"उत्तराखण्डराज्यम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
उत्तराखण्डराज्यं [[भारतम्|भारतीय]] राज्येषु अन्यतमं राज्यम्। एतस्य राज्यस्य २००० तमे संवत्सरे नवम्बरमासस्य ९मे दिनाङ्के रचना जाता। [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशराज्यस्य]] [[हिमालयः|हिमालयपर्वत]] प्रान्तात् उत्तराखण्डराज्यस्य विभागः कृतः। राज्यस्य उत्तरे [[टिबेट्]], पूर्वे [[नेपालदेशः|नेपाल]], दक्षिणपश्चिमयोः [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशश्च]] भवन्ति। अस्य राज्यस्य नाम २००७ तमे संवत्सरे जनेवरिमासे उत्तराञ्चलात् उत्तराखण्डः इति परिवर्तनं कृतम्। राज्यस्य उच्छन्यायालयः [[नैनिताल्]] नगरे अस्ति।
उत्तराखण्डराज्यं [[भारतम्|भारतीय]] राज्येषु अन्यतमं राज्यम्। एतस्य राज्यस्य २००० तमे संवत्सरे नवम्बरमासस्य ९मे दिनाङ्के रचना जाता। [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशराज्यस्य]] [[हिमालयः|हिमालयपर्वत]] प्रान्तात् उत्तराखण्डराज्यस्य विभागः कृतः। राज्यस्य उत्तरे [[टिबेट्]], पूर्वे [[नेपालदेशः|नेपाल]], दक्षिणपश्चिमयोः [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशश्च]] भवन्ति। अस्य राज्यस्य नाम २००७ तमे संवत्सरे जनेवरिमासे उत्तराञ्चलात् उत्तराखण्डः इति परिवर्तनं कृतम्। राज्यस्य उच्छन्यायालयः [[नैनिताल्]] नगरे अस्ति।
{{लघुचतुर्धाम}}
==विभागः==
==विभागः==
[[चित्रम्:UttarakhandDistricts.png|thumb|'''जनपदाः''']]
[[चित्रम्:UttarakhandDistricts.png|thumb|'''जनपदाः''']]

१२:०६, १३ अक्टोबर् २०१२ इत्यस्य संस्करणं

उत्तराखण्डराज्यं भारतीय राज्येषु अन्यतमं राज्यम्। एतस्य राज्यस्य २००० तमे संवत्सरे नवम्बरमासस्य ९मे दिनाङ्के रचना जाता। उत्तरप्रदेशराज्यस्य हिमालयपर्वत प्रान्तात् उत्तराखण्डराज्यस्य विभागः कृतः। राज्यस्य उत्तरे टिबेट्, पूर्वे नेपाल, दक्षिणपश्चिमयोः उत्तरप्रदेशश्च भवन्ति। अस्य राज्यस्य नाम २००७ तमे संवत्सरे जनेवरिमासे उत्तराञ्चलात् उत्तराखण्डः इति परिवर्तनं कृतम्। राज्यस्य उच्छन्यायालयः नैनिताल् नगरे अस्ति।

चतुर्धाम
केदारनाथः बदरीनाथः
गङ्गोत्री यमुनोत्री

विभागः

जनपदाः

अस्मिन् राज्ये विभागद्वयं भवतः गढ्वाल् तथा कुमाव् इति। अस्मिन् राज्ये १३ जनपदाः सन्ति। गढ्वाल् विभागे चमोलि, डेहराडून्, हरिद्वारम्, पौडि, रुद्रप्रयाग, टिह्रि गढ्वाल् तथा उत्तरकाशि जनपदाः सन्ति। कुमाव् विभागे अल्मोरा, बागेश्वर्, नैनिताल्, पिथोरागढ्, चम्पावत् तथा उधम् सिंघ् जनपदाः सन्ति। राज्यस्य शासनभाषा हिन्दी भवति। “चिप्को” उद्यमस्यारम्भः उत्तराखण्डराज्ये प्रप्रथमतया जातः। उत्तराखण्डस्य विस्तीर्णं ५१,१२५ च.कि.मी अस्ति। प्रायः जनसंख्या ८५ लक्षजनाः सन्ति। डेहराडून्, हरिद्वारम् तथा नैनिताल् इत्यादयः अस्य राज्यस्य नगराणि भवन्ति। राज्यस्य ९२.५७% भागः पर्वतप्रदेशः अस्ति। ६३% भागः अरण्यप्रदेशः अस्ति। उत्तराखण्डस्य मुख्याः पर्वतशिखराः नन्दादेवी (७८१६ मी.), बदरीनाथः(७१४० मी.), चौखम्बा(७१३८ मी.) तथा त्रिशूल्(७१२० मी.) भवन्ति।

इतिहासः

प्राचीनहिन्दूग्रन्थेषु खेदारमानसाखण्डयोः मिलित्वा उत्तराखण्डः इति उल्लेखः दृश्यते। उन्नतपर्वताः, दर्दराः, नद्यः तथा पवित्रक्षेत्राणि अस्मिन् राज्ये सन्ति इत्यतः “देवभूमिः” इति व्यवहारः अस्ति। ’कोल्’ इति जनाः अस्य राज्यस्य पूर्विकाः भवन्ति। वेदकाले आर्यसन्ततेः “रावत्” इति जनाः अवसन्। तस्मिन् काले ॠषीणां साधूनाञ्च इष्टतमं स्थानम् आसीत्। व्यासमहर्षिः अस्मिन्नेव स्थले महाभारतं काव्यं रचितवान् इति प्रतीतिः अस्ति। अस्मिन् स्थलादारभ्यैव स्वर्गारोहणयात्रा आरब्धा इति जनानां विश्वासः। एतत् स्थलम् अशोकस्य काले बौद्धधर्मप्रभावितम् आसीत्। आदिशङ्कराचार्याणां प्रभावेन पुनः वैदिकसम्प्रदायावृतं जातं स्थलम्। गच्छताकालेन अस्मिन् स्थलाय प्रव्रज्य जनाः आगताः। मध्यकाले गढ्वाल् तथा कुमाव् संस्थाने उत्तराखण्डे आस्ताम्। कुमाव् संस्थाने ’चन्द् वंशस्य’ शासकाः शासनं कुर्वन्तिस्म। गढ्वाल् संस्थाने ’पर्मार् वंशस्य’ शासकाः शासनं कुर्वन्तिस्म। नेपालदेशस्य ’गूर्खा’ शासकाः १७९१ तमे संवत्सरे कुमाव् राज्यं तथा १८०३ तमे संवत्सरे गढ्वाल् राज्यम् आक्रान्ताः। १८१६ तमे संवत्सरे आङ्ग्लजनैः सह युद्धमभूत्। अस्मिन् युद्धे एते शासकाः पराजिताः। अनन्तरं पूर्वगढ्वाल् तथा कुमाव् प्रदेशौ आङ्ग्लशासने आस्ताम्। भारतस्य स्वातन्त्र्यानन्तरं टिह्रि संस्थानम् उत्तरप्रदेशराज्ये मेलितवन्तः।

राज्यजनसमुदायः

उत्तराखण्डस्य जनसमुदयस्य स्वमूलस्थानानुगुण्येन ’गढ्वालि’ उत ’कुमावि’ इति व्यवहारः अस्ति। सम्पूर्णस्य समुदायस्य “पहाडि” इति व्यवहारः अस्ति। पञ्जाबदेशात् आगताः प्रव्रज्याः जनाः हिमालयस्य ’तेराय्ट्रदेशे’ वसन्ति। एतान् विहाय ’नेपालीजनाः’, ’टिबेट्जनाः’, ’गुज्जर्जनाश्च’ अत्रैव वसन्ति। रज्येषु विद्यमानेषु जनेषु ’रजपूताः’ अधिकाः भवन्ति।

प्राकृतिकवर्णनम्

नन्दादेवी शिखरप्रदेशः

उत्तराखण्डः अतीवप्रकृतिरमणीयः प्रदेशः भवति। प्रायः राज्यस्य उत्तरभागस्य प्रदेशः हिमालयस्य अङ्गप्रदेशः भवति। अस्मिन् भागे उन्नतशिखराणि, हिमनद्यश्च विलसन्ति। हिमालयस्य सानुप्रदेशः पूर्वम् आकुलारण्यप्रदेशः आसीत् इति। अरण्यविभागस्य यत्नेन अरण्यस्य वृद्धिः जायमानम् अस्ति। हिमालयस्य परिसरे विविधवन्यजन्तवः आश्रिताः। वन्यजन्तुषु व्याघ्राः, चित्रकाः, हिमचित्रकाः इत्यादयः अत्र आश्रिताः। अमूल्यानि ’सस्यानि’ तथा ’वनस्पतयश्च’ विलसन्त्यत्र। भारतीय पवित्रतमौ महानद्यौ गङ्गा यमुनाच उत्तराखण्डस्य हिमपर्वतमूले उद्भूते। हिमालयपर्वतश्रेणेः दक्षिणे भागे उत्तराखण्डः अस्ति। उन्नतप्रदेशाः हिमेण तथा शिलयाच आवृताः सन्ति। ’तेराय्’ तथा गङ्गातीरविस्तृतप्रदेशेषु ’सवान्ना’ शाद्वलः अस्ति। नैनिताल् जनपदस्य रामनगरे “जिम् कार्बेट् राष्ट्रिय उद्यानम्” अस्ति। चमोलि जनपदे “पुष्पकन्दरराष्ट्रिय उद्यानम्” नन्दादेवी राष्ट्रिय उद्यानञ्च स्तः। उत्तरकाशि जनपदे “गोविन्द् पशु राष्ट्रिय उद्यानम्” “गङ्गोत्रि राष्ट्रिय उद्यानञ्च” स्तः। हरिद्वारम् जनपदे “राजाजि राष्ट्रिय उद्यानम्” अस्ति।

प्रवासोद्यमविभागः

उत्तराखण्डस्य धनादायस्य प्रमुखविभागः प्रवासोद्यमविभागः भवति। सर्वदा अत्र तीर्थयात्रिकाः, पर्वतारोहिसाधकाः, पर्यटकाश्च भवन्ति। नैनिताल्, मस्सूरि, अल्मोरा तथा राणिखेत् इत्यादीनि गिरिधामानि प्रसिद्धानिच भवन्ति। हेमकुण्डस्य "श्वेतपुष्पकन्दरः" तथा नन्दादेवी राष्ट्रियोद्यानञ्च स्तः। विश्वपरम्परास्थानेषु नन्दादेवी राष्ट्रियोद्यानमपि एकम्। अधिकान् पर्यटकान् आकर्षितं स्थानम् इदम्।

धार्मिकक्षेत्राणि

हैन्दवानां पवित्रतम पुण्यक्षेत्रेषु कानिचन क्षेत्राणि उत्तराखण्डराज्ये राराजन्ते। तानि गङ्गोत्री, यमुनोत्री, केदारनाथः, बदरीनाथः(चार् धाम्) इति सुप्रसिद्धानि पवित्रतमक्षेत्राणिच भवन्ति। तथैव हरिद्वारम्, हृषीकेशौ पवित्रक्षेत्रे भवतः। सिक् धर्मस्य “हेमकुण्ड साहेब्” पुण्यं स्थानं भवति। टिबेट् बौद्धधर्मस्य बुद्धस्थूपसहितं मिण्ड्रोलिङ्ग पवित्रं स्थानम् अत्रैव अस्ति।

कुसुमकन्दरः

उत्तराञ्चलराज्यं पूर्वम् उत्तरप्रदेशस्य भागः आसीत् । इदानीं स्वतन्त्रं राज्यम् अस्ति । अत्यन्तं सुन्दरं देवमयराज्यमेतत् । फ्राङ्क् स्मित् इति साहसी एतं प्रदेशम् अन्विष्टवान् । अत्र बहुविधाः पुष्पवृक्षाः सन्ति । एतत् प्रपातं १० कि.मी. दीर्घं २ कि.मी. विस्तृतं च अस्ति । विश्वे एव एतत्सदृशः निम्नकन्दरः अन्यत्र नास्ति । सागरतीरतः ३३५२ पादोन्नते प्रदेशे एतदस्ति । भारतीयाः विदेशीयाः च बहवः अत्रागच्छुन्ति । जूनमासतः सप्तम्बरमासपर्यन्तम् अत्रागन्तुम योग्यः समयः अस्ति । शीतकाले अतीव शैत्यं भवति । भूमार्गः गोविन्दघाटताः गङ्गरिया २४.कि.मी. दूरे अस्ति ।

नैनितालः

कुमाहिल् प्रदेशे स्थितं सुन्दरं गिरिधाम एतत् उत्तराञ्चलराजस्य कञ्चन नगरम् । नैनिताल् इत्यस्य देवतायाः नेत्रम् इत्यर्थः । नैनादेवीतः नैनिताल् इति नाम आगतम अस्ति । अत्र ६० सरांसि सन्ति । अतः सरसः मण्डलम् इति च एतमनगरम् कथयन्ति । नैनिताल् नगरे स्थिताः सरोवराः भी ताल् , नौकुट्चिय् इत्यादि । अत्र नौकाविहारः मीनग्रहण इ- त्यादि अतीवाकर्षिकाणि सन्ति । नैनिताल् प्रदेशे मेघाच्छादितशिखराणि सरोवराः श्रुणावृतप्रदेशाः अरण्यानि सम- तलानि अतीवसुन्दराणि सन्ति । अतः एतं प्रदेशं A Jewel among the Tourist Places इति यात्रिकाः सगौरवं कथयन्ति । बहुकालापर्यन्तम् एतत् गिरिधाम आहृष्टमेवासिता शिवालिक पर्वतश्रेणि , पर्वतः , प्रपातानि , सर्वाणि अपि ६००० पाडोभत प्रदेशे स्थितानि अपूर्वाणि इति अनन्तर ज्ञातम भवत् । ब्यारन् इति अधिकारी मार्गभ्रष्टः अत्रगत्य अपूर्वत प्रदेश हृष्टवा सन्तुष्टः अभवत् । अनन्तर यूरोप्यन् जनाः अगत्रतवन्तः । सा.श.१८४१तमे काले लघुग्रामः आसीत् । इदानी विश्वे प्रसिद्धं नगरम् अस्ति । नगरस्य प्रमुखम् आकर्षणं पन्तमार्गः अस्ति । नगरदर्शनार्थ २६३१ पाडोभते प्रदेशे स्थितं वीक्षणस्थानं नैनिपीक् इति नगरे किञ्चिन क्याटर्पिल्लर् इति धूमशकटयानं नगरदर्शनार्थम् अस्ति । अनेन सञ्चारः बालानाम् अतीव हर्षदायकः अस्ति । नैनितालनगरे किञ्चन पक्षिधाम अपि अस्ति । शतशः विविधाः परिणः अत्र दर्शनीयाः सन्ति । नैनितालतः पश्चिमे रामनगरम् इति स्थले राष्ट्रीयोद्यानं कार्बेट्न्याशनल् पार्क् अस्ति । अत्र भल्लूकाः व्याघ्राः गजाः इत्यादयः प्राणिनः सन्ति । समीपे शणीखेत् अलमोरा इत्यादीनि गिरिधामनि सन्ति । धूमश्कटमार्ग: - ३६ कि. मी. दूरे कतगोण्ड धूमशकटस्थानम् अस्ति । भूमार्गः अपि उत्तमः अस्ति । पन्तनगर इति समीपस्थं विमाननिस्थानं भवति । अत्र कुमान् विकास् मण्डलनिगमः अत्र प्रवासव्यवस्थानं करोति । वासभोजनव्यवस्थार्हं अतिथिगृहणि अनेकानि सन्ति । देहलीतः २२२ कि. मी. दूरे अलयेरातः ६६ कि.मी. च दूरे अस्ति ।

कार्बेट् न्याशनल् पार्क्

उत्तराञ्चलराजस्य नैनिताल् पौरी मण्डलयोः भागः एषः अभयारण्यमेव ५२३ चतुरस्र कि.मी. अस्ति । कुमान् पर्वतप्रदेशे शामगङ्गा नदी प्रवहति । एतत् रक्षितारण्यं सा.श.२१३५ तमे वर्षे घोषितमस्ति । प्रख्यातः मृगयविदारि मृगयाप्रियः लेखकः जि कार्बेट् अनेकजनान् व्याघ्रेभ्यः रक्षितवान् । नरभक्षकव्याघ्राणां जीवनविषये अध्ययनं कृत्वा पुस्तकं Man eaters of kumaon लिखितवान् । अतः एवा अरण्यस्य तस्य नाम एवम् आगतम् अस्ति । अस्य राष्ट्रीयोद्यानस्य Tiger Country इत्यपि नाम अस्ति । अत्र किञ्चन पक्षिधाम अपि । मृगाः वनप्राणिनः व्याघ्राः गजाः भल्लूकाः अत्र सन्ति । पक्षिणः विविधाः अत्र सन्ति अतः खगवीक्षकस्वर्गः (Bird Watcher’s Paradise) इति कथयन्ति । धूमशकटमार्गः - समीपे रामनगरम् इति स्थाने धूमशकटनिस्थनम् अस्ति । भूमार्गः – देहलीतः २१० कि.मी. साधुभूमार्गः अस्ति ।

डेह्राडून्

प्रवासीजनाः एतं प्रदेशं दृष्टुम् इतः मस्सूरिप्रदेशं गन्तुं च अत्रागच्छन्ति । अत्यन्तम् उत्तमं खगवीक्षणस्थानम् अस्ति । अस्य कारणम् तु तत्र विद्यमानम् अरण्यसंशोधनकेन्द्रं विश्वे एव प्रथमम् अस्ति । अत्र एव भारतीयसर्वेक्षणविभागस्य केन्द्रम् (सर्वे आफ् इण्डिया) अस्ति । इतः ८ कि.मी. दूरे चोरगुहा (राबर्सकेव्) इति स्थलम् अपूर्वमस्ति । सर्वतः भव्यानि अरण्यानि पर्वतप्रदेशाः नदीतीरप्रदेशाः च अस्माकं मनः आकर्षन्ति । जलमत्र किश्चिदूरं गुप्तगामीनी गत्वा पश्चात् दूरे निर्झरिणीरूफेण बहिरणच्छुति । समीपे १४ कि.मी. दूरे उष्णजलनिर्झरिण्यः सहस्रधारः इति स्थले सन्ति । मालस्ति मृगवनम् आकर्षकम् अस्ति । मार्गः हरिद्वारतः ५६ कि.मी. । धूमशकटमार्गः उन्न्एक्सप्रेस् , मस्सूरि एक्सप्रेस् तः डेह्राडून् पर्यन्तं गन्तुं शक्यते । वासार्थं सुव्यवस्था अस्ति ।

मुस्सोटिपर्वतधाम

अत्र अतीव सुन्दरपर्वतशिखराणि सन्ति । एतत् विनोदविहारस्य स्थानम् । हिमालयशिखराणि अत्र गोचरी भवन्ति । इतः ११ कि.मी.दूरे केम्प्रीफालस् भरफालस् स्तः । अत्युन्नतं स्थानं डिपोर्डिल् इत्यस्ति । लालतिलः इत्यपि एतम् स्थानं कथयन्ति । सागरस्तरतः २००० मीटर् उन्नतप्रदेशोऽयं क्यामलस् बाक्स् , अथवा गन् हिल् अतीवोन्नतम् अन्यत् स्थानं नास्ति । अत्र शिखरपर्यन्तं गन्तुं विद्युच्चालिततन्त्रीस्यन्दनव्यवस्था अस्ति । लाक् मण्ड्ल् ३५ कि.मी. स्थले शिवदेवालयः अस्ति । अत्रैव कौरवाः पाण्डवान् लाशागेहे दग्धुं प्रयत्नं कृतवन्तः इति महाभारते उल्लिखितम् । सहस्रधारस्थले ९ मीटर् उन्नतः कश्चन जलपातः अस्ति । अत्रत्यं जलं गन्धकमिश्रितम् अतः स्नानेन आरोग्यवर्धनं भावति इति विश्वासः । मार्ग डेह्राडूनः २२ कि.मी. दिल्लि सहरानपूर- डेह्राडून् मार्गः । वासार्थमत्र उत्तम वसति गृहणि सन्ति ।

घर्वाल्हिमालयः

उत्तराञ्चलराज्यमेव पर्वपङ्क्तौ अस्ति । अत्र पर्वतशृङ्खलाः सर्वदा तुषारावृताः भवन्ति । कन्दरेषु सर्वदा शीतलं हिमजलं प्रवहति । सानुप्रदेशाः शाद्वलैः हरिद्वर्णिताः नयनमनोहराः भवन्ति । घर्वाल् प्रदेशस्य विस्तारः ५००० वर्गकि.मी. अस्ति । अत्रैव चमेली पौरिघर्वाल् तेह्रिगर्वाल् डेह्राडून् मण्डलानि सन्ति । घर्वाल् प्रवासिजनानां स्वर्गः इति कथयन्ति । अत्र यात्रा साहसिभिः एव कर्तुं शक्यते इति वदन्ति । पर्वतारोहिणाम् उत्साहः भवति । जलक्रीडासु जनाः मग्नाः भवन्ति । रिवर् रापिटङ्ग् , मौण्टन् बैकिङ्ग् इत्यादि जनानां पियानि भवन्ति । पर्वतशिखरेषु त्रिशूल् कामेट् धुनगिरि इत्यादि अतीव प्रसिद्धानि सन्ति । नन्दादेवी अत्युन्नतः पर्वतः अस्ति । अत्र कठिनशिलारोहणं साहसिकानां प्रियं भवति । तुषारावृतप्रदेशे धावनमपि. कूर्दनं, स्खलनं च मोददायिनी क्रीडा भवति । मुस्सोरि अतिशीतलं स्थानं तत्र अस्ति । हिमालये यमुनानद्याः जन्मस्थानं यमुनोत्री हरिद्वारतः २६ कि.मी. दूरेऽस्ति । निबिदारण्ये एषः सरो- वरः अस्ति । अत्र विविधाः मीनाः सन्ति । मीनानां गृहणं जनानाम् आनन्ददायिनी क्रीडा भवति । एतस्मिन् स्थाने किञ्चन सुन्दरं पक्षिधाम अपि अस्ति । कारिपास् साहसी जनानां प्रियं स्थानमस्ति । अनेकविधाः (ग्लोशियर्) हिमप्रवाहाः साहसिनाम् अवरोधं जानयन्ति । अत्रैव हेमकुण्डः, कुसुमकन्दरः, दूपकुण्ड, इति सरांसि सन्ति । अत्र सर्वत्र पर्वतारोहणं कर्तुं शक्यते । पिण्डारि हिमप्रवाहस्य स्खलनदृश्यम् अतीव वैभवयुतं भवति । बदरीनाथक्षेत्रं हृषीकेशतः २९ कि.मी. दूरे अस्ति । सागरस्तरतः १०१४ पादपरिमितोन्नते स्थले एतत् स्थानमस्ति । गङ्गाभागीरथ्योः सङ्गमस्थानं देवप्रयागः इति प्रसिद्धः । गङ्गामन्दाकिन्योः सङ्गमः रुद्रप्रयागः इति ख्यातः । कर्णगङ्गागङ्गयोः सङ्गमस्थान कर्णप्रयागः इति प्रसिद्धः विष्णुप्रयागः नन्दप्रयागः इति अन्यपुण्यसङ्गमस्थानानि अत्र सन्ति जनाः सर्वदा स्नानं कुर्वन्ति । देवालयस्य अग्रे अलकनन्दानदी प्रवहति । देवालये नारायणस्य सुन्दरा लघु मूर्तिरस्ति । अत्रापि शीतले स्थले उष्णजलस्थाननि सन्ति । एतानि स्नानयोग्यानि सन्ति । एतत् स्थानं तप्तकुण्डमिति प्रसिद्धम् । सूर्यकुण्डेऽपि उष्णजलमस्ति । अत्र स्नानेन देहायासः विगतः भवति इति जनविश्वासः ।

पौराणिकपावित्र्यम्

नरनारायणमन्दिरस्य गोपुरं स्वर्णनिर्मितमस्ति । ४५ पादपरिमितोन्नतप्रदेशे गर्भगृहे सिंहासनस्योपरि शालग्रामशिलायाः पूर्वाभिमुखः श्रीनारायणविग्रहः अस्ति । योगमुद्रास्यितः किरीटधारी पद्मासनस्थः बदरीनाथस्य । अत्र क्षेत्रे स्थित शिवक्षेत्र ब्रह्मकपालः इति कथयन्ति । वेदव्यासमहर्षीः अत्र स्थितवान् । श्री शङ्कराचार्यः अत्रैव स्थित्वा भाष्य ग्रन्था रचितवन्तः । श्रीममन्धवाचार्याः बदरीनाथे एव समाधिस्याः अभवन् । महर्षिः श्री वेदव्यासः महाभारतम् अत्रैव रचितवान् गणपतिः अत्रैव तत् लिखितवान् इति विश्वासः। वेदव्यासेन अष्टदशपुराणानि अपि अत्रैव प्रणीतानि । बदरिकाश्रमतः अष्ट कि.मी. दूरे ४०० पादपरिमितोन्नत्यात् पतता जलेन सुन्दरजलपातः निर्मितः। अस्य नाम वसुधारा जलपातः इति । ऋषिकेशतः रुद्रप्रयागपर्यन्तम् आगत्य अग्रे केदारनथक्षेत्रं गन्तुं शक्यते । एतत् ऋषिकेशतः २४० कि.मी. दूरेऽस्ति । सर्वतः हिमाच्छुदितानि गिरिशिखराणि सन्ति । केदारनाथप्रदेशं रुद्रहिमालयः इति कथयन्ति । सुमेरुपर्वतः गन्धमादनगिरिः च असैव भागौ स्तः । केदारनाथक्षेत्रं द्वादशज्योतिलिङ्गक्षेत्रेषु अन्यतमम् अस्ति । नरनारायणानां प्रार्थनया शिवः अत्र ज्योतिलिङ्गरूपेण स्थितवान् इति शिवपुराणे अस्ति । एतत् हैन्दवानां परमपवित्रं श्रद्धाकेन्द्रम् । केदारनाथस्य समीपं मन्दाकिनिनद्याः उगमस्थानमस्ति । केदारनाथस्य क्षेत्रं सागरस्तरतः ११७०० पादपरिमितौन्नत्ये स्थले अस्ति । केदारनाथमन्दिरे बृहच्छिला एव शिवलिङ्गमिति आराध्यते। गौरीकुण्डः इति पवित्रजलवापी अस्ति । श्रीशङ्कराचार्यः केदारनाथक्षेत्रे कैवल्यम् अवाप्नोत् । एतत् स्थलं भक्ताना यात्रास्थलं , प्रकृतिप्रियाणां साहसिनामपि एतत् प्रियं दर्शनीयस्थानम् । भूमार्गः - डेह्राडूनतः [[बदरीनाथः|बदरीनाथक्षेत्रं ३३६ कि.मी. जोषिमठः १८७ कि.मी. दूरे च भवति । वाहनैः गन्तुं शक्यते किन्तु पर्वतकन्दरप्रदेशः इति कारणेन जागरितैः भावयम् ।

अलमोरः

हिमालयपर्वतश्रेण्यां स्वर्गमिव प्रकाशामानं गिरिधाम अलमोरः । एतत् गिरिधाम दर्शकानां स्वर्गः इति ख्यातमस्ति । अत्र कन्दराः पर्वतशिखराणि नद्यः (रामगङ्गा, कोशी) सर्वाणि दिव्यानि भव्यानि च सन्ति । अत्र समतले वाटिकाः सन्ति । पर्वतारोहिणां प्रियं स्थानमस्ति । अलमोरतः कारूददेवि मन्दिरपर्यन्तं जनाः आरोहणं कुर्वान्ति । स्वामिविवेकानन्दः इतः एव भारतयात्राम् आरब्धवान् इति इतिहासः। उत्तरप्रदेशराज्यतः कुमान् ट्रान्सपोर्ट् इति संस्था प्रवासव्यवस्थां करोति । स्वयं वाहनैः अपि गन्तुं व्यवस्या अस्ति। वाहनमार्गः – मधुरा बरौलि-कोतगोण्ड-अलमोर – देहली-पन्तनगर-अलमोरः इति वाहनमार्गः अस्ति । कतगोण्डतः ९० कि.मी. दूरं भवति । अलमोरस्थले वसति गृहणि सन्ति ।

गौमुखम्

उत्तरकाशिमण्डलस्य एतत् प्रमुख स्थलमस्ति । सागरस्तरतः ४२५५ मीटर् उन्नतप्रदेशे एतदास्ति । अत्र पञ्चदश हिमनदीभिः मिलित्वा एका गुहा निर्मितास्ति । एषा गौमुखम् इव दृश्यते इति स्थलस्य नाम गोमुखम् इति आगतम् । भागीरथी नदी अत्र सञ्जाता । अत्र शान्तिः पवित्रता सौन्दर्यं च सहजतया सन्ति । केवलं साहसं कार्यचतुराः एव अत्र गन्तुं शक्यते । अत्र नदीस्नानम् अतीव पुण्यफलदम् इति जननां विश्वासः । अत्र अपाय स्थानाननि बहूनि सन्ति । अत्र नदी वेगेन प्रवहति । अत्र कदाचित् हिमशिलाप्रपातः भवति । रक्षकपुरुषाः अत्र दर्शनं कृत्वा शीघ्रं निवर्तितुं जनान् सूचयन्ति । मार्गगङ्गोत्रीतः ३६ कि.मी. चेद्रितः प्रयाणं कर्तव्यं भवति ।

हिमालययात्रा

उत्तराञ्चलतः हिमालययात्रा आरब्धा भवति । तदर्थ अनेकानि शीतनिरोधकानि वस्तूनि सङ्ग्रह- जीयानि भवन्ति । यात्रा कर्तृणा प्रथममेव सर्वं सूचयन्ति । हिमालययात्रा अद्भुतास्ति । यावत् पर्यन्त यात्रा न समाप्त न भवति तावत् पर्यन्त अतीव जागरूकतया भवितव्य भवति । विशेषतः भारतीयाना हिमालययात्रा अतीव इष्टा अस्ति । हरिद्वारं हृषीकेशःगङ्गानद्याः अपूर्वसौन्दर्यं दृश्यते शक्यते । हरिद्वारम् अथवा हरद्वारम् इति प्रख्यातं प्राचीनं पतनमेतत् हरेः पादौ अत्रस्तः इति हरिद्वारम् इति नाम आगतमस्ति । ब्रह्मकुण्डप्रदेशे हरिपादौस्तः अमृतकुण्डं हरिकिपायरि इत्यपि एव कथयन्ति । गङ्गातीरे गङ्गामाता मन्दिरमस्ति लक्ष्मीमन्दिर श्रीराममन्दिर नीलधारा, पावनधाम, दक्ष- प्रजापति मन्दिर इत्यादि दर्शनयानि सन्ति । गङ्गातीरे अनेक गुरुकुलानि सन्ति । अत्रानेक धर्मशालाः सन्ति । गङ्गास्नान अत्र पवित्रकार्यमस्ति । हरिद्वारतः १४ कि.मी. दूरे ऋषिकेशक्षेत्रमस्ति । अत्र गीताभवनं, स्वर्गाश्रमः , ऋषिकुण्डं, वराहमन्दिरं, त्रिवेणिटट्टः भरतमन्दिरं, शिवानन्दाश्रमः इत्यादीनि सन्ति । लक्ष्मणझूला सेतुद्वारा गङ्गायाः पारं कर्तुं शक्यते । अगतः हिमालययात्रायाः आरम्भः भवति । हरिद्वारहृषीकेशनगरयोः वैशिष्ट्यं गङ्गा प्रवहति। इतः जनाः परिशुद्धं गङ्गाजलं गृहं नयन्ति । गङ्गानद्याः उभयपाश्वयो: स्नान् घट्टाः निर्भिताः सन्ति । भूमार्गः – देहलीतः २२० कि.मी. दीर्घमार्गः हरिद्वारं नयति । धूमशकटमार्गः- ऋषिकेशक्षेत्रे धूमशकटनिस्थानम् अस्ति । देहलीतः अनेकानि यानानि सञ्चरन्ति । sa:उत्तराञ्चलः


.

"https://sa.wikipedia.org/w/index.php?title=उत्तराखण्डराज्यम्&oldid=209933" इत्यस्माद् प्रतिप्राप्तम्