"भीष्मः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.6.4) (Robot: Adding en:Bhishma; modifying ta:வீடுமர்
(लघु) r2.7.2) (Robot: Adding ne:भीष्म
पङ्क्तिः ३९: पङ्क्तिः ३९:
[[ml:ഭീഷ്മർ]]
[[ml:ഭീഷ്മർ]]
[[mr:भीष्म]]
[[mr:भीष्म]]
[[ne:भीष्म]]
[[ru:Бхишма]]
[[ru:Бхишма]]
[[su:Bisma]]
[[su:Bisma]]

०५:३४, ५ एप्रिल् २०१२ इत्यस्य संस्करणं

महाभारते भीष्‍ममहोदय: सर्वेषां कृते अतीव आदरणीय: महान्‌ कौरव: आसीत्‌ । स: शूर: धीर: मानी विवेकी कर्तव्‍यतत्‍पर: प्रतिज्ञापरायणश्‍चासीत्‌ । तस्‍य पिता शन्तनु: शूर: कुरुराज: आसीत्‌ । शन्तनो: पत्‍नी गङ्गा । भीष्‍म: तयो: अष्‍टम: पुत्र: । एकदा शन्तनु: मृगयार्थं गतवान्‌ धीवरकन्‍यां योजनगन्धानामिकां दृष्‍टवान्‌ । तस्‍या: दर्शनेन स: मोहित: कामाभिभूतश्‍च जातः । महात्मा भीष्मः प्रसिद्धस्य कुरुवंशस्य महाराजस्य: शन्तनोः पुत्रः।गङ्गादेवी एतस्य माता ।महर्षेः वसिष्ठस्य शापेण भीष्मरूपेण अवतारं गृहीतवान् एषः वसूनां मध्ये नवमवसुः आसीत् । बाल्यकाले एव वेदाध्ययनं शास्त्राभ्यासं च कृतवान् आसीत् । तदा एव अभ्याससमये एकवारं शरप्रयोगेण गङ्गाधारां स्थगितवान् आसीत् । बाल्ये एतं देवव्रतः इति आह्वयन्ति स्म ।

पितृभक्तः भीष्मप्रतिज्ञः च

भीष्मस्य प्रतिज्ञावसरः रविवर्मचित्रम्

कदाचित् राजा शन्तनु: मृगयार्थं वनं गतवान् आसीत् । धीवरराजकन्यां सत्यवतीं दृष्टवान् । तया सह विवाहं कर्तुम् इष्टवान् । किन्तु धीवरराजः सत्यवत्य़ा: पुत्र: एव अग्रे राज्याधिकारी भवेत् इति निर्बन्धं करोति । शन्तनु: एतं नियमं न अङ्गीकरोति । किन्तु सत्यवतीं न विस्मरति । स: विरहवेदनया खिन्नः अभवत् । तदा पुत्र: देवव्रत: एव पितु: दु:खस्य कारणं ज्ञात्वा स्वयमेव धीवरराजस्य समीपं गत्वा पितुः निमित्तं कन्यायाचनं करोति । धीवरस्य नियमान् अङ्गीकृत्य ‘सत्यवत्या: पुत्र: एव अग्रे राजा भविष्यति’ तदर्थम् आजीवनं ब्रह्मचर्यस्य व्रतं पालयामि’ इति भीष्मप्रतिज्ञां कृतवान् । एतद् श्रुत्वा देवा: अपि पुष्पवृष्टिं कृतवन्त: । तदारभ्य जना: एतं ‘भीष्मः’ इति आहूतवन्त: । एतां प्रतिज्ञां श्रुत्वा राजा सत्यवतीं भीष्मेण सह प्रेषितवान् । भीष्म: सत्यवतीं स्वीकृत्य पितु: विवाहं कारितवान् । शन्तनु: महता आनन्देन पुत्राय इच्छामरणस्य वरदानं दत्तवान् । एवं भीष्म: जीवनारम्भे एव पितु: इच्छायाः पूर्णतायै स्वजीवनस्य त्यागेन आदर्शम् उपस्थापितवान् ।

कुरुवंशदायित्वम्

सत्यवतीशन्तनो: पुत्रद्वयं जातम् । ज्येष्ठ: चित्राङ्गद: कनीय: विचित्रवीर्य: च । पुत्रयो: बाल्ये एव पिता दिवङ्गत: । चित्राङ्गद: राजा अभवत् । किन्तु गन्धर्वै: सह युद्धावसरे एष: अपि मृत: जात: । बालक: विचित्रवीर्य: भीष्मस्य नेतृत्वे राज्यभारं कुर्वन् आसीत् । किञ्चित् कालानन्तरं काशीनरेश: स्वस्य तिसॄणां पुत्रीणां स्वयंवरं कारयन् आसीत् । तस्मिन् अवसरे भीष्म: काशीं गत्वा विचित्रवीर्याय तिसॄ: कन्या: बलात् रथे उपवेश्य हस्तिनापुरं प्रति प्रस्थितवान् । स्वयंवरार्थम् आगता: सर्वे राजान: भीष्मेण सह युद्धं कृतवन्त: तथापि एतस्य अस्त्रकौशलस्य पुरत: केऽपि स्थातुं न शक्तवन्त: । भीष्म: तिसॄ: कन्या: अपि आनीय विचित्रवीर्याय दत्तवान् । एतस्मिन् अवसरे प्रथमवारं भीष्मस्य पराक्रमस्य शौर्यस्य च प्रदर्शनम् अभवत् ।

प्रतिज्ञाबद्धः

काशीराजस्य कन्यासु ज्येष्ठा अम्बा मनसि एव शाल्वराजं वृतवती आसीत् । यदा विषय: ज्ञात: तदा अनुक्षणं भीष्म: गौरवपूर्वकं तां तत्र प्रेषितवान् । द्वयो: कन्ययो: विवाहं विचित्रवीर्येण सह कारितवान् । किन्तु विचित्रवीर्य: अधिककालं न जीवितवान् । क्षयरोगात् स: मृत: जात: । तस्य अपत्यानि न आसन् । कुरुवंशस्य अन्त्यमेव आगतमिव भासते स्म । यदि इच्छति तर्हि भीष्मः राज्यं सुलभतया प्राप्तुम् अशक्ष्यत् । वंशस्य रक्षणाय विवाहं करोति चेत् कस्यापि आक्षेप: न अभविष्यत् । किन्तु स: स्वस्य प्रतिज्ञात: किञ्चिदपि विचलित: न अभवत् । कदाचित् स: उक्तवान् आसीत् यत् “अहं लोकत्रयस्य राज्य्पदविं, ब्रह्मपदविं, मोक्षपदविं वा त्यक्तुं शक्नुयां किन्तु सत्यं न त्यजामि। पञ्चभूता: स्वस्य गुणान् त्यजन्तु, धर्मराजः यमः स्वस्य धर्मं त्यजतु, चन्द्र: स्वस्य शीतलत्वं त्यजतु नाम किन्तु अहं मम प्रतिज्ञापालनत: विमुख: न भविष्यामि” इति । स: खलु भीष्म: ?

पराक्रमी भीष्मः

तत्र अम्बां शाल्व: न स्वीकृतवान् । लज्जापमानेन सा भीष्मे द्वेषम् आरब्धवती । स्व-अवस्थाया: कारणं भीष्म: इति मत्वा सा प्रतीकारार्थं सज्जा अभवत् । पितामह: राजर्षि: होत्रवाहनस्य सूचनाद्वारा सा जमदग्ने: पुत्रे परशुरामे शरणागता अभवत् । परशुराम: भीष्मस्य अस्त्रगुरु: । अत: स: भीष्मम् आहूय अम्बायाः पाणीग्रहणं भवता करणीयमेव इति आग्रहं कृतवान् । किन्तु प्रतिज्ञाबद्धेन भीष्मेन गुरोः वचनं न श्रुतम् । गुरु-शिष्ययो: भयङ्करं युद्धम् आरब्धम् अभवत् । कस्यापि जयः न अभवत्। त्रयोविंशतिदिनपर्यन्तं युद्धं कृतवन्तौ । अन्ते देवा: मुनय: च आगत्य शान्तरीत्या युद्धस्य समापनं कारितवन्त: । एवं भीष्म: परशुरामसदृशेन अद्वितीयधनुर्धरेण सह अपि युद्धं कृत्वा स्वस्य अद्भुतं पराक्रमं दर्शितवान् ।

महाभारतयुद्धे पात्रम्

महाभारतयुद्धे भीष्म: कौरवपक्षस्य सर्वश्रेष्ठ: योध: आसीत् । अत: एष: प्रथमसेनानायकस्य दायित्वं गौरवं च प्राप्तवान् । पाण्डवानां, कौरवाणां च पितामह: सन् द्वयो: विषयेऽपि एतस्य समानौ प्रीत्यादरौ आस्ताम् । तथापि धर्मिष्ठपाण्डवानां विषये विशेष-आत्मीयता आसीत् । मनसि एव तेषां विजयम् इच्छति स्म । किन्तु युद्धे कुत्रापि पाण्ड्वेभ्य: सहानुभूतिं न दर्शितवान् । लक्ष्यं केवलं कौरवाणां विजये एव आसीत् । अष्टादशदिनात्मके युद्धे दशदिनपर्यन्तमपि एष: एव कौरवसेनानायक: आसीत् । पाण्डवसेनाया: अधिकं संहारमपि कृतवान् । वृद्ध: चेदपि युद्धे एतस्य पराक्रम: तु अत्यद्भुतः आसीत्। द्विवारं स्वयं श्रीकृष्ण: एव अर्जुनस्य रक्षणार्थं साहाय्यं कृतवान् , चक्रमपि गृहीतवान् । युद्धे शस्त्रग्रहणं न करोमि इति श्रीकृष्ण: प्रतिज्ञां कृतवान् आसीत् । भीष्म: यावत् पर्यन्तं भवति तावत् पर्यन्तं कौरवाणां प्रति विजयम् असाध्यम् इति मत्वा पाण्डवा: पितामहम् एव तस्य मृत्यो: उपायं पृष्टवन्त: । भीष्मः स्वयं स्वस्य मृत्यो: उपायं सूचितवान् । ‘द्रुपदस्य पुत्र: शिखण्डी स्त्रीरूपेण जन्म प्राप्तवान् आसीत् । इदानीं स: पुरुष: इव परिवर्तितः चेदपि मम दृष्ट्या स: स्त्री एव । यदि स: मया सह युद्धं कर्तुम् आगच्छति तर्हि अहं शस्त्रप्रयोगं न करोमि । तस्मिन् अवसरे माम् अर्जुन्: मारयितुं शक्नोति’ इति । क्षत्रियधर्मपालनस्य पराक्रमस्य विषये इतोऽपि श्रेष्ठम् उदाहरणम् अस्ति किम्?

अन्त्यम्

युद्धे यदा मर्माघातेन भीष्म: पतितवान् तदा तस्य पूर्णशरीरं बाणेन पूरितमासीत् । शरशय्यायामेव स: शयितवान् आसीत् । भूमे: स्पर्शमपि न भवति स्म । तदा सूर्य: दक्षिणायने आसीत् । तस्मिन् अवसरे देहत्याग: सूक्त: न इति चिन्तयित्वा स: उत्तरायणस्य आगमनपर्यन्तमपि शरशय्यायामेव शयितवान् आसीत् । पितु: वरदानेन मृत्यु: तु स्वयं तस्य अधीने आसीत् । युद्धे यदा स: पतितवान् तदा युद्धं समाप्य कौरवा: पाण्डवा: सर्वे तं परित: स्थित्वा दृष्टवन्त: । भीष्मस्य शरीरं तु बाणानाम् आधारेण स्थितम् आसीत् । किन्तु शिर: एवमेव कम्पते स्म । आधाररहितमासीत् । तत्र स: किमपि आधारम् इष्टवान् । सर्वे उत्तमोत्तमानि उपधानानि आनीय दत्तवन्त: । भीष्म: तद् सर्वं न इष्टवान् । अर्जुनम् उद्दिश्य ‘पुत्र ! क्षत्रियोचितम् उपधानमेकम् आनीय मह्यम् ददातु’ इति उक्तवान् । वीराणां संज्ञा: वीरा: एव जानन्ति । अर्जुनः पुन: बाणप्रयोगेन तस्य शिर: उन्नीतवान् । शराधारेण शिरसः शरीरस्य च समतोलनम् अभवत् । दुर्योधन: तस्य शरीरत: बाणनिष्कासनाय वैद्यम् आनीतवान् चेदपि भीष्म: आदरपूर्वकं तं वैद्यं प्रेषितवान् । तस्मिन् समये अपि स: युद्धस्थगनाय शान्तिस्थापनाय च पूर्णं प्रयत्नं कृतवान् । किन्तु सफल: न जात: ।

शरशय्यायाम् असहनीयवेदनया भीष्मपितामहस्य कण्ठ: शुष्कः आसीत् । पूर्णं शरीरं ज्वलति स्म । स: पातुं जलम् इष्टवान् । जना: शीतलं सुगन्धयुक्तं जलम् आनीतवन्त: । एष: तदपि तिरस्कृत्य उक्तवान् ’ पूर्वम् उपयुक्तं मानवीयं फलानुभवम् इदानीं न् स्वीकरोमि । यत: इदानीम् अहं शरशय्यायाम् अस्मि । अनन्तरम् अर्जुनम् उद्दिशय ‘पुत्र ! भवान् एव मह्यं विध्युक्तं जलं ददातु’ इति । ’भवत: आज्ञा शिरोधार्या’ इत्युक्त्वा अर्जुनः भीष्मस्य पार्श्वे भूमौ एव स्वस्य पर्जन्यास्त्रं प्रयुक्तवान् । सर्वे पश्यन्त: आसन् । भूमीतः एका दिव्यजलधारा आगत्य साक्षात् भीष्मस्य मुखे एव अपतत् । अमृतसमानं तत् जलं पीत्वा भीष्मः: तृप्त: जात: । अर्जुनस्य प्रशंसां कृतवान् । तदारभ्य भीष्म: अन्नजलं त्यक्तवान् । अन्तिमश्वासपर्यन्तं बाणवेदनां बुभुक्षापिपासां च सोढवान् । एवं स: पराक्रमेण सह धैर्यस्य सहनशीलतायाः अपि उत्कृष्ट-उदाहरणं दर्शितवान् ।

भीष्म: केवलं पितृभक्त:, सत्यवादी, प्रतिज्ञाबद्द:, आदर्शवीर: वा न आसीत् । स: शास्त्राणां महान् ज्ञानी, धर्मज्ञानी, ईश्वरज्ञानी च आसीत् । तस्य ज्ञानस्य विषये स्वयं भगवान् एव प्रशंसां कृत्वा एवम् उक्तवान् अस्ति यत् ’यदा एतस्मात् लोकात् भवान् गच्छति तदा भवता सह सर्वमपि ज्ञानं गच्छति । प्रपञ्चे विद्यमानेभ्य: सन्देहास्पदेभ्य: विषयेभ्य: भवन्तं विहाय अन्ये केऽपि समाधानं परिहारं वा दातुं न शक्नुवन्ति’ इति । श्रीकृष्णपरमात्मनः प्रेरणया, शक्त्या सह एष: युधिष्ठिराय बहुदिनपर्यन्तं वर्णाश्रमधर्म:, राजधर्मं, आपद्धर्मं, मोक्षधर्मं, श्रद्धाधर्मं, स्त्रीधर्मं च उपदिष्टवान् । एते विषया: महाभारतस्य शान्तिपर्वणि, अनुशासनपर्वणि च सङ्गृहितानि सन्ति । साक्षात् धर्मस्य अंशेन उत्पन्नस्य, धर्मस्य प्रत्यक्षमूर्तेः राज्ञ: युधिष्ठिरस्य धार्मिकविषयानां सन्देहनिवारणमेव भीष्मस्य कार्यमासीत् । एतस्य उपदेशं श्रोतुं व्यासादयः मुनय: अपि आगच्छन्ति स्म ।

श्रीकृष्णपरमात्मनः महिमाया:, प्रभावस्य च ज्ञानं यथा भीष्मस्य आसीत् तथा ज्ञानं अन्यस्य नासीत् । अर्थात् श्रीकृष्णं बहुन्यूना: जना: जानन्ति स्म । धृतराष्ट्रदुर्योधनेभ्य: भीष्म: बहुवारं श्रीकृष्णस्य माहात्म्यं सूचितवान् आसीत् । राजसूययज्ञे अग्रपूजायै श्रीकृष्ण: एव सर्वोत्तम: इति निर्णीय एष: पूर्णसभायां श्रीकृष्णस्य महिमाया: गुणगानं कृत्वा स: साक्षात् परमेश्वर: एव इति बुद्धिवादम् उक्तवान् आसीत् । यदा श्रीकृष्ण: चक्रं गृहीतवान् तदा भीष्म: परमात्मनः हस्तत: मरणं तु स्वस्य सौभाग्यम् इति मत्वा शस्त्रद्वारा पूजां कर्तुं तस्य आह्वानं कृतवान् । युधिष्ठिराय भीष्म: विष्णुसहस्रनामस्तोत्रम् उक्तवान् । तत्र तु एतस्य भगवद्भक्ति: ज्ञानं च प्रवहति । तस्य भक्तिकारणत: एव तस्य अन्त्यकाले श्रीकृष्ण: तस्मै दर्शनं दत्वा तं कृतार्थं कृतवान् । एवं भक्तौ, ज्ञाने, सदाचारेषु एषः आदर्शप्राय: । प्रपञ्चस्य इतिहासे एतादृशा: जना: न्यूना: । भीष्मः: पुत्रहीन: चेदपि सर्वे त्रिवर्णीय हिन्दव: अपि पितृतर्पणकरणसमये एतस्मै अपि अर्घ्यम् अर्पयन्ति । एतादृश: गौरव: भारतस्य इतिहासे अन्यस्य कस्यापि नास्ति । पूर्णं जगत् अद्यापि एतं पितामह: इति आह्वयति । भीष्मसदृशस्य पुत्रहीनस्य सौभाग्यं तु पुत्रवताम् अपि असूयां जनयति ।

"https://sa.wikipedia.org/w/index.php?title=भीष्मः&oldid=188640" इत्यस्माद् प्रतिप्राप्तम्