"केरोलस् लीनियस्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.2) (Robot: Adding uz:Carl Linnaeus
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{Infobox scientist
[[चित्रम्:Carl von Linné.jpg|thumb|right|200px]]
| name = Carl Linnaeus (Carl von Linné)
| image = Carl von Linné.jpg
| image_size = 240px
| alt = Portrait of Linnaeus on a brown background with the word "Linne" in the top right corner
| caption = ''Carl von Linné'', [[Alexander Roslin]], 1775.
Oil painting in the portrait collection at
[[Gripsholm Castle]]
| birth_date = {{Birth date|df=yes|1707|5|23}}<ref group=note name=birthdate>Carl Linnaeus was born in 1707 on 13 May ([[Swedish calendar|Swedish Style]]) or 23 May according to the modern calendar. According to the [[Julian calendar]] he was born 12 May. (Blunt 2004, p. 12)</ref>
| birth_place = [[Råshult]], Stenbrohult parish (now within [[Älmhult Municipality]]), Sweden
| death_date = {{Death date and age|df=yes|1778|1|10|1707|5|23}}
| death_place = Hammarby ([[estate (land)|estate]]), Danmark parish (outside Uppsala), Sweden
| residence = [[Sweden]]
| citizenship =
| nationality = [[Swedish people|Swedish]]
| ethnicity =
| religion = [[Lutheranism|Lutheran]]
| fields = [[Botany]]
[[Biology]]
[[Zoology]]
| workplaces =
| alma_mater = [[Lund University]]
[[Uppsala University]]
[[University of Harderwijk]]
| doctoral_advisor =
| academic_advisors =
| doctoral_students =
| notable_students =
| known_for = [[Linnaean taxonomy|Taxonomy]]
Ecology
[[Botany]]
| author_abbrev_bot = L.
| author_abbrev_zoo =
| influences =
| influenced =
| awards =
| signature = Linne autograph.png.svg
| signature_alt = Carl v. Linné
| footnotes =
[[File:Linne CoA.jpg|center|240px]]The [[coat of arms]] of Carl von Linné.

[[चित्रम्:CarlvonLinne house.jpg|thumb|left|200px|केरोलस् लीनियसस्य गृहम्]]
[[चित्रम्:CarlvonLinne house.jpg|thumb|left|200px|केरोलस् लीनियसस्य गृहम्]]
[[चित्रम्:CarlvonLinne Garden.jpg|thumb|200px|left|केरोलस् लीनियस्-उद्यानम्]]
[[चित्रम्:CarlvonLinne Garden.jpg|thumb|200px|left|केरोलस् लीनियस्-उद्यानम्]]

०६:४३, ६ जुलै २०१२ इत्यस्य संस्करणं

Carl Linnaeus (Carl von Linné)
Portrait of Linnaeus on a brown background with the word "Linne" in the top right corner
Carl von Linné, Alexander Roslin, 1775.
Oil painting in the portrait collection at
Gripsholm Castle
जननम् (१७०७-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ५-२३)२३ १७०७[note १]
Råshult, Stenbrohult parish (now within Älmhult Municipality), Sweden
मरणम् १० १७७८(१७७८-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-१०) (आयुः ७०)
Hammarby (estate), Danmark parish (outside Uppsala), Sweden
वासस्थानम् Sweden
देशीयता Swedish
कार्यक्षेत्राणि Botany
Biology
Zoology
मातृसंस्थाः Lund University
Uppsala University
University of Harderwijk
विषयेषु प्रसिद्धः Taxonomy
Ecology
Botany
लेखकनामोल्लेखः(सस्यशास्त्रम्) L.
धर्मः Lutheran
हस्ताक्षरम्
Carl v. Linné
विशेषम्

The coat of arms of Carl von Linné.

केरोलस् लीनियसस्य गृहम्
केरोलस् लीनियस्-उद्यानम्
साम्प्रदायिकं वस्त्रं धृतवान् केरोलस् लीनियस्
विवाहवस्त्रे केरोलस् लीनियसस्

(कालः – २३. ०५. १७०७ तः १०. ०१. १७७८)

अयं केरोलस् लीनियस् (Carolus Linnaeus) कश्चन विशिष्टः सस्यविज्ञानी । सः वैद्यकीयम् अधीत्य जीवविज्ञाने संशोधनानि अकरोत् । जीवविज्ञानं सम्यक् वर्गीकृत्य निरूपितवान् अपि । अयं केरोलस् लीनियस् १७०७ वर्षे मेमासस्य २३ तमे दिनाङ्के स्वीडन् देशस्य स्मल्याण्ड् इति प्रदेशे जन्म प्राप्नोत् । अस्य केरोलस् लीनियसस्य पिता क्रिश्चियन् धर्मगुरुः (पाद्री) आसीत् । पाश्चात्येषु देशेषु अयं केरोलस् लीनियस् 'कार्लफान् लिने' इत्यपि प्रसिद्धः अस्ति । अयं केरोलस् लीनियस् बाल्ये तावान् बुद्धिमान् न आसीत् । तस्मात् एव कारणात् पिता एतं वैद्यकीयशिक्षणार्थं प्रेषितवान् । किन्तु एषः केरोलस् लीनियस् वैद्यकीयं न इच्छति स्म । तथापि परीक्षाः उत्तीर्णवान् । उप्साल–विश्वविद्यालयतः बहिः आगमनसमये सः सस्यशास्त्रे आसक्तः अभवत् । तदर्थं पुष्पाणां केसरान्, शलाकाः च विशेषतया अधीतवान् सः । ३३ तमे वयसि सस्यानां वर्गीकरणम् आरब्धवान् । यत्र अध्ययनं कृतवान् तत्रैव सस्यविज्ञानस्य विभागे उधोगम् अपि आरब्धवान् ।

अयं केरोलस् लीनियस् १७३२ तमे वर्षे रुड्बेकस्य सूचनायाः अनुसारं ४६०० मैल् यावत् दूरे स्थितं ल्याप्ल्याण्ड् इति प्रदेशं प्रति प्रवासार्थं गतवान् । तत्र विभिन्नान् सस्यप्रभेदान् प्राणिप्रभेदान् च अपश्यत् । तदवसरे लैङ्गिककोशान् 'पुं' तथा 'स्त्री' इति असूचयत् । तदनन्तरम् इङ्ग्लेण्ड् तथा पश्चिमयूरोप्-देशेषु प्रवासं कृत्वा १७३५ तमे वर्षे विज्ञानपदवीं प्राप्तवान् । अनन्तरं पुनः सस्यविज्ञानं विस्तृतरूपेण अधीतवान् । आधुनिकस्य वर्गीकरणस्य क्रमं विवृत्य सिस्टं नेचरे इत्याख्यं पुस्तकम् अपि लिखित्वा प्रकाशितवान् । तस्मात् कारणात् एव अयं केरोलस् लीनियस् आधुनिकस्य वर्गीकरणस्य जनकः इति प्रसिद्धः अभवत् । सः तस्मिन् पुस्तके सस्यानां भेदस्य विवरणावसरे स्पष्टां संक्षिप्तां च शैलीम् अनुसृतवान् । तत्र सस्यस्य कुलनाम, जातिः, द्विनाम नामकरणं च कृतवान् । तेन लिखितम् अपरं जेनर प्ल्याण्टारं नामकं पुस्तकम् अद्यापि जीवविज्ञानिनां मार्गदर्शकं पुस्तकम् अस्ति । तेन सृष्टानि नामानि अपि अद्यत्वे अपि सस्यविज्ञाने तथैव सन्ति ।

एषः केरोलस् लीनियस् सस्यानां कुलानि परिवारे, परिवारान् गणे, गणान् वर्गे, वर्गान् वंशे च योजयित्वा वर्गीकरणस्य आधारं रचितवान् । जीविनां वर्गीकरणावसरे मनुष्याणाम् अपि वर्गं कल्पयित्वा तस्य नाम “बुद्धिमान् मनुष्यः”(होमो सेपियन्स्) इति कृतवान् । “ओराङ्ग् उटान्” नामकं कपिम् अपि अस्मिन् वंशे योजयित्वा तस्य नाम “गुहासु वसन् मनुष्यः” (होमो होग्लोडैट्स्) इति अकरोत् । तिमिङ्गलं तत्सम्बद्धान् च सस्तनिवर्गे योजयित्वा २००० वर्षेभ्यः पूर्वम् अरिस्टाटलेन प्रकटितस्य अभिप्रायस्य सहमतम् असूचयत् । एतत् वर्गीकरणं वैविध्यतायाः अवगमने महत् पात्रं वहति । सः केरोलस् लीनियस् “मया कृते वर्गीकरणे केचन दोषाः सन्ति । अग्रे यःकोऽपि तान् दोषान् समीकर्तुम् अर्हति” इत्यपि असूचयत् । अनन्तरम् आगताः जार्ज क्युव्ये, जेस्यु, केण्डल् इत्यादयः विज्ञानिनः मूलं तत्त्वं तथैव रक्षन्तः अस्य विवरणानि काले काले परिवर्तितवन्तः ।

अयं केरोलस् लीनियस् प्रवासानां, पुस्तकानां प्रकाशनस्य च अनन्तरं पुनः स्वीड्न् देशं प्रत्यागत्य वैद्यवृत्तिम् आरब्धवान् । तत्रैव “प्रकृति–इतिहासस्य” (Natural History) प्राध्यापकरूपेण अपि नियुक्तः अभवत् । शिष्यान् नूतनानां जीविनाम् अन्वेषणार्थं प्रपञ्चस्य बहून् प्रदेशान् प्रेषितवान् अयं केरोलस् लीनियस् । सः १७७८ तमे वर्षे जनवरिमासस्य १० दिनाङ्के इहलोकम् अत्यजत् । तदनन्तरं तस्य कृतीः, सङ्ग्रहणं च इङ्ग्लेण्ड्-देशं प्रति नीतवन्तः । तत्र “लीनियस् सोसैटि” इत्याख्यं सङ्ग्रहालयम् अध्ययनकेन्द्रं च संस्थापितवन्तः । स्वीडन्-देशे विद्यमानं तस्य गृहम् अद्यापि स्मारकत्वेन रक्ष्यमाणम् अस्ति ।
उद्धरणे दोषः : <ref> "note" नामकस्य गणस्य अङ्कनं विद्यते, कीन्तु किमपि अनुरूपं <references group="note"/> अङ्कनं न प्राप्तम्

"https://sa.wikipedia.org/w/index.php?title=केरोलस्_लीनियस्&oldid=199693" इत्यस्माद् प्रतिप्राप्तम्