"लभन्ते ब्रह्मनिर्वाणम्..." इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) ५.२५ लभन्ते ब्रह्मनिर्वां... इत्येतद् लभन्ते ब्रह्मनिर्वाणम्... इत्येतत् प्रति चालितम्। |
→बाह्यसम्पर्कतन्तुः: clean up using AWB |
||
पङ्क्तिः २४: | पङ्क्तिः २४: | ||
==बाह्यसम्पर्कतन्तुः== |
==बाह्यसम्पर्कतन्तुः== |
||
[[वर्गः:कर्मसंन्यासयोगः]] |
[[वर्गः:कर्मसंन्यासयोगः| 25]] |
१२:२६, १० डिसेम्बर् २०११ इत्यस्य संस्करणं
- लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।
- छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ २५ ॥
पदच्छेदः
लभन्ते ब्रह्मनिर्वाणम् ऋषयः क्षीणकल्मषाः छिन्नद्वैधाः यतात्मानः सर्वभूतहिते रताः ॥ २५ ॥'
अन्वयः
क्षीणकल्मषाः छिन्नद्वैधाः यतात्मानः सर्वभूतहिते रताः ऋषयः ब्रह्मनिर्वाणं लभन्ते ।
पदार्थः
- क्षीणकल्मषाः = नष्टपापाः
- छिन्नद्वैधाः = अपगतसंशयाः
- यतात्मानः = जितेन्द्रियाः
- सर्वभूतहिते = सर्वभूतसुखे
- रताः = आसक्ताः
- ऋषयः = मुनयः
- ब्रह्मनिर्वाणम् = मोक्षम्
- लभन्ते = प्राप्नुवन्ति ।
तात्पर्यम्
येषां पापानि विनष्टानि सन्ति, संशयाः च विनष्टाः, चित्तं च नियन्त्रितम् अस्ति, ये सर्वभूतानां हिते रताः सन्ति ते ब्रह्मवेत्तारः ऋषयः मोक्षं प्राप्नुवन्ति ।