"श्रेयान्द्रव्यमयाद्यज्ञात्..." इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) gen fixes using AWB
पङ्क्तिः २६: पङ्क्तिः २६:


==बाह्यसम्पर्कतन्तुः==
==बाह्यसम्पर्कतन्तुः==

[[वर्गः:ज्ञानकर्मसंन्यासयोगः]]


[[ar:البهاغافاد غيتا]]
[[ar:البهاغافاد غيتا]]

१९:१८, ७ डिसेम्बर् २०११ इत्यस्य संस्करणं

गीतोपदेशः
श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप ।
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ३३ ॥

पदच्छेदः

श्रेयान् द्रव्यमयात् यज्ञात् ज्ञानयज्ञः परन्तप सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ३३ ॥

अन्वयः

परन्तप ! द्रव्यमयात् यज्ञात् ज्ञानयज्ञः श्रेयान् । पार्थ ! सर्वं कर्म ज्ञाने अखिलं परिसमाप्यते ।

पदार्थः

परन्तप = शत्रुतापक !
द्रव्यमयात् = द्रव्यसाध्यात्
यज्ञात् = यागात्
ज्ञानयज्ञः = आत्मज्ञानरूपो यज्ञः
श्रेयान् = वरीयान्
पार्थ = अर्जुन !
सर्वम् = समस्तम्
कर्म = यज्ञरूपं कर्म
ज्ञाने = आत्मज्ञाने
अखिलम् = फलसहितम्
परिसमाप्यते = पर्यवस्यति ।

तात्पर्यम्

हे अर्जुन ! सांसारिकवस्तुभिः सिद्धात् यज्ञात् आत्मज्ञानरूपो यज्ञः श्रेष्ठः भवति । यतः सर्वाणि कर्माणि ज्ञाने एव परिसमाप्तिं गच्छन्ति, फलत्वात् ।

बाह्यसम्पर्कतन्तुः