"तिरुवनन्तपुरम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः २२: पङ्क्तिः २२:


== कालावस्थागणनापट्टिका==
== कालावस्थागणनापट्टिका==



==साम्पत्तिकमेखला ==
==साम्पत्तिकमेखला ==

१४:३३, ५ एप्रिल् २०१२ इत्यस्य संस्करणं

राजारविवर्मणा १८८० तमे वर्षे चित्रितं तिरुवनन्तपुरम्

तिरुवनन्तपुरम् केरळराज्यस्‍य राजधानी अस्‍ति । इदम् एकं सुरम्‍यं नगरम् अस्‍ति । अत्र अनन्तशायिनः श्रीविष्‍णोः मन्दिरम् अत्यन्तं प्रसिद्धम् अस्ति । अत्रत्य जनसंख्या ९००,००० परिमिता अस्‍ति ।

केरलराज्यस्य राजधानी तिरुवनन्तपुरजनपदस्य आस्थानं च भवति तिरुवनन्तपुरम् । भारतस्य पश्चिमतीरे दक्षिणाग्रे इदं नगरं विराजते । उन्नतावनतभूम्या अतिवेगयुक्तमार्गैः अनलसवाणिज्यमेखलया च सम्पन्नं भवतीयं सुन्दरनगरी । अस्माकं राष्ट्रपतिमहाभागेन महात्मागान्धिवर्येण नित्यहरितनगरम् इति तिरुवनन्तपुरमुद्दिश्य कथितम् । २०११ तमवर्षस्य गणनानुसारम् अस्मिन् नगरे १०००००० जना: वसन्ति । केरलराज्यस्य अत्यधिकजनसान्द्रतायुक्तनगरम् इदमेव ।

तिरुवनन्तपुरे केरलसर्वकारस्य तथा भारतसर्वकारस्य च अनेके कार्यालया: वर्तन्ते । विविधव्यवसायशृङ्खलायाः मुख्यकार्यालयाः च अस्मिन् नगरे तिष्ठन्ति । केरलराज्यस्य राष्ट्रियसिराकेन्द्रं भरणसिराकेन्द्रं च भवति इदं नगरम् । उन्नतविद्याभ्याससंस्थाः च अत्र वर्तन्ते । प्रशस्ता केरलसर्वकलाशाला, राजीव् गान्धी जैवसाङ्केतिकगवेषणकेन्द्रं, विक्रं साराभायी बहिराकाशकेन्द्रमित्यादयः तेषु प्रमुखाः । भारतस्य प्रथमविवरसाङ्केतिकसमुच्चय: टेक्नो पार्क् अपि तिरुवनन्तपुरे वर्तते ।

नामचरितम्

तिरुवनन्तपुरस्य प्रासादः

तिरुवनन्तपुरम् इति नाम तिरु-अनन्त-पुरम् इति पदत्रयात् रूपीकृतम् इति प्रबलविश्वासः । नगरस्य मुखमुद्रारूपेण गणितस्य श्रीपद्मनाभस्वामिमन्दिरस्य नामसम्बन्धी भवतीदं नाम । सहस्रशिरोयुक्तस्य अनन्तसर्पस्य उपरि शयितस्य महाविष्णोः रूपम् अस्मिन् मन्दिरे आराध्यते ।

नगरचरितम्

ख्रिस्तोः पूर्वं १००० वर्षादारभ्य तिरुवनन्तपुरस्य वाणिज्यचरित्रं लभ्यते । सुगन्धव्यञ्जनानि, गजशृङ्गाः, चन्दनदारवः इत्यादयः अत्रत्य मुख्यवाणिज्यवस्तूनि आसन् । किन्तु तत्कालीनानाम् अन्येषां नगराणाम् अपेक्षया तिरुवनन्तपुरस्य स्थिति: भिन्ना आसीत् । आय् राजवंशानां भरणे आसीत् तिरुवनन्तपुरम् । तेषां पतनानन्तरं १० शतके नगरभरणं वेणाट् राजवंशानां नियन्त्रणे आगतम् । आधुनिकतिरुवनन्तपुरस्य चरितं १७२९ वर्षे मर्ताण्डवर्मा महाराजस्य नगरभरणेन आरभ्यते । १७४५ वर्षे तिरुवनन्तपुरम् तिरुवितांकूर् राज्यस्य राजधानीरूपेण अङ्गीकृतम् ।

प्रकृति: भूमिशास्त्रं च

भारतस्य दक्षिणाग्रे पश्चिमपार्श्वे 8.5° N 76.9° Eअक्षांशरेखांशेन तिरुवनन्तपुरं विराजते| अस्य जनपदस्य पश्चिमभागे आरबसागर: पूर्वभागे सह्यपर्वत: च वर्तते|नद्य: लघुपर्वता: च देशे तत्र तत्र विद्यन्ते|वेल्लायणी ह्रद:, करमना नदी, किल्लियार्, आक्कुळं, तिरुवल्लं च तिरुवनन्तपुरे प्रवहन्त्य: प्रमुखा: जलाशया: भवन्ति| समुद्रात् 1890 मी. उपरि स्थित: अगस्त्यकूटम् इति प्रसिद्ध: पर्वत: एव अस्य नगरस्य परमोन्नतप्रदेश:|पोन्मुटि, मुक्कुन्निमला च अत्रत्य पर्सिद्धगिरिरिसोर्ट्स् (Hill Resorts)भवति| उष्णमेखलाप्रदेशे वर्तते इत्यत: तिरुवनन्तपुरे विभिन्नकालावसथा: प्रत्यक्षतया न अनुभवन्ति|उष्णधर्मपरिमाणं 34 °C तथा 21 °C च मध्ये वर्तते|वायो: आर्द्रता वृष्टिकाले अत्र नवति प्रतिशतं वर्धते|दक्षिणपश्चिममण्सूण् (south-west monsoon) मार्गे आद्ये विद्यमाने अस्मिन् नगरे वृष्टि: अपि आद्यमागच्छति| प्रतिवर्षं 1700 mm वृष्टि: अत्र पततीति शास्त्रज्ञानां गणना|जूण् मासे वृष्टि: आरभ्यते, डिसम्बर् मासत: फेब्रुवरी पर्यन्तं शीतमनुभवति|मार्च् त: मेय् पर्यन्तम् उष्णमनुभवति|

कालावस्थागणनापट्टिका

साम्पत्तिकमेखला

पूर्वकाले तिरुवनन्तपुरस्य साम्पत्तिकावस्था सेवनमेखलायामाधारितमासीत्|नागरिकेषु षष्ठिप्रतिशतं सर्वकारीयकर्मकारा: आसन्| किन्तु अद्य विवरसाङ्केतिकविद्या, बयो टेक्नोलजि, वैद्यशास्त्रमेखला च अत्रत्य साम्पत्तिकमेखलां नयति|भारतस्य प्रथम आनिमेषन् पार्क् (Animation Park) किन्फ्रा फिल्म् आन्ट् वीडियो पार्क् Kinfra Film and Video Park अस्मिन् नगरे तिष्ठति|

टेक्नोपार्क Technopark

भारते विवरसाङ्केतिकमेखलायां अनुबन्धकार्येषु च तिरुवनन्तपुरं चतुर्थस्थाने वर्तते इति गणयति| अस्यां मेखलायां नगरस्य केन्द्रं भवति टेक्नोपार्क| १९९५ वर्षे इदं स्थापनं स्थापितम्| केरलस्य software निर्गमने ८० प्रतिशतं अस्य नगरस्य सम्भावना भवति| टेक्नोपार्क केन्द्रे २५० companies तथा 35,000 जना: च कर्म करोति| Oracle Corporation, Infosys, TCS, HCL, Visual Graphics Computing Services, Ernst & Young Global Shared Services Center, Allianz Cornhill, RR Donnelley, UST Global, Tata Elxsi, IBS Software Services, NeST Software, SunTec Business Solutions इत्यदि अन्ताराष्ट्रीयगणानां शाखा: टेक्नोपार्क केन्द्रे वर्तते|

विनोदसञ्चारमेखला

तिरुवनन्तपुरस्य साम्पत्तिकमेखलायां प्रधानस्थानं वहति अत्रत्य विनोदसञ्चारमेखला|अनेके देशविदेशयात्रिका: प्रतिदिनमत्र पर्यटनं कुर्वन्ति|आयुर्वेद:, समुद्रतीर:, गिरिप्रदेशीयसुखवासकेन्द्रा: च अस्य नगरस्य विनोदसञ्चारमेखलायां आकृष्टा: वर्तन्ते|


"https://sa.wikipedia.org/w/index.php?title=तिरुवनन्तपुरम्&oldid=188745" इत्यस्माद् प्रतिप्राप्तम्