"कुस्तुम्बरी" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.6.4) (Robot: Adding ne:धनियाँ
(लघु) r2.7.1) (Robot: Adding af:Koljander
पङ्क्तिः ४२: पङ्क्तिः ४२:
[[वर्गः:शाकाहारः]]
[[वर्गः:शाकाहारः]]


[[af:Koljander]]
[[ar:كزبرة]]
[[ar:كزبرة]]
[[az:Keşniş]]
[[az:Keşniş]]

१२:३५, २० मे २०१२ इत्यस्य संस्करणं

धान्याकबीजानि

इदं धान्याकम् अपि भारते वर्धमानः कश्चन धान्यविशेषः । इदं धान्याकम् अपि सस्यजन्यः आहारपदार्थः । इदं धान्याकम् आङ्ग्लभाषायां Coriander इति उच्यते । अस्य धान्याकस्य सस्यशास्त्रीयं नाम अस्ति Coriandrum Saticiam इति । अस्य धान्याकस्य धान्यकं, धान्यका, धान्यं, धानी, धानेयकः, कुस्तुम्बरुः, अल्रका, छत्रधान्यं, वितन्नकं, कुस्तुम्बरी, सुगन्धी, शाकयोग्यं, सूक्ष्मपत्रं, जनप्रियं, धान्यबीजं, बीजधान्यं, वेधकम् इत्यादीनि अन्यानि अपि नामानि सन्ति । एतत् धान्याकम् अपि भारते सर्वस्य अपि गृहस्य पाकशालायां भवति एव । एतत् यथा आहारत्वेन उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । अस्य धान्याकसस्यस्य पत्रं, पुष्पं, काण्डं, मूलं तथा शलाटुः च उपयुज्यते ।

आयुर्वेदस्य अनुसारम् अस्य धान्याकस्य स्वभावः

धान्याकसस्यं, पुष्पं, बीजं च

एतत् धान्याकं यदा अशुष्कं भवति तदा मधुरं, सुगन्धयुक्तं हृद्यं च भवति । यदा शुष्कं भवति तदा कषायं, तिक्तमधुरं च भवति । एतत् धान्याकं स्निग्धं, शीतवीर्यं च ।


“आर्द्रा कुस्तुम्बरुः कुर्यात्स्वादुः सौगन्ध्यहृद्यताम् ।
सा शुष्का मधुरा पाके स्निग्धा तृट्दाहनाशिनी ॥
धान्यकं कासतृट्छर्दिर्ज्वरह्रुच्चक्षुषो हितम् ।
कषायं तिक्तमधुरं हृद्यं रोचनदीपनम् ॥“ (धन्वन्तरिकोषः)
धान्याकपुष्पम्


१. एतत् धान्याकं शिरोवेदनां, सर्पसुत्तुरोगं च निवारयति ।
२. धान्याकं मुखे जातान् पिटकान् शमयति । अस्य रसं मुखे संस्थाप्य निष्ठीवनं करणीयम् ।
३. नासिकातः रक्तं स्रवति चेत् अस्य धान्याकस्य रसं नासिकायां स्थापयन्ति ।
४. नेत्रं रक्तवर्णीयं जातं चेत् अपि धान्याकस्य कषायं नेत्रे स्थापयन्ति ।
५. मस्तिष्कसम्बद्धेषु रोगेषु धान्याकस्य त्वक् निष्कास्य क्षीरं योजयित्वा कषायं निर्माय दीयते । अस्य कषायस्य सेवनेन शिरोभ्रमणं, मूर्छारोगः, विस्मरणशीलता च न्यूना भवति ।
६. अस्य धान्याकस्य कषायम् अरुचौ, वमने, अजीर्णे, अतिसारे, उदरबाधायां, कृमिरोगे च दातुं शक्यते ।
७. धान्याकस्य शीतकषायं ज्वरावसरे जायमानस्य तृष्णायाः, दाहस्य वा शान्त्यर्थं दीयते ।
८. शिरोवेदनायां धान्याकस्य बीजस्य लेपनम् अपि क्रियते ।
९. रक्तसहिते अर्शिस्-रोगे अस्य धान्याकस्य कषायं यच्छन्ति ।
१०. बहुकालतः पीड्यमाने पीनसे धान्याकम् उष्णजले योजयित्वा पातुं शक्यते ।
११. धान्याकस्य शीतकषायं खण्डशर्करया सह प्रातःकाले पिबन्ति चेत् अन्तर्दाहः निवारितः भवति ।
१२. धान्याकं शुण्ठी च योजयित्वा निर्मितं कषायम् अजीर्णम् उदरबाधां च निवारयति ।
१३. बालाः अधिकं कासन्ते चेत्, बालानाम् अस्तमायां च तण्डुलस्य प्राक्षालनजलं, धान्याकस्य चूर्णं, शर्करां च योजयित्वा दातुं शक्यते ।
१४. एतत् धान्याकं त्रिदोषहरम् ।
१५. धान्याकं हृदयस्य नेत्रस्य च हितकरम् ।
१६. एतत् धान्याकं मूत्रलम्, दीपनम्, अवृष्यं, ज्वरघ्नि, रोचकं, च अस्ति ।
१७. धान्याकं काश्यकं, ज्वलनं, शरीरस्य शुष्कत्वं च निवारयति ।
१८. एतत् धान्याकं कफं पित्तं च नाशयति ।
१९. अस्य धान्याकस्य उल्लेखः भावप्रकाशे, राजकोषे अपि कृतः अस्ति ।
२०. अभिष्यन्दरोगे अपि अस्य धान्याकस्य रसं कषायं च उपयुज्यते । (कोळिकण्णुरोगः इति उच्यते कन्नडभाषायाम्, आङ्ग्लभाषायां Red eyes इति उच्यते ।)
२१. अस्य धान्याकस्य अधिकसेवनेन शुक्रधातु क्षीयते ।
"https://sa.wikipedia.org/w/index.php?title=कुस्तुम्बरी&oldid=194396" इत्यस्माद् प्रतिप्राप्तम्