"कर्कटराशिः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) Shubha moved पृष्ठ कर्कटः राशिः से कर्कटराशिः: समस्तपदम्
(भेदः नास्ति)

०४:०५, १५ मार्च् २०१२ इत्यस्य संस्करणं

कर्कटराशिः द्वादशराशिषु अन्यतमः । द्वादश राशयः मेषः, वृषः, मिथुन, कर्कटः, सिंह, कन्या, तुला, वृश्चिकः धनुः मकरः, कुम्भः तथा मीनः सन्ति।

नामौचित्यम्

कर्कटः जले सञ्चरति । सर्वदा जलतले निवसन् अयं कर्कटः जलं प्रशान्तं यदा भवति तदा दृश्यते । लघुः शब्दः श्रुतः चेदपि अधः पलायते । आकृतिः भयावहः चेदपि न तथा धैर्यवान् । कर्कटराशिवन्तः कलहं न इच्छन्ति । गृहव्यवहारेषु एतेषाम् अतीव श्रद्धा ।

अधिपतिः

कर्कटराशेः अधिपतिः अस्ति चन्द्रः । असमर्थः राजा राज्ञी इति वा चन्द्रं सामान्यतः जनाः अभिजानन्ति । कर्कटराशिवन्तः सर्वे यदि सहकुर्वन्ति तर्हि आधिपत्यं प्राप्तव्यम् इति इच्छुकाः प्रयतमानाश्च भवन्ति । चन्द्रः न स्वयं प्रकाशः, अन्यं ग्रहं परितः भ्रमति, तस्य कलाः परिवर्तन्ते इत्यतः कर्कटराशिवन्तः आवश्यकतानुगुणं व्यवहारः, अवसरे प्राप्ते स्वस्य प्रामुख्यस्य प्रदर्शनम्, स्नेहशीलता, अन्येषु अवलम्बनस्वभावश्च भवन्ति । चन्द्रः रात्रौ प्राबल्यं यथा प्रदर्शयति तथा एते कार्यनिर्वहणावसरे कुत्रचित् स्वस्य वैशिष्ट्यं प्रदर्शयन्ति । असमर्थः राजा इत्यतः एतेषु अन्येषां प्रभावः भवति अगाधः । एते सर्वेषाम् अभिप्रायं शृण्वन्ति । सर्वान् तोषयितुं प्रयतन्ते च । अन्येषाम् अभिप्रायाः न आद्रियन्ते चेत् स्वस्य स्थानं रक्षितं न भवति इति एतेषां चिन्तनम् । राज्ञी इत्यतः प्रीत्या, जलग्रहः इत्यतः आकर्षणेन उपायनादीनां दानेन च सर्वान् वशीकर्तुम् एते प्रयतन्ते । सर्वे मम वचनं न शृण्वन्ति इति चिन्तयद्भिः एतैः मानसिकभावावेगः अनुभूयते । सुलभतया रोगग्रस्ताः भवन्ति । शारीरक-मानसिक-अस्वास्थ्यावसरे आत्मीयाः सर्वे समीपे एव भवेयुः इति आग्रहः अधिकः दृश्यते एतेषु । मातृप्रीतिः, न्यूननिर्णयशक्तिः, आकर्षणञ्च एतेषां वैशिष्ट्यम् ।

राशिभावः

कर्कटः सहजचतुर्थभावः इति निर्दिश्यते । चतुर्थभावः मातृभावः इति परिगण्यते । मातुः प्राप्यमाणं प्रीतिमयं जीवनम्, गृहम्, वाहनम्, आहारः, प्राथमिकविद्या, सुखादयः अत्र परिशील्यन्ते ।

स्म्बद्धानि अक्षराणि

कर्कटराशौ पुनर्वसोः चतुर्थः पादः, पुष्यस्य ४ पादाः, आश्लेषायाः ४ पादाः च भवन्ति इत्यतः ही, हू, हे, हो, डा, डी, डू, डे, डो ... इत्येतानि अक्षराणि कर्कटसम्बद्धानि इति वक्तुं शक्यते ।

जन्मदिनम्

येषां जन्मदिनम् जून्-मासस्य २२ दिनाङ्कतः जुलैमासस्य २३ दिनाङ्कतः पूर्वं भवति तेषां कर्कटराशिः ।

"https://sa.wikipedia.org/w/index.php?title=कर्कटराशिः&oldid=185954" इत्यस्माद् प्रतिप्राप्तम्