"आल्बर्ट् स्याबिन्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.1) (Robot: Adding uk:Альберт Себін
(लघु) r2.7.2) (Robot: Adding tl:Albert Sabin
पङ्क्तिः ६४: पङ्क्तिः ६४:
[[ru:Сэйбин, Альберт]]
[[ru:Сэйбин, Альберт]]
[[sr:Алберт Сејбин]]
[[sr:Алберт Сејбин]]
[[tl:Albert Sabin]]
[[uk:Альберт Себін]]
[[uk:Альберт Себін]]
[[vi:Albert Sabin]]
[[vi:Albert Sabin]]

१०:३१, ५ फेब्रवरी २०१३ इत्यस्य संस्करणं

आल्बर्ट् स्याबिन्
जननम् आल्बर्ट् स्याबिन्
(१९०६-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-२६)२६, १९०६
Białystok, Poland
मरणम् ३, १९९३(१९९३-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-०३) (आयुः ८६)
Washington, D.C, United States
Heart Failure
नागरीकता Poland, United States
कार्यक्षेत्राणि immunology, virology
मातृसंस्थाः New York University
विषयेषु प्रसिद्धः oral polio vaccine
प्रमुखाः प्रशस्तयः see article


(कालः – २६. ०८. १९०६ - ०३. ०३. १९९३)


एषः आल्बर्ट् स्याबिन् (Albert Sabin) “पोलियो”-रोगस्य औषधस्य संशोधकः । अयं आल्बर्ट् स्याबिन् १९०६ वर्षे आगस्टमासस्य २६ तमे दिनाङ्के रष्यादेशे जन्म प्राप्नोत् । १९२१ तमे वर्षे रष्यातः अमेरिकाम् आगच्छत् । १९३० तमे वर्षे अमेरिकादेशस्य पौरत्वं प्राप्नोत् च । सः आल्बर्ट् स्याबिन् यद्यपि अध्ययनम् अमेरिकादेशे अनुवर्तितवान् तथापि तत् सुलभं नासीत् । यतः तस्य कुटुम्बम् अत्यन्तं निर्धनं कुटुम्बम् आसीत् । विद्यालयतः प्रत्यागमनस्य अनन्तरं पितुः वयनकार्ये साहाय्यं करणीयम् आसीत् । सः अन्यत् किमपि कर्तुं समयम् एव न प्राप्नोति स्म । तस्य एतादृशीं परिस्थितिं दृष्टवान् तस्य आल्बर्ट् स्याबिनस्य पितृव्यः तं ततः स्वेन सह नीतवान् । अग्रे सः एव तस्मै आल्बर्ट् स्याबिनाय न्यूयार्कनगरस्य दन्तवैद्य–महाविद्यालये प्रवेशम् अकारयत् । यद्यपि सः आल्बर्ट् स्याबिन् दन्तवैद्यविद्यालयं प्राविशत् तथापि तस्य आसक्तिः सूक्ष्माणुजीविनां विषये एव आसीत् । १९३१ तमे वर्षे सः आल्बर्ट् स्याबिन् वैद्यपदवीं प्राप्नोत् ।


एषः आल्बर्ट् स्याबिन् द्वितीयस्य महायुद्धस्य अवसरे सैन्ये अपि कार्यम् अकरोत् । तदवसरे “मस्तिष्करोगस्य” विषये (एन्. सि. फैलैटिस्) अधिकं कार्यम् अकरोत् । युद्धस्य समाप्तेः अनन्तरं लक्ष्यं “पोलियो”-रोगस्य दिशि पर्यवर्तयत् । तदनन्तरं सः आल्बर्ट् स्याबिन् “सिन्सिनाटि”–विश्वविद्यालयस्य बालवैद्यालयस्य संशोधनविभागे कार्यम् आरब्धवान् । तत् कार्यं कर्तुं तस्य गुरुः विलियं पार्क् नामकः वैद्यः अपि प्रोत्साहम् अयच्छत् । “पोलियो” अत्यन्तं लघुना विषकणेन (वैरस्) जायमानः रोगः । ते विषकणाः मुखेन सेव्यमानानाम् आहारवस्तूनां, जलस्य द्वारा एव जीर्णाङ्गं प्रविशन्ति । ततः रक्तप्रवाहद्वारा मस्तिष्कम् अथवा मस्तिष्कलतां प्रविशन्ति । तत्र जीवकोशाणां नाशनस्य आरम्भं कुर्वन्ति । अनेन हस्त–पाद–श्वासकोशादीनां स्नायूनां चलनं स्थगितं भवति । अस्य चिकित्सां कर्तुं पणम् अकरोत् एषः आल्बर्ट् स्याबिन् । तदा एव जोनास् साक् इत्यनेन संशोधितं सूच्यौषधं तस्य “पोलियो”-रोगस्य निवारणार्थं दीयते स्म । तथा दुर्बलीकृतानाम् औषधानाम् उपयोगः न तावान् तृप्तिकरः इति अभासत अस्य आल्बर्ट् स्याबिनस्य । दीर्घकालं यावत् रोगस्य नियन्त्रणार्थं जीवन्तः विषकणाः (वैरस्) एव आवश्यकाः इति सः निर्णीतवान् । तान् विषकणान् आहारम् इव मुखद्वारा एव सेवितुं शक्नुमः, तदर्थं सूच्यौषधस्य आवश्यकता नास्ति इत्यपि संशोधितवान् । अनन्तरं विधत्रयस्य “पोलियो”-रोगस्य निमित्तम् अपि विधत्रयस्य प्रतिविषं निर्मातॄणां विषकणानां (वैरस्) संशोधनम् अपि अकरोत् । सः १९९३ तमे वर्षे मार्चमासस्य तृतीये दिनाङ्के इहलोकम् अत्यजत् ।


सः आल्बर्ट् स्याबिन् प्रथमं वानराणां कृते मुखद्वारा एव निस्स्त्वविषकणान् अददात् । तेन तेषां शरीरे “पोलियो”– निरोधकशक्तिः वर्धिता । अनन्तरं तेभ्यः वानरेभ्यः सत्त्वयुतान् विषकणान् अददात् । तदा ते वानराः पोलियोरोगेण पीडिताः नाभवन् । अनन्तरं तम् एव क्रमं मनुष्याणां विषये अपि प्रयुक्तवान् । तदर्थं पत्न्यै, द्वाभ्यां पुत्राभ्यां च औषधम् अददात् । स्वयम् अपि असेवत । अनन्तरं कारागृहस्य स्वयंसेवकेभ्यः अपि अयच्छत् । १९५७ वर्षाभ्यन्तरे मुखद्वारा एव सेव्यमानस्य औषधस्य संशोधनम् अकरोत् । विश्व–आरोग्य–संस्था अपि अस्य आल्बर्ट् स्याबिनस्य औषधस्य उपयोगं कर्तुम् अवदत् । अनन्तरं रष्या तथा पूर्वयूरोप् देशेषु दशकोटि–बालेभ्यः एतत् औषधं प्रदत्तम् । अस्य आल्बर्ट् स्याबिनस्य मुखद्वारा सेव्यमानं मधुररुचियुक्तं द्रवरूपम् एतत् औषधं विश्वाद्यन्तं प्रसिद्धम् अभवत् । प्रपञ्चस्य सर्वेभ्यः कोणेभ्यः अपि गौरवादराः तम् अन्विष्य आगताः । दिर्विधिः नाम १९८३ तमे वर्षे सः आल्बर्ट् स्याबिन् एव तेन “पोलियो”– रोगेण पीडितः मरणस्थितिं प्राप्तवान् । तथापि सः तस्य विरुद्धं युद्धं कृत्वा जयं प्राप्नोत् । अनन्तरं सः आल्बर्ट् स्याबिन् बहूनां विज्ञानिनां मार्गदर्शनं कुर्वन् सार्थकं जीवनम् अयापयत् ।

"https://sa.wikipedia.org/w/index.php?title=आल्बर्ट्_स्याबिन्&oldid=224337" इत्यस्माद् प्रतिप्राप्तम्