"संस्काराः" इत्यस्य संस्करणे भेदः
(लघु) r2.6.4) (Robot: Adding en:Saṃskāra |
|||
पङ्क्तिः २२: | पङ्क्तिः २२: | ||
==बाह्यसम्पर्कतन्तुः== |
==बाह्यसम्पर्कतन्तुः== |
||
* [http://www.hinduculture.info HinduCulture] |
* [http://www.hinduculture.info HinduCulture] |
||
⚫ | |||
[[bn:ষোড়শ সংস্কার]] |
[[bn:ষোড়শ সংস্কার]] |
||
[[de:Samskara]] |
[[de:Samskara]] |
||
[[en:Saṃskāra]] |
|||
[[hi:हिन्दू संस्कार]] |
[[hi:हिन्दू संस्कार]] |
||
[[ml:ഷോഡശക്രിയകൾ]] |
[[ml:ഷോഡശക്രിയകൾ]] |
||
पङ्क्तिः ३०: | पङ्क्तिः ३३: | ||
[[ru:Санскары]] |
[[ru:Санскары]] |
||
[[sv:Samskara]] |
[[sv:Samskara]] |
||
⚫ |
१०:४१, ९ फेब्रवरी २०१२ इत्यस्य संस्करणं
संस्कारशब्दार्थः
बहुष्वर्थेषु संस्कारशब्दस्य प्रयोगो दृश्यते परिष्करण – भूषण- प्रशिक्षण- संस्कृति- स्वशुध्दिक्रिया धार्मिकविधानादिषु विभिन्नेष्वर्थेषु प्नयुक्तोऽयं संस्कारशब्दः । शास्त्रान्तरेष्वपि अस्य स्वरुपं भिन्नतय वर्णितम् । वेदान्तिनां मते “देहे समुत्पद्यमानः स्नानाचमनादिजन्यजीवधर्मः संस्कारः। भावस्य व्यक्तिकरणार्थमात्मब्यञ्जनशक्तिरेव संस्कार इति नैयायिकमतम् । धर्मशास्त्रे तु मानवस्य कायिक –वाचिकपरिशुध्दयर्थं धर्मिकक्रियानुष्ठानेनात्मनि जायमानो धर्मैविशेषः संस्कार इति प्रतिपादितम् । सामान्यतः धार्मिकक्रियाकल्पार्थे संस्कारशब्दस्य व्यवहारो दृश्यते व्याकरणे ।
संस्कारभेदः
गर्भाधानादारभ्यान्त्येष्टिं यावत् त्रयोदशसंस्काराः इति मनुना प्रतिपादितम् । ते च यथा – गर्भाधानम्, पुंसवनम्, सीमन्तोन्नयनम्, जातकर्म, नामकरणम् बहिर्निष्कमणम्, अत्रप्राशनम्, चूडाकर्म, उपनयनम् केशान्तः समावर्त्तनम्, विवाहः, अन्त्येष्टिश्चेति । एषु केशान्तसंस्कारं विहायावशिष्टाः द्वादशसंस्काराः स्वीकृताः याज्ञवल्क्येन । तेन समावर्त्तनसंस्कारेण केशान्तसंस्कारस्यान्तर्भावः कृतः ।
षोडशसंस्काराः
संस्कारशब्दः सम् उपसर्गपूर्वकं 'कृञ्'धातुना घञ् प्रत्ययपूर्वकम् स्म्स्कृतभाषायां व्याकरणशास्त्रदृष्ट्या व्युत्पत्तिर्भवति । सम + कृञ् + घञ्, इति संस्कारः । संस्कारशब्दस्य प्रयोगः बहुधा भवति । मीमांसादर्शने अस्य संस्कारशब्दस्य अर्थः यज्ञाङ्गभूत पुरोडाशादि शुद्ध्यर्थं प्रोक्षणविक्षणादिना सम्पन्ना भवति । अद्वैतवेदान्तिमतानुसारेण शारीरिकक्रियाणां मिथ्याक्षेपः संस्कारः इति । नैय्यायिकभावना अभिव्यक्तिहेतुना आत्मव्यञ्जकशक्तिः संस्कारः कथ्यते । मानवजीवने संस्काराः महत्त्वपूर्णाः सन्ति । संस्कारैः मनुष्यत्वं मानवता एवं व्यक्तित्वविकासश्च भवति । भिन्नेषु ग्रन्थेषु संस्काराणां संख्या भिन्ना दर्शिता वर्तते । जन्मना मानवः अपूर्णः भवति । संस्कारैश्च तत्र पूर्णता आगच्छति । भारतीयग्रन्थपरम्परया प्रायः षोडशसंस्काराः करणीयाः इति अस्माकं भगवान् बादरायणः अपि सूचयति । ते च इत्थं सन्ति ।
- गर्भाधानसंस्कारः
- पुंसवनसंस्कारः
- सीमन्तोन्नयनसंस्कारः
- जातकर्मसंस्कारः
- नामकरणसंस्कारः
- निष्क्रमणसंस्कारः
- अन्नप्राशनसंस्कारः
- चूडाकर्मसंस्कारः
- उपनयनसंस्कारः
- केशान्तसंस्कारः
- समावर्तनसंस्कारः
- विवाहसंस्कारः
- अन्त्येष्टिसंस्कारः