"यज्ज्ञात्वा न पुनर्मोहम्..." इत्यस्य संस्करणे भेदः
→बाह्यसम्पर्कतन्तुः: clean up using AWB |
No edit summary |
||
पङ्क्तिः २६: | पङ्क्तिः २६: | ||
==तात्पर्यम्== |
==तात्पर्यम्== |
||
अर्जुन ! येन ज्ञानेन भवान् पुनः एतादृशं मोहजालं न आप्नोति, येन आत्मज्ञानेन समवायबुद्ध्या स्वस्मिन् मयि च सर्वान् जीवान् द्रष्टुं शक्नोति तादृशं ज्ञानं तत्त्वदर्शिनः ते उपदेक्ष्यन्ति । |
अर्जुन ! येन ज्ञानेन भवान् पुनः एतादृशं मोहजालं न आप्नोति, येन आत्मज्ञानेन समवायबुद्ध्या स्वस्मिन् मयि च सर्वान् जीवान् द्रष्टुं शक्नोति तादृशं ज्ञानं तत्त्वदर्शिनः ते उपदेक्ष्यन्ति । |
||
==शाङ्करभाष्यम्== |
|||
तथाच सतीदमपि समर्थं वचनं-यदिति। यज्ज्ञात्वा यज्ज्ञानं तैरुपदिष्टमधिगम्य प्राप्य पुनप्भूयो मोदमेवं यथेदानीं मोहं गतोऽसि पुनरेवं न यास्यसि हे पाण्डव। किंचयेन ज्ञानेन भूतान्यशेषेण ब्रह्मादीनि स्तम्बपर्यन्तानि द्रक्ष्यसिसाक्षादात्मनि प्रत्यगात्मनि मत्संस्थानीमानि भूतानीति, अथो अपि मयि वासुदेवे परमेश्वरे चेमानीति क्षेत्रज्ञेश्वरैकत्वं सर्वोपनिषत्प्रसिद्धं द्रक्ष्यसीत्यर्थः ।।35।। |
|||
==बाह्यसम्पर्कतन्तुः== |
==बाह्यसम्पर्कतन्तुः== |
||
०७:१२, २६ जून् २०१२ इत्यस्य संस्करणं
- यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।
- येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ ३५ ॥
पदच्छेदः
यत् ज्ञात्वा न पुनः मोहम् एवं ज्ञास्यसि पाण्डव येन भूतानि यशेषेण द्रक्ष्यसि आत्मनि अथो मयि ॥ ३५ ॥
अन्वयः
पाण्डव ! यत् ज्ञात्वा पुनः मोहम् एवं न यास्यसि । येन आत्मनि भूतानि अशेषेण द्रक्ष्यसि । अथो मयि । (तत् ज्ञानं तत्त्वदर्शिनः ते उपदेक्ष्यन्ति ।)
पदार्थः
- पाण्डव = पाण्डुपुत्र !
- यत् ज्ञात्वा = यत् विज्ञाय
- पुनः = भूयः
- मोहम् = व्यामोहम्
- एवम् = इत्थम्
- न यास्यसि = न गमिष्यसि
- येन = येन ज्ञानेन
- आत्मनि = स्वस्मिन्
- भूतानि = प्राणिनः
- अशेषेण = समग्रम्
- द्रक्ष्यसि = पश्यसि
- अथो = अनन्तरम्
- मयि = भगवति ।
तात्पर्यम्
अर्जुन ! येन ज्ञानेन भवान् पुनः एतादृशं मोहजालं न आप्नोति, येन आत्मज्ञानेन समवायबुद्ध्या स्वस्मिन् मयि च सर्वान् जीवान् द्रष्टुं शक्नोति तादृशं ज्ञानं तत्त्वदर्शिनः ते उपदेक्ष्यन्ति ।
शाङ्करभाष्यम्
तथाच सतीदमपि समर्थं वचनं-यदिति। यज्ज्ञात्वा यज्ज्ञानं तैरुपदिष्टमधिगम्य प्राप्य पुनप्भूयो मोदमेवं यथेदानीं मोहं गतोऽसि पुनरेवं न यास्यसि हे पाण्डव। किंचयेन ज्ञानेन भूतान्यशेषेण ब्रह्मादीनि स्तम्बपर्यन्तानि द्रक्ष्यसिसाक्षादात्मनि प्रत्यगात्मनि मत्संस्थानीमानि भूतानीति, अथो अपि मयि वासुदेवे परमेश्वरे चेमानीति क्षेत्रज्ञेश्वरैकत्वं सर्वोपनिषत्प्रसिद्धं द्रक्ष्यसीत्यर्थः ।।35।।