"जवाहरलाल नेहरू" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.6.5) (robot Adding: hy:Ջավահարլալ Ներու
पङ्क्तिः ८०: पङ्क्तिः ८०:
[[hr:Džavaharlal Nehru]]
[[hr:Džavaharlal Nehru]]
[[hu:Dzsaváharlál Nehru]]
[[hu:Dzsaváharlál Nehru]]
[[hy:Ջավահարլալ Ներու]]
[[id:Jawaharlal Nehru]]
[[id:Jawaharlal Nehru]]
[[io:Jawaharlal Nehru]]
[[io:Jawaharlal Nehru]]

१७:४७, १५ जनवरी २०१२ इत्यस्य संस्करणं

जवाहरलाल नेहरुः (१८८९-१९६४) प्रयागे जात: ।

नेहरु जर्मनी देशे

१९४७तः-१९६४तमवर्षपर्यन्तं स: भारतस्य प्रधानमन्त्री आसीत्‌ ।

सः भारतवर्षस्य सर्वाधिककालपर्यन्तं नेतृत्वं कृतवान् तथा च प्रथमः प्रधानमन्त्री आसीत् ।

तस्य पितुः नाम मोतीलालनेहरुः । मातु: नाम स्‍वरूपरानी इति । केम्ब्रिजविश्‍वविद्यालये स्‍नातकपरीक्षाम्‌ उत्तीर्य स: विधिवेत्ता अभवत्‌। तस्य ब्राह्‍मणकुलोत्‍पन्‍नया कमलया सह विवाह: सम्पन्‍नः।

प्रारम्भिकजीवनं शैक्षणिकविषयः च

जवहरलाल् नेहरु महोदयस्य माता स्वरूपराणी पिता च मोतिलाल् नेहरु (१८६१-१९३१) कश्मीरपण्डित कुले जातः । तस्य विद्याभ्यासः भारते इङ्ग्लण्डदेशे च अभवत् । इङ्ग्लण्डदेशे इण्डिपेण्डेण्ट् बोय्स् स्कूल (अननुदानितबालकशालायां) तथा केम्ब्रिडज्प्रदेशे हेरो ट्रिनिटि कलाशालायां च पठितवान् । यदा इङ्ग्लण्डदेशे आसीत् तदा अयं जो नेहरु इति प्रसिद्धः । अयं ७-२-१९१६ दिनाङ्के षोडशवर्षीयां कमलाकौर इत्येतया सह विवाहं कृतवान् । तस्मिन् एव वर्षे तयोः पुत्री जाता तस्याः नाम इन्दिरा प्रियदर्शिनी इति ।

जीवनं तथा वृत्तिः

भारतदेशस्य स्वातन्त्र्यम् आगस्ट १५ दिनाङ्के १९४७ वर्षे अभवत् । तदा नेहरु ध्वजारोहणम् अकरोत् । प्रजाप्रभुत्वविषये नेहरु गुणत्वम् अपश्यत् इष्टवान् च। सः सेक्यूलरिसं, लिबरलिसं च इष्टवान् । दरिद्रेभ्यः दीनेभ्यः च साहाय्यकरणं तस्य प्रवृत्तिः आसीत् । नेहरुमहोदयस्य एतादृशाः गुणाः अस्माकं देशस्य संविधानरचनायां सहकरिणः अभवन् । देशस्य औन्नत्यर्थं प्रपञ्चे ये हितकारिणः गुणाः आसन् तान् अत्र स्थापितवान् । तस्य पुत्री इन्दिरा तथा दौहित्रः राजीवः स्वयं देशसेवां कर्तुकामौ देशस्य प्रधानमन्त्रिणौ अभवताम् ।

गान्धीमहाभागस्य उत्तराधिकारी

१९४१ जनवरी १५ दिनाङ्के गान्धी अवदत् । "मम तथा नेहरुवर्यस्य मध्ये भिन्नाभिप्रायाः सन्ति इति जनाः वदन्तः सन्ति । परन्तु आवयोः मध्ये .क्षुल्लककारणेन मनोभेदःन भवेत् आवयोः लक्ष्यं सर्वदा एकमेव भवति । यत् किमपि भवतु ममोत्तरं नेहरु एव अधिकारी भवति, न तु राजाजी इति बहुकालात् वदन् अस्मि" इति।

राजकीयपूर्वभागः

नेहरु महाभागः तथा तेन साकं ये कारागृहे आसन् तेषां मोचनम् अभवत् । ब्रिटिश्जनाः राजकीयप्रभुत्वं भारतीयानां कृते ह्स्तान्तरितं कर्तुं निश्चितवन्तः। तदर्थं ब्रिटिश् केबिनेट् मुख्यस्थाः भारतमागताः । यदा नेहरुमहाभागः प्रधानमन्त्रित्वेन कार्यभारम् ऊढवान् तदा भारते हिन्दूमुस्लिं कलहः तस्य कार्ये प्रत्यूहवत् अभवत् । महमदाली जिन्ना मुस्लिमजनानां कृते स्वतन्त्र्यदेशः आवश्यकः इति आग्रहं कृतवान् । अत एव एताद्दशविघ्नानां मध्ये तस्य कार्यम् अग्रे न गतम् । मुस्लिं जनानां तथा हिन्दूनां सहयोगेन भारते यदा प्रजाप्रभुत्वराज्यं कर्तुं न शक्तः तदा नेहरु भारतस्य विभजनं कर्तुं अनिच्छया अङ्गीकृतवान् । विभागः तु यथा ब्रिटिश्जानानां योजनानुसारम् अभवत् । अयं विभागः तु जून् ३ दिनाङ्के १९४७ वर्षे अभवत् । तदा आग्स्ट १५ दिनाङ्के सः प्रधानमन्त्रिरुपेण प्रमाणवचनं स्वीकृतवान् । तदनन्तरं तस्य प्रथमभाषणं Tyresh with Destiny इति प्रसिद्धम् । तस्य भाषणस्य सारांशः एवम् आसीत्- ’अस्माकं लक्ष्यं प्रति गन्तुं सन्धानं कृतम् । इदानीं सन्धानस्य फलप्राप्त्यर्थं समयः आगतः । पूर्णतया कर्तुं न शक्यते चेदपि किञ्चिद् वा कर्तु प्रयतनीयम् । मध्यरात्रे १२ वादने यदा सर्वे सुप्ताः आसन् तदा अस्माकं देशः जागरितः आसीत्। स्वातन्त्र्यं तु प्राप्नोत् । दुर्लभं तादृशं क्षणं सर्वदा न लभ्यते। प्राचीनं सन्त्यज्य अस्माभिः नावीन्यं प्राप्तम् अस्ति। देशस्य चरिते ईद्दशं क्षणं पुनः न आगच्छति । एतावत् पर्यन्तं येषां वाक्, मनः सर्वं निगूढे आसीत् इदानीम् तेषां स्वातन्त्र्यम् आगतम् । अस्मिन् सन्दर्भे भारतस्य तथा भारतीयतायाः च सेवां कर्तुं वयं प्रतिज्ञां कुर्मः मानवतां च न त्यजाम ’ इति। तस्मिन् काले मतान्तरकलहाः बहुत्र वर्धन्ते स्म । अयं कलहः पञ्जाब् देहली बङ्गाल् इत्यत्र सर्वत्र प्रसारितः आसीत् । नेहरु मुस्लिम् नेतृभिः साकं आभारतं सञ्चरन् सर्वत्र देशे शान्तिस्थापनाय तथा शरणार्थिनां मनः प्रसादनार्थं प्रायतत । सः मौलाना आजाद तथा अन्यैः नेतृभिः साकं मुस्लिमबान्धवानां भारते स्थातुं तथा योगक्षेमं वोढुं च वार्तालापं कृतवान् । देशस्थितिं वीक्ष्य तस्य मनोवेदना सञ्जाता।

१९४७ तमे वर्षे -भारत-पाकीस्तानयुद्धं रोद्धुं युनैटेड नेशन्स् साहाय्यं प्रार्थितवान्। पाकिस्तानदेशस्य तथा भारतस्य च मध्ये स्थितं हैदराबाद् इति प्रान्तं भारतस्य इति उद्धोषयितुं नेहरु मनः न चकार। यतः मतीयकलहः भवेदिति। बि.जे.पी नायकः जस्वन्तसिङ्गः एवं वदति " नेहरुमहोदयस्य चिन्तनानि एव अस्माकं भारतस्य विभजने कारणीभूतानि अभवन्। यतः सः एकत्र प्रभुत्वम् इच्छति जिन्ना तु विभागीयप्रभुत्वम् इच्छति। एतयोः मध्ये मनस्तापः एव विभजनस्य अन्यतमं कारणमभवत् । भारतस्वातन्त्र्यानन्तरं नेहरु तस्य पुत्रीम् इन्दिराम् एव तस्य तथा तस्य कार्यकलापस्य पर्यवेक्षिकारूपेण आयोजयामास । तस्य नेतृत्वे १९५२ निर्वाचने काङ्ग्रेस् पक्षः बहुमतं प्राप्नोत्। ततः इन्दिरा नेहरुगृहमेव आगत्य तस्य सर्वाङ्गीणकार्यं पश्यन् तेन साकं स्वदेशविदेशपर्यटनं कृतवती । एषा तस्य कार्यकर्तृषु प्रमुखा अभवत् ।



तेन इतिहासविषये " द डिस्कवरी ऑफ इन्डिआ" अपि च " ग्लिंप्सेस ऑफ वर्ल्ड हिस्टरी" इति अभ्यासपूर्णौ ग्रन्थद्वयं लिखितम् ।

तस्य जन्मदिनं नवेम्बरमासस्य चतुर्दशदिनाङ्कम् अखिले भारतवर्षे बालदिनत्वेन उत्साहपूर्वकम् आचर्यते ।

महात्‍मनः गान्धे: सम्पर्के आगते स: स्‍वातन्‍त्रसङ्‍ग्रामे सन्‍नद्घ: अभवत्‌ ।

सम्बद्धविषया:

"https://sa.wikipedia.org/w/index.php?title=जवाहरलाल_नेहरू&oldid=175113" इत्यस्माद् प्रतिप्राप्तम्