"१८५६" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.3) (Robot: Adding wuu:1856年
(लघु) r2.7.2) (Robot: Adding min:1856
पङ्क्तिः ११०: पङ्क्तिः ११०:
[[mhr:1856]]
[[mhr:1856]]
[[mi:1856]]
[[mi:1856]]
[[min:1856]]
[[mk:1856]]
[[mk:1856]]
[[mr:इ.स. १८५६]]
[[mr:इ.स. १८५६]]

१६:२०, १५ फेब्रवरी २०१३ इत्यस्य संस्करणं

१८५६ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञात-तिथीनां घटनाः

अस्मिन् वर्षे लण्डन्नगरस्य सैण्ट्जार्ज् इति वैद्यालयस्य डा मार्षल् हाल् नामकः वैद्यः "लान्सेण्ट्"नामिकायां पत्रिकायां कृतकश्वासोच्छ्वासस्य विषये विवृणोत् ।
अस्मिन्नेव वर्षे जर्मनीदेशस्य "डुसेल्डार्फ्" इत्यत्र खनिकर्मकराः "नियांडर्ताल् मानवस्य" अस्थीनि प्राप्तवन्तः ।
अस्मिन् वर्षे प्रजननद्रव्यसिद्धान्तस्य प्रतिपादकः जर्मनीदेशीयः जीवविज्ञानी अगस्ट् वीस्मान् वैद्यपदवीं प्राप्नोत् ।
अस्मिन्नेव वर्षे भारतदेशस्य कर्णाटकराज्यस्य जलपातेषु अन्यतमौ जोगजलपातः गेरुसोप्पजलपातः च ब्रिटिष्-अधिकारिभ्यां संशोधितौ ।
अस्मिन् वर्षे भारतस्य कन्नडभाषिकाणां राज्यं कर्णाटकं भवेत् इति आन्दोलनम् आरब्धम् ।
अस्मिन् वर्षे अनुवंशीयनिमस्य निरूपकः जीवविज्ञानी ग्रिगोर् जान् मेण्डेल् अष्टवर्षाणि यावत् संशोधितान् आनुवंशीयगुणानां नियमस्य विषये, जीविनां वैशिष्ट्यस्य विषये, तेषां स्वतन्त्रकार्याणां विषये च ब्रून्-नगरस्य विज्ञानसङ्घे विस्तरेण विवृतवान् ।


जन्मानि

जनवरी-मार्च्

एप्रिल्-जून्

अस्मिन् वर्षे मेमासस्य ६ दिनाङ्के मनोविज्ञानस्य अध्वर्युः सिग्मण्ड् फ़्रुड् आस्ट्रियादेशस्य (इदानीन्तने जोकोस्लोवाकियदेशे अस्ति) फैबर्ग् इति प्रदेशे निर्धने यहूदिकुटुम्बे जन्म प्राप्नोत् ।

जुलै-सेप्टेम्बर्

अस्मिन् वर्षे जुलैमासस्य २३ तमे दिनाङ्के भारतस्य अप्रतिमः स्वातन्त्र्ययोद्धा बालगङ्गाधरतिलकः महाराष्ट्रस्य रत्नगिरौ जन्म प्राप्नोत् ।

अक्टोबर्-डिसेम्बर्

निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

"https://sa.wikipedia.org/w/index.php?title=१८५६&oldid=226113" इत्यस्माद् प्रतिप्राप्तम्