"महाभारतम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.1) (Robot: Adding yi:מאהאבהאראטא
No edit summary
पङ्क्तिः ७६: पङ्क्तिः ७६:
* [http://en.wikipedia.org/wiki/Mahābhārata Mahābhārata] (अंग्रेज़ी विकिपीडिये)
* [http://en.wikipedia.org/wiki/Mahābhārata Mahābhārata] (अंग्रेज़ी विकिपीडिये)
* [http://en.wikisource.org/wiki/The_Mahabharat Mahabharat] (अंग्रेज़ी विकिस्रोते)
* [http://en.wikisource.org/wiki/The_Mahabharat Mahabharat] (अंग्रेज़ी विकिस्रोते)

{{महाभारतस्य पात्राणि}}


[[वर्गः:इतिहासः]]
[[वर्गः:इतिहासः]]

१०:०९, २८ जनवरी २०१२ इत्यस्य संस्करणं



कुरुक्षेत्रम्

महाभारतम्(आङ्ग्लभाषा Mahabharat) महर्षिणा वेदव्यासेन विरचितः बहुप्रसिद्धः इतिहासः विद्यते। अस्मिन् ग्रन्थे कौरव-पाण्डवानां महायुद्दं मुख्य-विषयरूपेण वर्णितमस्ति। मानवजीवनस्य धर्मार्थ-काम-मोक्ष-रूपाः समस्तपुरुषार्थाः अत्र विशालग्रन्थे सन्निवेशिताः। अस्य महाभारतस्य भीष्मपर्वणि श्रीमद्‌भगवद्‌गीता विद्यते। भगवता कृष्णेन मोहग्रस्तम् अर्जुनं प्रति ज्ञान-कर्म-भक्ति-विषयकः उपदेशः गीतायां प्रदत्तः। अस्यां गीतायामपि अष्टादश अध्यायाः सन्ति। मानव-जीवनस्य विविधविषयाः अत्र समीचीनतया प्रतिपादिताः सन्ति। इयं विश्वजनीन-कृतिः कालजयिनी चिरन्तनी एव।

महाभारतस्य नामकरणम्

इदं प्रायः सर्वे भारतीया विद्वांसो मन्यन्ते यत् महाभारतं प्राग् जयनाम्ना ततो भारतनाम्ना ततः परतश्च महाभारतनाम्ना प्रसिध्दम् । नारायणं नमस्कृत्य नरञ्चैव नरोत्तमम् । देवीं सरस्वतीञ्चैव ततो जयमुदीरयेत् ॥’ इति पद्यं महाभारतस्य जयशब्दव्यवहार्यतामाह । मौलिकं जयनाम्ना व्यवहृतञ्च । महाभारतमल्पपरिमाणं स्वरुपत ऎतिहासिककथाप्रधानञ्चावर्त्तत नोपदेशप्रधानम् । जय इति नामैव तस्य ग्रन्थस्य पाण्डवविजयमात्रबोधनाय निर्मितत्वमाह । अमुमेव जयनामानं ग्रन्थं व्यासो निजशिष्यं वैशम्पायनमध्यापयामासेति सा प्रथमावस्था महाभारतस्य ।

वैशम्पायनश्च गुरोर्व्यासादधीते जये स्वरचितसंवादादि योजयित्वा नागयज्ञावसरे जनमेजयं श्रावयामासेति तस्यामवस्थायां चतुर्विशतिसाहस्त्रीपरिमाणो भारतग्रन्थः शौनकाय सौतिना श्रावणकाले तत्पृष्टप्रतिवचनैः समुपबृहितो भूत्वा लक्षश्लोकपरिमाणो महाभारतसंज्ञया प्रथितोऽभवत् । सेयं तृतीया पूर्णतावस्था । तृतीयावस्थायां मनुनाम्नाऽपि व्यवहारविषयतां गतोऽयं ग्रन्थे महाभारतमिति तस्य संज्ञा सौतिकृता ।

पूर्वे अस्य नाम जयसंहिता आसीत्। यथा प्रसिद्धः श्लोकः प्रत्येकस्य अध्यायस्य आदौ प्राप्यते-

नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवीं सरस्वतीं चैव ततो जयमुदीरयेत्।।

ततः पश्चात् अस्य श्लोकानां संख्या पश्चाद्वर्तिविद्वद्भिः वृद्धीकृता नामधेयं च भारतमिति प्रसिद्धं जातम्। अस्य महाकाव्यस्य पुनः संवर्धनस्य अनन्तरं श्लोकानां संख्या एकलक्षमिता जाता। तदा इदं महाभारतमिति प्रसिद्धम्। महाभारतस्य अन्ते विद्यमानेन श्लोकेन इदं प्रमाणितं भवति - उक्तं शतसहस्राणां श्लोकानामिदमुत्तमम्। अस्य ग्रन्थस्य नूतनतमस्य रूपस्य नाम शतसाहस्री संहिता अपि अस्ति।

श्रीकृष्णदौत्यम्

महाभारतं कस्मिन् शास्त्रेऽन्तर्भवति

प्रथमं महाभातमितिहासः पुराणमाख्यानकञ्चेति नामभिराख्यायते स्म । साम्प्रतिकास्तु महाभारतम् आचारशास्त्रम् नीतिशास्त्रम धर्मार्थकाममोक्षाख्यचतुर्वर्गसाधनम् चामनन्ति । भारतं पञ्चमो वेदः इति सर्वत्र प्रचारितम् । सर्वत्रास्मिन् ग्रन्थे वैष्ण्वसिध्दान्तानां प्रमुखत्वेन प्रतिपादनान् महाभारतं वैष्णवस्मृतिरप्याख्यायते । महाभारतस्य असीतिप्रतिशतभागोऽनेकविधोपदेशमयः, विंशतिप्रतिशतभाग एवेतिहासप्रतिपादक इति अस्य नीतिशास्त्रेषु गणनोचिता ।

महाभारतस्य रचनाकालः

सम्प्रत्युपलभ्यमानं महाभारतं मूलमहाभारतात् परतो बहुषु शतकेषु व्यतीतेष्वेव निर्मितं स्यादतो मूलमहाभारतस्य जयाभिधानस्य वर्तमानमहाभारतात् पूर्वकालिकत्वं निश्चितम् । अत्र वर्तमानमहाभारतस्य रचनाकालसम्बन्धे विचारणीयमस्ति, तत्र – १. ख्रीष्टैकादशशतके जातेन क्षेमेन्द्रेणा कृतो भारतमञ्जरीनामा ग्रन्थः कथायां वर्तमानमहाभारतमनुहरतीति वर्तमानमहाभारतस्य एकादशशतकपूर्वकालिकत्वं सर्वथा सिध्दम् । २. अष्टमशतकोत्तरार्धे जाता आद्यशङ्कराचार्या महाभारतं स्त्रीभिर्धर्मज्ञानायाध्येयत्वेनादिशन्ति, तेन महाभारतस्य ततः पूर्वकालिकत्वं सिध्दम् । ३. अष्टमशतकोत्पन्नाः कुमारिलभट्टाः महाभारतस्य बहूनि पर्वाणि स्मरन्ति । ४. सप्तमशतकोप्तन्ना बाणसुबन्धुप्रभृतयः कवयो महाभारतस्याष्टादशापि पर्वाणि हरिवंशं च स्मरन्ति । ५. कम्बोडियानामके भारतस्य प्राचीनोपनिवेशे षष्ठशतकसमीपे उत्कीर्णात् शिलालेखात् ज्ञायते यत् तत्रत्याय कस्मैचिन्मन्दिराय रामायणमहाभारतग्रन्थौ भारतेन प्रहितौ । तत्कथाप्रबन्धोऽपि भारतेन कृतः । ६. यवबालिप्रभृतिषु द्वीपेषु षष्ठशतके महाभारतमवर्त्तत, ततोऽपि पूर्वं तिब्बतभाषायां महाभारतस्यानुवादो जातः । ७. चतुर्थपञ्चमशतकलिखितेषु दानपत्रकेषु स्मृतिरुपेण महाभारतवचनानि निर्दिष्टानि दृष्टानि । ८. ४६२ स्त्रीष्टोत्की- एकत्र शिलालेखे पाराशर्यव्यासस्य लक्षश्लोकात्मक महाभारतप्रणेतृत्वमुल्लिख्यते । ९. सीरियादेशभाषायाम् उपलभ्यमानस्य शान्तिपर्वाध्यायत्रयस्य साक्ष्येण हर्टलमहोदयः प्रमाणयति यत् प्रचलितं महाभारतम् ई.पू. पञ्चमशतकनिबध्दात् महाभारतात् न भिद्यते । १०. डयोन क्राइसोस्तोम (Dion Chyrsostom) महोदयस्य साक्ष्येण प्रतीयते यत् ५० ख्रीष्टाब्दकाले लक्षपद्यात्मकं महाभारतं दक्षिणपथे लब्धप्रचारमासीत् । ११. ख्रिष्टप्रथमशतके स्थितेन वज्रसूचीकृत्ताश्वघोषेण हरिवंशस्थ पद्यमेकमुध्दतम् । एभिः सर्वैः समुदितैरेतत् सिध्दं यत् ख्रीष्टशतकप्रारम्भे महाभारतमवश्यमवर्तत । अपि च – (क) पाणिनिः महाभारतं जानाति स्मेति डल्ह्मैन (Dalhmann) साक्ष्येण् प्रतीयते । (ख) ख्रीष्टपूर्वपञ्चमशतकप्रणीते आश्वलायनगृह्यसूत्रे महाभारतस्थोल्लेखो दृश्यते । (ग) ४०० ई.पू समये निर्मिते बौधायनधर्मसूत्रे महाभारतस्थोल्लेखो दृश्यते । (घ) बौधायनगृह्यसूत्रे महाभारतीयं विष्णुसहस्त्रनामोदिघ्रयते स्म । (ङ) महाभारतीयशान्तिपर्वणि विष्णोर्दशावतारगणनाकाले बुध्दस्य नाम नायाति । (च) मेगास्थनीजप्रणीते भारतवर्णने याः कथास्ता महाभारत एव प्राप्याः । (छ) ब्रह्म सर्वदेवज्येष्ठतया महाभारते प्रतिपादितः । पालिभाषासाहित्येन ज्ञायते यद् ब्रह्मणो ज्यैष्ठत्वं ख्रीष्टपूर्वपञ्चमशतकात् प्रागेव प्ररूढप्रचारमासीत् । (ज) ज्यौतिषप्रमाणैः अपि कतिपये विद्वांसः कल्पयन्ति यत् वर्त्तमानं महाभारतम् ५०० ई.पू. समयात् प्रागेव निर्मितं न ततः परम् । अतः सर्वसमीक्षया महाभारतम् ५०० ई.पू. समयतः परतो न निर्मितं किन्तु कदाचित् पूर्वमेव निर्मितमिति प्रतीयते ।

महाभारतस्यादरः

रामायणस्य तुलनायां यद्यपि महाभारतस्य प्रचारादौ अल्पौ, तथापि महत्त्वदृष्ट्या महाभारतं विश्वस्य कुतोऽपि ग्रन्थान्न हीयते । महाभारतं तदानीन्तनभारतीयसमाजनीतिप्रभृतिज्ञातव्यं बोधयति, महाभारतं तदानीन्तनीं भारतीयां सभ्यतां प्रकाशयति । प्रमाणग्रन्थतयैवास्य पञ्चमवेदसंज्ञा जाता । यथा रामायणाधारेण बहवो ग्रन्था अरच्यन्त तथैव महाभारताधारेणापि । एतत् सर्वमस्य ग्रन्थस्य महत्त्वे साक्षिभूतम् ।

महाभारतस्य विभागाः

महाभारतमष्टादशसु पर्वसु विभक्तं वर्त्तते, तस्मिंश्च आदि –सभा- वन विराट- उद्योग- भीष्म द्रोण कर्ण- शल्य सौप्तिक –स्त्री- शान्ति- अनुशासन- अश्वमेध- आश्रमवासि महाप्रास्थानिक –स्वर्गारोहणपर्वणि सन्ति । कथा प्रसिध्दा । अनुषङ्गतः शकुन्तलोपाख्यान –मत्स्योपाख्यान –रामोपाख्यान-शिविकथा –सावित्रीकथा- नलोपाख्यानादीनि वर्णितानि । युध्दवर्णनमात्रं न व्यासस्य लक्ष्यमपि तु भौतिकजीवनस्यासारतां प्रकाश्य प्राणिनां मोक्षमार्गे प्रवर्त्तनमेव व्यासस्य महाभारतप्रणयने उद्देश्यमासीत्, अत एवात्र शान्तो रसः प्रधानभूतः वीरस्तु रसोऽङ्गभावं गतः ।

महाभारतस्य विशिष्टता

व्यासस्य कृतिरियं सर्वैरितिहास इत्युच्यते यतोऽत्र वीराणां पुण्या गाथा वर्णिता । अयं ग्रन्थो धार्मिकग्रन्थो येन लोकः स्वकल्याणं गवेषयति । अत्रैव ग्रन्थे गीतारत्नं विद्यते या दुग्धेव प्रतीयतेऽनवरतं दुह्यमानाऽपि । गीताग्रन्धस्यादरो महाभारतस्यैव विशिष्टतां प्रमापपति । स्वयमेव व्यासेन महाभारतस्य प्रशंसायां यदुक्तं तदक्षरशः सत्यम् –

यो विद्याच्चतुरो वेदान् साङ्गोपनिषदो द्विजः ।
न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः॥
श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यत्र रोचते ।
पुंस्कोकिलागरं श्रुत्वा रुक्षा ध्वंक्षस्य वागिव ॥

कथा

अथ चन्द्रवंशे शान्तनुः नाम महाराजः आसीत्। एकदा सः गङ्गायाः तीरे चलन् सुन्दरीम् गङ्गाम् अपश्यत्।

अर्जुनसन्न्यासः सुभद्रा च'

अधुनातने जनजीवने

संस्कृतस्य काव्यमिदम् अद्यापि जनजीवने सुविख्यातं, प्रेरणाप्रदं च तिष्ठति। दूरदर्शने 'रामायण'धारावाहिन्याः लोकप्रियताम् अनु महाभारतम् इति धारावाहिनी प्रसारिता। बी.आर.चोपडावर्येण सृष्टा इयं धारावाहिनी स्वस्य गभीराध्ययनपूर्णचित्रणात् सर्वान् आकर्षत्| दूरदर्शनयंत्रे बहुवाहिनीभिः समृद्धे युगेऽस्मिन्नपि इयं धारावाहिनी पुनः पुनः प्रसार्यते।

कौरवसभायां द्रौपदीप्रलापः

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=महाभारतम्&oldid=176496" इत्यस्माद् प्रतिप्राप्तम्