"तत्रैकाग्रं मनः कृत्वा..." इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पङ्क्तिः ५८: पङ्क्तिः ५८:
* [http://www.gitamrta.org/bg.htm Bhagavad Gita in 6 Languages]
* [http://www.gitamrta.org/bg.htm Bhagavad Gita in 6 Languages]


[[वर्गः:०६. आत्मसंयमयोगः]]
[[वर्गः:आत्मसंयमयोगः]]
[[वर्गः:आत्मसंयमयोगः]]

१७:३३, ७ डिसेम्बर् २०११ इत्यस्य संस्करणं

गीतोपदेशः
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥ १२ ॥

पदच्छेदः

तत्र एकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः उपविश्य आसने युञ्ज्यात् योगम् आत्मविशुद्धये ॥

अन्वयः

यतचित्तेन्द्रियक्रियः शुचौ देशे स्थिरं नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् आत्मनः आसनं प्रतिाप्य तत्र आसने उपविश्य मनः एकाग्रं कृत्वा आत्मविशुद्धये योेगं युञ्ज्यात् ।

पदार्थः

यतचित्तेन्द्रियक्रियः = नियतेन्द्रियव्यापारः
शुचौ = परिशुद्धे
देशे = स्थाने
स्थिरम् = अचलम्
नात्युच्छ्रितम् = नात्युन्नतम्
नातिनीचम् = नातिनिम्नम्
चैलाजिनकुशोत्तरम् = वस्त्रकृष्णाजिनदर्भोत्तरम्
आत्मनः = स्वस्य
आसनम् = पीठम्
प्रतिाप्य = संस्थाप्य
तत्र = तस्मिन्
आसने = पीठे
उपविश्य = उपविश्य
मनः = चित्तम्
एकाग्रम् = संलग्नम्
कृत्वा = विधाय
आत्मविशुद्धये = अन्तःकरणनैर्मल्याय
योगम् = समाधिम्
युञ्ज्यात् = युञ्जीत ।

तात्पर्यम्

शुद्धे स्थाने अधोभागे तादृशम् आसनं भवेत् यत् न अत्युन्नतं नापि अतिनीचम् । तस्मिंश्च आसने कुशान् अजिनं मृदुवस्त्रं च क्रमेण प्रसार्य, तत्र उपविश्य अवधानेन मनःप्रभृतीनां सर्वेषाम् इन्द्रियाणां क्रियां नियन्त्र्य चित्तशुद्धये समाधिं कुर्यात् ।

बाह्यसम्पर्कतन्तुः