः दूरदर्शनेषु विद्यमानैः ग्रहणसाधनैः आकृष्टाः भवन्ति । ततः एते तरङ्गाः प्रबलदुर्बलविद्युत्प्रवाहरूपेण परिवर्तनं प्राप्य कस्याश्चित् विशिष्टतन्त्र्याः द्वारेण दूरदर्शनं प्रति नीताः भवन्ति । दूरदर्शनयन्त्रम् इमान् विद्युत्प्रवाहान् काभिश्चित् पद्धतीभिः समीकृत्य "केथोड्-किरणनालिका", "विद्युदणुप्रक्षेपकम्" इत्यनयोः साहाय्येन कान्तिबिन्दून् करोति । दूरदर्शनस्य यवनिकायाः अन्यः भागः प्लोरोस्सेण्ट् सामग्रीनिर्मितैः बिन्दुसहस्रैः आवृतः भवति । यदा एषा सामग्री विद्युदणुभिः सारिता भवति तदा कान्तिः बहिर्गता भवति । एते कान्तिबिन्दवः तावता वेगेन प्रत्यक्षीभवन्ति, येन वयं दूरदर्शनस्य यवनिकायां सम्पूर्णम् चित्रं द्रष्टुं शक्नुमः । ध्वनिवाहको भागः संस्कृतो भूत्वा दूरश्रवणयन्त्रं प्रापितो भवति । एवं प्रसारणकेन्द्रे उपादितं ध्वनिमपि चित्रदर्शनसमये एव शृणुमः ।

दूरदर्शनतः लाभाः

दूरदर्शनस्य कार्यक्रमाः केचन शैक्षणिकाः, पुनः केचन मनोरञ्जकाः, अन्ये केचन व्यक्तिदेशादिपरिचायकाः, इतरे केचन इतिवृत्तात्मकाः । दूरदर्शनं क्रीडादीनां प्रत्यक्षविवरणम् अपि प्रसारयति । इदानीं दूरदर्शनकार्यक्रमाः उपग्रहसाहाय्येन प्रसार्यन्ते । अतः देशस्य कोणे कुत्रचित् प्रवृत्ता अपि घटना घण्टाभ्यन्तरे समग्रेण देशेन ज्ञायते । एवम् अतिशीघ्रतया वार्तां प्रसारयति दूरदर्शनम् । वार्तां ज्ञातुं मनोरञ्जनं प्राप्तुं च यथा, तथैव ज्ञानवर्धनार्थम् अपि दूरदर्शनं सहायकं भवति । बालाः, तरुणाः, वृद्धाः इत्यादयः सर्वे इतः ज्ञानवर्धनं प्राप्तुम् अर्हन्ति । ये दूरदर्शनकार्यक्रमाः प्रदर्श्यन्ते तेषु उत्तमाः विरलाः इति जनानाम् अभिप्रायः अस्ति । धारावाहिन्यः कथाः नीरसाः भवन्ति इति, वार्ताप्रसारे बहुधा पक्षपातः प्रदर्श्यते इति, शैक्षणिककार्यक्रमाणां स्तरः न्यूनः इति च जनाः आक्षेपं कुर्वन्ति। जनानाम् अभिप्रायभेदः यः कोऽपि स्यात् नाम, दूरदर्शनं ज्ञानवर्धने उपकारकम् इत्यत्र तु नास्ति सन्देहः ।

बाह्यगवाक्षा:

"https://sa.wikipedia.org/w/index.php?title=दूरदर्शनम्&oldid=148580" इत्यस्माद् प्रतिप्राप्तम्