"यज्ज्ञात्वा न पुनर्मोहम्..." इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) ४.३५ यज्ञात्वा न पुनः... इत्येतद् यज्ज्ञात्वा न पुनर्मोहम्... इत्येतत् प्रति चालितम्।
(भेदः नास्ति)

०५:४५, ९ डिसेम्बर् २०११ इत्यस्य संस्करणं

गीतोपदेशः
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ ३५ ॥

पदच्छेदः

यत् ज्ञात्वा न पुनः मोहम् एवं ज्ञास्यसि पाण्डव येन भूतानि यशेषेण द्रक्ष्यसि आत्मनि अथो मयि ॥ ३५ ॥

अन्वयः

पाण्डव ! यत् ज्ञात्वा पुनः मोहम् एवं न यास्यसि । येन आत्मनि भूतानि अशेषेण द्रक्ष्यसि । अथो मयि । (तत् ज्ञानं तत्त्वदर्शिनः ते उपदेक्ष्यन्ति ।)

पदार्थः

पाण्डव = पाण्डुपुत्र !
यत् ज्ञात्वा = यत् विज्ञाय
पुनः = भूयः
मोहम् = व्यामोहम्
एवम् = इत्थम्
न यास्यसि = न गमिष्यसि
येन = येन ज्ञानेन
आत्मनि = स्वस्मिन्
भूतानि = प्राणिनः
अशेषेण = समग्रम्
द्रक्ष्यसि = पश्यसि
अथो = अनन्तरम्
मयि = भगवति ।

तात्पर्यम्

अर्जुन ! येन ज्ञानेन भवान् पुनः एतादृशं मोहजालं न आप्नोति, येन आत्मज्ञानेन समवायबुद्ध्या स्वस्मिन् मयि च सर्वान् जीवान् द्रष्टुं शक्नोति तादृशं ज्ञानं तत्त्वदर्शिनः ते उपदेक्ष्यन्ति ।

बाह्यसम्पर्कतन्तुः