"पुदुच्चेरी" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.3) (रोबॉट: ka:პონდიშერი (შტატი) की जगह ka:პონდიშერი जोड़ रहा है
(लघु) r2.7.2+) (रोबॉट: en:Puducherry की जगह en:Puducherry (Union Territory) जोड़ रहा है
पङ्क्तिः ५१: पङ्क्तिः ५१:
[[de:Puducherry (Unionsterritorium)]]
[[de:Puducherry (Unionsterritorium)]]
[[dv:ޕޮންޑިޗެރީ]]
[[dv:ޕޮންޑިޗެރީ]]
[[en:Puducherry]]
[[en:Puducherry (Union Territory)]]
[[eo:Pondiĉero]]
[[eo:Pondiĉero]]
[[es:Puducherry]]
[[es:Puducherry]]

०८:२७, ३१ जनवरी २०१३ इत्यस्य संस्करणं

पृष्ठ्म् इदं पाण्डीचेरीकेन्द्रशासितप्रदेशस्य विषये अस्ति । पाण्डीचेरीनगरस्य विषये ज्ञातुं

पाण्डीचेरी (तमिलुभाषायां புதுச்சேரி अथवा பாண்டிச்சேரி) भारतस्य कश्चन केन्द्रशासित: प्रदेशः अस्ति । २००६ तमस्य वर्षस्य सप्टम्बर०००मासे अस्य नाम पुदुचेरी इति परिवर्तितम् । तमिळुभाषायां पुदुचेरी इत्यस्य अर्थः नूतनः ग्रामः इति । पाण्डिचेरी सागरतीरे स्थितं किञ्चन सुन्दरनगर अस्ति । पर्वतप्रदेशाः अत्र न सन्ति । विस्तारः २९० चतुरस्र कि.मी.मितः । इतिहासानुसारं द्वितीये शतके रोमदेशीयाः अत्र वाणिज्यव्यवहारेषु मग्नाः आसन् । अनन्तरं युरोपियन् जनाः आगताः क्रिस्ताब्दे १६७३ तमे वर्षे फ्रान्सदेशीयाः अत्रत्यम् अधिकारं प्राप्तवन्तः । नगरनिर्माणम् उत्तमरीत्या कृतमस्ति । उत्तरदक्षिणतः पूर्वपरिचयतां च सरल मार्गाः सन्ति । फ्रान्सदेशीयाः श्वेतनगरं कृष्णनगरमिति भागद्वयं कृतवन्तः ।यत्र फ्रेञ्चजनाः आसन् सः भागः श्वेतनगरम् इति प्रसिद्धः आसीत् । मार्गाणां नामानि अपि रोमन् शैल्या रोमेन्-रोलामार्गः , रूसप्रान् , रोविक्टर् , सीमो- नेल् इत्यादीनि सन्ति । अत्रत्याः आरक्षकाः फ्रान्सदेशीयसैनिकाः इव समवस्त्रं धरन्ति। गृहाणां नामनि अपि फ्रेञ्चशैल्या सन्ति । प्रमुखवाणिज्यकेन्द्रणि गान्धिमार्गः , नेहरूमार्गः इत्यादयः। नगरे फ्रान्सस्मारकाः सन्ति । जोन् आफ् आर्क् प्रतिमा अस्ति । डूप्लेविग्रहः अस्ति । विल्लेनोय्रे प्रदेशे (कृष्णनगरम्) तिरुवळ्ळुवर अण्णादोरै , एम्.जी. आर् , कामराजप्रतिमाः सन्ति । अत्र ५५विविधभाषाजनाः निवसन्ति । आङ्ग्लभाषा , फ्रेञ्चभाषा , तमिळ् ,मलयाळं , तेलुगु राज्यभाषाः सन्ति । सर्वमार्गेषु प्रार्थनामन्दिराणि देवालयाः सन्ति । सहस्रवर्षप्राचीनाः ३२ देवालयाः सन्ति । क्रैस्तप्रार्थनामन्दिराणि प्राचीनानि सन्ति । पाण्डिचेरिनगरे १५०० मीटर् दीर्घः मार्गः प्रोमनेड् स्थाने गच्छति । तत्र नौकानिस्थानं युद्धमेमोमोरियल् राजनिवास् , टौनहाल् इत्यादि सन्ति । पुदुचेर्यां चत्वारि असंयुक्तानि मण्डलानि विद्यन्ते - पाण्डीचेरी, कारैकल्, यानम्, माहे च । पाण्डीचेरी कारैकल् च तमिळुनाडुराज्यस्य भूभागौ विद्येते । यानम् आन्ध्रप्रदेशे माहे केरलभूभागे च विद्यते । सम्पूर्णस्य अस्य केन्द्रशासितप्रदेशस्य विस्तारः अस्ति ४९२ चतरस्र कि मी मितः । तस्मिन् पाण्डीचेरीनगरम् - २९३ च कि मी मितं, कारैकल् १६० च कि मी मितं, माहे ९ च कि मी मितम्, यानम् ३० च कि मी मितम् । पाण्डीचेरीमण्डले १२ लघुभागाः विद्यन्ते । तेषु केचन तमिळुनाडुभूभागेन आवृताः भवन्ति । माहेमण्डलं त्रिभिः भागैः युक्तम् । अत्र ९,००,००० जनाः निवसन्ति ।

माहेसमुद्रतीरम्

सर्वकारस्य आधिकारिकभाषाः

पाण्डीचेरी-केन्द्रशासितप्रदेशः

पुदुचेर्याः आधिकारिकाः भाषाः नाम तमिळ् (८९%), मलयाळम् (३.८%), तेलुगु (२.९% ), फ्रेञ्चभाषा (१%) । प्रत्येकस्मिन् मण्डले भाषास्थितिः परिवर्त्यते । मण्डलानां परस्परसम्पर्काय आङ्ग्लभाषा उपयुज्यते । पाण्डीचेरी-कारैकल्-मण्डलाभ्यां सह व्यवहारावसरे तमिळुभाषा उपयुज्यते । पाण्डिचेरी, कारैकाल्, यानं मण्डलेषु तेलुगुभाषा अधिकतया उपयुज्यते । माहे, पाण्डीचेरीप्रदेशयोः मलयाळभाषा उपयुज्यते ।

पुदुचेर्यां फ्रेञ्चभाषा अपि आधिकारिकभाषा वर्तते ।१६७३ तः १९५४ पर्यन्तं आधिकारिकभाषा आसीत् । सा रक्षिता अस्ति अद्यत्वे अपि ।

सर्वकारः प्रशासनञ्च

पुदुचेरीविधानसभा

पुदुचेरी पृथक्-राज्यं न । केन्द्रशासितप्रदेशः इत्यतः नवदेहल्याः शासने अन्तर्भवति । तथापि देहली-पुदुचेरी इत्येतयोः केन्द्रशासितप्रदेशयोः विधानसभासदस्यानां निर्वाचनाधिकारः विद्यते । केषुचित् विषयेषु स्वयं नियमानाम् अन्वये अपि स्वातन्त्र्यं विद्यते । केन्द्रस्य अध्यक्षः राजनिवासे तिष्ठति यत्र पूर्वतनः फ्रेञ्च-अध्यक्षः आसीत् । अस्य प्रदेशस्य आर्थिकाभिवृद्धौ केन्द्रसर्वकारस्य पूर्णसहभागः विद्यते ।

आर्थिकता

मत्स्योद्यमः अत्र प्रमुखः । चतुर्षु मण्डलेषु ४५ कि मी मितः तीरप्रदेशः विद्यते । अस्मिन् २७ जलोद्भव-मत्स्योद्यमग्रामाः २३ देशीय-मत्स्योद्यमग्रामाः । धीवराणां सङ्ख्या ६५,००० तेषु १३,००० सक्रियाः सर्वदा । आर्थिकाभिवृद्धेः वेगस्य अन्यः हेतुः नाम रैल्व्यवस्था ।


बाह्यानुबन्धाः

"https://sa.wikipedia.org/w/index.php?title=पुदुच्चेरी&oldid=223246" इत्यस्माद् प्रतिप्राप्तम्