"पारासेल्सस्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.6.5) (Robot: Modifying eu:Parazeltso
(लघु) r2.7.1) (Robot: Adding br:Paracelsus
पङ्क्तिः १७: पङ्क्तिः १७:
[[be-x-old:Парацэльс]]
[[be-x-old:Парацэльс]]
[[bg:Парацелз]]
[[bg:Парацелз]]
[[br:Paracelsus]]
[[bs:Paracelsus]]
[[bs:Paracelsus]]
[[ca:Paracels]]
[[ca:Paracels]]

२०:४५, ४ जून् २०१२ इत्यस्य संस्करणं

पारासेल्ससस्य मूर्तिः

(कालः – १७. १२. १४९३ तः २४. ०९. १५४१)

अयं पारसेल्सस् (Paracelsus) कश्चन रसायनशास्त्रस्य विज्ञानी । अस्य वास्तविकं नाम “थियोक्रस्टस् बोम्बास्टस् फन् होहेन्हैम्” इति । रसविद्यायाम् अहं प्रख्यातस्य वैद्यस्य “सेल्सस्” इत्यस्य अपेक्षया अपि बुद्धिमान् इति प्रदर्शनार्थं स्वस्य नाम एव “पारसेल्सस्” इति पर्यवर्तयत् अयं थियोक्रस्टस् । अयं पारसेल्सस् १९४३ तमे वर्षे डिसेम्बर् मासस्य १७ दिनाङ्के स्वीडन् देशस्य ’ऐन्सिड्नेल्’ इति प्रदेशे जन्म प्राप्नोत् । अस्य पारसेल्ससस्य वैद्यविद्याभ्यासः तस्य पित्रा एव आरब्धः । अनन्तरं बहूनि नगराणि अटन् ज्ञानं सम्पादितवान् अयं पारसेल्सस् । तथैव दुरहङ्कारस्य कारणतः सर्वत्र शत्रून् अपि सम्पादितवान् । तथापि रसविद्यातः रसायनशास्त्रं प्रति समीचीनं मार्गं संशोधितवान् अयं पारसेल्सस् एव । अयं पारसेल्सस् रसविद्यायाः प्रमुखः उद्देशः स्वर्णस्य निर्माणं न । रोगाणाम् औषधस्य निर्माणम् इति उत्कृष्टं निर्णयम् अकरोत् । तदनीन्तने समाजे सस्यमूलेभ्यः केवलम् औषधानां निर्माणं शक्यते इति विश्वासः आसीत् । अयं पारसेल्सस् तं विश्वासम् एव परिवर्त्य खनिजमूलेभ्यः अपि औषधानां निर्माणं शक्यते इति प्रादर्शयत् ।


ग्रीक्-चिन्तकानां विश्वासपात्रेषु चतुर्षु वस्तुषु (वायुः, जलं, मृत्तिका, अग्निः च) अयं पारसेल्सस् अपि विश्वसिति स्म । तथैव अरब्बानां विश्वासपात्रेषु त्रिषु वस्तुषु (पादरसः, गन्धकं, लवणं च) अपि तस्य तावानेव विश्वासः आसीत् । अयं पारसेल्सस् कश्चन अनुक्तग्राही आसीत् । १५२७ तमे वर्षे यदा सः बेसेल्-नगरे प्रमुखः वैद्यः आसीत् तदा सार्वजनिकरूपेण गेलेन्, अविसेन् इत्यादीनां पुरातनानां विज्ञानिनां कृतीः अग्निसात् अकरोत् । अयं पारसेल्सस् यदा ल्याटिन्-भाषायाः स्थाने जर्मन्-भाषया एव वदामि इति अघोषयत् तदा जनाः तं बेसेल्-नगरात् एव बहिष्कृतवन्तः । ’मानसिकरोगिणः भूतैः पिशाचैः वा पीडिताः न, शारीरिकरोगाः इव ते अपि रोगाः एव । मस्तिष्के जायमानस्य व्रणस्य (अपघातस्य) पार्श्ववायुरोगस्य च सम्बन्धः अस्ति ।’ इति स्पष्टतया निरूपितवान् आसीत् अयं पारसेल्सस् । यद्यपि तस्य पूर्वजाः मिश्रलोहाणां, कांस्यस्य च उपयोगं जानन्ति स्म तथापि जिङ्कलोहस्य संशोधनं कृतवान् अयं पारसेल्सस् एव । १५४१ तम् वर्षे सप्टेम्बरमासस्य २४ तमे दिनाङ्के सः मरणम् अवाप्नोत् ।

"https://sa.wikipedia.org/w/index.php?title=पारासेल्सस्&oldid=196273" इत्यस्माद् प्रतिप्राप्तम्