"युरेनस्-ग्रहः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) Shubha moved पृष्ठ अरुणः से अरुणः (युरेनस्): स्पष्टतायै
(भेदः नास्ति)

०८:५१, ९ मार्च् २०१२ इत्यस्य संस्करणं

वॉएजरात् गृहित अरुणस्य चित्रमिदम्

युरेनस्ग्रहः अरुण: इति, कुत्रचित् इन्द्रः इति च उल्लिखितः दृश्यते । अस्माकं सौरमण्डले सूर्यात् सप्तमः बृहत्तमः ग्रहः अयम् । अस्य ग्रहस्य अन्वेषणं १७८१ तमे वर्षे विलियं हर्षेल् कृतवान् । अस्य ग्रहस्य वातावरणे जलजनकम्, हीलियम्, मिथैन् इत्येतेषां संयोगः दृश्यते इत्यतः अस्य वर्णः भवति हरित् । एतं ग्रहं परितः वर्णमयैः लघुभागैः युक्तानि लघ्वाकारकाणि नव वृत्तानि दृश्यन्ते । बाह्यवृत्तानां विस्तारः १,००,००० कि मी अपेक्षया अधिकः भवति । अस्य ग्रहस्य पञ्च उपग्रहाः सन्ति - मिराण्डा एरिमल् आन्द्रियल् तिटानिया ओबेरान् च । अस्य ग्रहस्य विस्तारः ३२,००० मैल्-परिमितम् । स्वस्य परिभ्रमणाय अयं ग्रहः १६ घण्टात्मकं कालं स्वीकरोति । सूर्यं परितः भ्रमणाय ८४.०१ वर्षं स्वीकरोति ।

सन्दर्भ:

"https://sa.wikipedia.org/w/index.php?title=युरेनस्-ग्रहः&oldid=185402" इत्यस्माद् प्रतिप्राप्तम्