"स्विट्झर्ल्याण्ड्" इत्यस्य संस्करणे भेदः
(लघु) spell correct |
(लघु) r2.7.2) (रोबॉट: ang:Sƿissland की जगह ang:Swissland जोड़ रहा है |
||
पङ्क्तिः २११: | पङ्क्तिः २११: | ||
[[am:ስዊዘርላንድ]] |
[[am:ስዊዘርላንድ]] |
||
[[an:Suiza]] |
[[an:Suiza]] |
||
[[ang: |
[[ang:Swissland]] |
||
[[ar:سويسرا]] |
[[ar:سويسرا]] |
||
[[arc:ܣܘܝܣܪܐ]] |
[[arc:ܣܘܝܣܪܐ]] |
१८:४१, १९ फेब्रवरी २०१३ इत्यस्य संस्करणं
स्विटजरलैंड यूरोपमहाद्वीपे मध्यक्षेत्रे विद्यमानः देश: । स्विट्झर्ल्याण्ड् (जर्मन्- die Schweiz फ्रेञ्च् La Suisse इटालियन् –Svizzera, टेंप्लेट् Lang-rm) अधिकृततया स्विस् संयुक्तसंस्थानम् (ल्याटिन् भाषया कानपोडेरेष्यो हेल्वेटिका, अतः अस्य ISO राष्ट्र सङ्केतत्वेन CH एवं CHE इति स्वीकृतम् अस्ति ।) परितः भूप्रदेशेन आवृतः पर्वत प्रदेशः, जनसंख्या तावत् ( २००९ वर्षस्य ) ७.७ दशलक्षमिता, ४१,२८५ कि.मी विस्तीर्णम् अवाप्य स्थितं पश्चिमयुरोपप्रदेशस्य राष्ट्रमेतत् । स्विट्झर्ल्याण्ड् कयाण्टन् इति नाम्ना प्रसिद्धानि २६ राज्यानि अवाप्य संयुक्तगणराज्यमभवत् । ‘बर्न’ राज्यस्य अधिकारकेन्द्रम् । अस्य देशस्य द्वे जागतिके महानगरे नाम जिनीवा, एवं ज्यूरिच् । स्विट्झर्ल्याण्ड्राष्टस्य प्रतिजनम् आयः GDP $ 67,384 अस्ति इत्यतः समग्रदेशीय-उत्पन्नस्य आधारेण विश्वस्य अत्यन्तसम्पन्नराष्ट्रेषु अन्यतमम् इति परिगणितम् अस्ति । ज्यूरिच् तथा जिनीवा नगरे अनुक्रमेण विश्वे द्वितीयं तथा तृतीयम् उन्नतजीवनश्रेण्या श्रेयाङ्किते नगरे स्तः । स्विट्झर्ल्याण्ड् देशस्य उत्तरे जर्मनी, पश्चिमे फ्रान्स् , दक्षिणे इटली एवं पूर्वे लियेकटेन्स्टीन् ,तथा आष्ट्रियादेशः सीमारुपेण सन्ति । एषः देशः दीर्घकालात् अलिप्तनीतिं स्वनीतित्वेन स्वीकृतवान् अस्ति । १८१७तमवर्षात् एतेन देशेन कस्मिन् अपि युद्धे भागह् न स्वीकृतः अस्ति । रेड्क्रास्, विश्ववाणिज्यसङ्घटना एवं यु.एन् सदृशानाम् सङ्घटनानाम् ऐरोप्यशाखासु एकां शाखाम् अवाप्य अनेकेषाम् अन्ताराष्ट्रियसङ्घटनानाम् आतिथेयत्वं प्राप्तवान् अस्ति । यद्यपि एतेन राष्ट्रेण ऎरोप्यराष्ट्रसङ्घस्य सदस्यत्वं न प्राप्तं . तथापि षेङ्गन् नियमानां बद्धता अस्ति । अनेन जर्मन्, फ्रेञ्च्, इटालियन्, तथा इति चतस्रः भाषाः राष्ट्रभाषारुपेण स्वीकृताः सन्ति । अतः एव स्विट्झर्ल्याण्ड् बहुभाषिकं राष्ट्रम् । राष्ट्रस्य औपचारिकं नाम जर्मन् भाषया Schweizerische Eidgenossensschatt फ्रेञ्च्अभाषया confederation Suisse इटालियन् भाषया confederazione Svizzera रोमन् भाषया confederaziun Svizra इति । साम्प्रदायिकतया स्विट्झर्ल्याण्ड् स्थापना तावत् १२९१तमवर्षस्य आगस्टमासस्य प्रथमदिनाङ्के अभवत् । अतः स्विट्झर्ल्याण्ड् देशस्य राष्ट्रियदिनं तस्मिन् दिने आचरन्ति ।
स्विट्झर्ल्याण्ड् शब्दस्य व्युत्पत्तिः
स्विट्झर्ल्याण्ड् इति आङ्लनाम्नः स्विट्झर् इति भागः षोडशशतकात् नवदशशतकं यावत् स्विस्देशस्य कृते प्रयोगे आसीत् । इदानीं तत् पदं प्रयोगे नास्ति । तस्य एव रुपान्तरितं ’स्विट्झर’ पदं स्वीकृत्य संयुक्तपदं ‘स्विट्र्ल्याण्ड्’ पदं जातम् । आंग्लपदं स्विस्’ इति यत् तत्तु फ्रेञ्च्भाषया स्वीकृतं Suisse इत्यस्मात् । षोडषशतकात् प्रयोगे स्थितं गुणवाचकम् इदम् । जर्मन् भाषयाsuittes शब्दस्य अर्थः ‘दहनार्थंम् इति । सुडान् नगरं स्थापयितुम् अरण्यदहनं यत् कृतम् तस्य स्मरणार्थ एतत् पदं स्वीकृतं स्यात् । अनन्तर तदेव व्यापकं सत् वयाण्टन् प्रभुत्वे स्थितेषु सर्वप्रदेशेषु विस्तृतम् स्यात् ।
नेपोलियन् युगः
१७९८ तमे वर्षे फ्रेञ्चक्रान्तिसेना स्विट्झर्ल्याण्ड् देशं वशीकृत्य एकीकृतसंविधानं तस्योपरि उपस्थापितवती । एषा राष्ट्रस्य शासनम् एकीकृतम् अकरोत् । तस्य परिणामेन कयाण्टन् व्यवस्था निष्कासिता । एवं मुल्हासन्, वाक्टेल्लिका,खातौ स्विट्झर्ल्याण्ड्तः पॄथक् जातौ ।‘ हेल्वेटिक् गणराज्यम्’ इति नाम्ना नूतनप्रभुत्वम् अपख्यातिम् अवाप्नोत् । अनेन शतकेभ्यः या संस्कृतिः आसीत् सा नष्टा अभवत् । स्विट्झर्ल्याण्ड्देशः केवलं फ्रेञ्चपराधीनराष्ट्रमभवत् । १७९८ तमे वर्षे निड्वाल्डेन संग्रामः सेनाशासनस्य विरोधे स्थानिकनिवासिनां स्पष्टम् उदाहरणं भवितुमर्हति । फ्रान्स् तथा तस्य विरोधिनां मध्ये यदा युध्दमारब्धम् तदा रशिया आष्ट्रिया सैनिकाः स्विट्झर्ल्याण्ड्देशं स्वाधीनं कृतवन्तः । १८०३ तमे वर्षे नेपोलियन् गणद्वयस्य प्रमुखः स्विस् राजकारणिनः अहुय प्यारिस् मध्ये सन्धानं कारितवान् । अनेन मध्यवर्तिशासनस्य आचरणम् अभूत् । स्विस् स्वायत्तता युक्तं १९ संयुक्तकयांटन् शासनस्य परिचयः अभवत् ।१८१५ तमे वर्षे वियेन्ना शासनम् स्विस् स्वातन्त्र्यं पुनः अस्यापयत् । ऎरोप्यशक्तयः स्विस् अलिप्तनीतिम् अन्ते स्वीकृतवन्तः । १८६० गेटा संग्रामस्यानन्तरं सन्धाने वलायिस्, न्ययाटेल् एवं जिनीवा कयांटन स्विस् वशे आगतम् ततः प्रभृति स्विट्झर्ल्याण्ड् देशस्य सीमा(व्यत्यस्ता न अभवत्) तथैव वर्तते ।
स्विस् संयुक्तराष्ट्रम्
युरोप् देशस्य इतरे देशाः यदा क्रान्तिसंग्रामयोः मध्ये यदा श्रान्ताह् आसन् तदास्विस् जनाः अमेरिकाशैल्या प्रेरिताः सन्तः संयुक्तव्यवस्थायाः वास्तविकसंविधानरचने निमग्नाः आसन्। संविधानेन अनेन क्याण्टन् मध्ये स्थनीयसमस्यायाः परिहारस्य अधिकारः अपि प्रदत्तः । अन्ये सर्वे अधिकाराः केन्द्रसर्वकारस्य अधीने आसन् । राष्ट्रियसंसदं द्विधा विभज्य उन्नतगृहम् (upper house) एवं निम्नगृहम् (लोवरहौस्) इति विभज्य, संविधानस्य परिष्कारे जनाभिप्रायस्य सङ्ग्रहणम् अवश्यमिति नियमः कृतः । एकीकृतभारमापनस्य तथा मापनव्यवस्थायाः परिचायिता । १८५० तमे वर्षे स्विस् प्राङ्क् स्विस् संयुक्तदेशस्य एकैका नाण्यपध्दितिः इति स्वीकृतवन्तः । संविधानस्य ११ अनुच्छेदः विदेशीयानां कृते सेनासेवायाः निर्बन्धं करोति । १८८२ मध्ये उद्घाटितः गात्यर्ड शकटयानसुरङ्गमार्गः , टिकिनोतः दक्षिणक्याण्टन प्रति सम्पर्कं कल्पयति । संविधानस्य एकः प्रमुखः विधिः एवं वर्तते “यदि अनिवार्यं तर्हि सम्पूर्णतया संविधानं पुनः रचयितुं शक्यते इति । एषः विधिः जनसंख्यायाः आधिक्यानन्तरं तथा उद्यमक्रान्तेः परिणामतया आगतः । १८९१ तमवर्षात् आरभ्य अद्यपर्यन्तम् नैज प्रजाप्रभुत्वस्य दृढ-अंशान् स्वीकृत्य संविधानस्य परिष्कारः कृतः ।
आधुनिकः इतिहासः
१७ शतकस्य आरम्भे प्रारब्धेन प्रवासोद्यमेन प्रमुखाः मूलभूतव्यवस्थाः निर्मिताः । द्वयोः अपि विश्वसमरयोः द्वे विश्व स्रेमरेऽपि, स्विट्झर्ल्याण्ड्देशः न आक्रान्तः । प्रथमविश्वसमरे स्विट्झर्ल्याण्ड्देशः लेनिन् (व्लाडिमिर इल्लियिच अल्यानोऽव् ) महोदयाय आश्रयम् अयच्छत् । १९१७ पर्यन्तम् सः अत्रैव अवसत् १९२० तमे वर्षे स्विट्झर्ल्याण्ड्देशः “यस्य कस्यापि देशस्योपरि सेनाकार्याचरणे भागं न वहति” इति निबन्धनापूर्वकं जीनीवास्थिते ‘लीग् आफ नेशनस्” सङ्घटने प्रवेशं स्व्यकरोत् । द्वितीय विश्वसमरेऽपि स्विट्झर्ल्याण्ड्देशः जर्मनीदेशेन आक्रान्तः न अभवत् । स्विट्झर्ल्याण्ड् आक्सिस् तथा मित्रदेशयोः मध्ये द्विपक्षीयगुप्तचारस्य सन्धानं जातम् आसीत् । १९४०तमवर्षस्य मे-जूनमासयोः स्विस् वायुसेना मित्रपक्षस्य तथा आक्सिस्देशस्य युध्दविमानैः साकं युध्दं कृत्वा, ११ लुप्टवाटिविमानानि अनाशयत् । प्रहय्यत । १९४५ तमे मार्चमासे , ४ दिनाङ्के बसेल् एवं ज्यूरिय नगरस्योपरि मित्रपक्षाणां कुख्यातः स्फोटकप्रहारः अभवत् । बर्न क्याण्टन् १९७९तमे वर्षे स्विसदेशस्य अधीनम् अभवत् । १९५९ तमे वर्षे स्विस् क्यांटन् मध्ये महिलानां कृते मतदानस्य अवसरः प्रदत्तः । किन्तु केन्द्रस्तरे १९७१ तमे वर्षे मतदानस्य अवसरः कल्पितः । बहुविरोधानन्तरम् अन्तिमक्याण्टन् अप्पेनजल- इन्नरहोण्डनमध्ये १९९० तमे वर्षे अवसरः प्रदत्तः । १९८७ तमे वर्षे एलिजबेत् कोप् ,केन्द्रकार्याङ्गस्य समित्याः प्रथमा महिला सदस्या भूत्वा, १९८९वर्षपर्यन्तम् कार्य निरूढवती । रुत ड्रेप्स् महोदयः १९९९ तमे वर्षे प्रथम अध्यक्षः बभूव । २००७ तमे वर्षे मिषेलिन् कल्मीरे द्वितीया अध्यक्षा अभवत् । सा स्वीये सचिवसम्पुटे /उच्चसमितौ द्वे महिले सदस्यत्वेन (सहोद्योगित्वेन) स्वीकृतवती । स्विट्झर्ल्याण्ड्देशः युरोप् शासनमण्डले १९६३ तमे वर्षे संयोजितः । १९९९ एप्रील १८ तमे दिने जनसमुदायः एवं कयाण्टन् राज्यानि सम्पूर्णं परिष्कृतं संविधानं स्वीकृतवन्तः ।
राष्ट्रियताप्रदर्शनम्
२००२ तमे वर्षे स्विट्झर्ल्याण्ड्देशः संयुक्त-राष्ट्र- सङ्घस्य पूर्ण प्रमाणेन सदस्यराष्ट्रम् अभवत् । अनेन व्याटिकन् एकम् एव संयुक्त-राष्ट्रसङ्घस्य सदस्यत्वम् अप्राप्तवत्सु अवशिष्टम् अभवत् । स्विट्झर्ल्याण्ड्देशः (EFTA) इ एफ टि ए स्थापकसदस्यराष्ट्रमस्ति। ऐरोप्य-आर्थिकवलयस्य सदस्यता एतेन देशेन न स्वीकृता अस्ति । १९९२तमवर्षस्य डिसेम्बरमासे इ इ ए (EEA) तिरस्कृतम् अभवत् । अनन्तरम् आर्थिकवलयस्य सदस्यताप्राप्तिविषये प्रयत्नोऽपि स्थगितः। इ.इ.ए विषये जनभिप्रायं पृष्टवत्सु एकैकं राष्ट्रम् अस्ति स्विट्झर्ल्याण्ड्देशः ।
राजकारणम्
१८४८ तमे वर्षे अङ्गीकृतं केन्द्रसंविधानम् आधुनिककेन्द्रराष्ट्रकल्पनायाः शासनाधारस्य मूलमासीत् । एतत् संविधानं तादृशविश्वव्यवस्थायां द्वितीयम् । १९९९ तमे वर्षे नूतन संविधानम् अङ्गीकृतं तथापि तस्मिन् केन्द्रव्यवस्थासम्वन्धेषु गमनार्हाः नूतनभेदाः न दृश्यन्ते । बर्न् नगरे स्विट्झर्ल्याण्ड् संयुक्त संसत् तथावं स्विस् केन्द्र समितिः (कार्याङ्गः) यत्र कार्य निर्वहति तत् सौधं केन्द्रप्रासाद इति नाम्ना निर्दिशन्ति । स्विस् संसदि द्वे सभे स्तः । प्रतिक्याण्टन्तः निर्देशानुसारं चिताः ४६ प्रतिनिधयः भवन्ति संस्था- समित्याम् । प्रत्येकक्यांटनजनसंख्याधारेण तः २०० सदस्यान् बिभ्रति राष्ट्रियसमितिः । प्रत्येकसभायाः सदस्यानाम् अवधिः ४ वर्षाणि । जनभिप्रायसंग्रहद्वारा शासनस्य विषये आक्षेपं कर्तुं, संविधाने परिवर्तनं कर्तुं अपि जनाः समर्थाः भवन्ति । अतः स्विट्झर्ल्याण्ड् नैजार्थे प्रजाप्रभुत्वराष्ट्रम् इति वक्तुं शक्यते । केन्द्रसमितिः केन्द्रसर्वकारं रचयति एवं केन्द्रं शासनं निर्दिशति । अतः केन्द्रव्यवस्थायाः नेतारः सन्तः सदस्याः कार्यं निर्वहति । एषा समितिः केन्द्रशासनसभायां निर्बाचितसप्तसहोद्योगिसदस्यान् चत्वारिवर्षाणि बिभर्ति । समितेः कार्यशैल्याः उपरि आसनसभायाः परिवीक्षणं भवति । सप्तसदस्येषु एकं केन्द्राध्यक्षरूपेण शासनसभा निर्वाचयति । अध्यक्षः सर्वकारस्य नेतृत्वं निर्वहति तथा प्रतिनिधिकं कार्यमपि करोति । अध्यक्षस्य कोपि विशिष्टः अधिकः अधिकारः नास्ति विभागस्य मुख्यस्थः भूत्वा कार्यं निर्वहति ।२००७ तमे वर्षे केन्द्र समितेः निर्वायने केन्द्र समित्याः सप्त सथानानि एवम् आसन् ।---------
- समाजवादिप्रजाप्रभुत्ववादिभ्यः -२
- उदारवादी प्रजाप्रभुत्ववादिभ्यः २
- स्विस् पीपल्स पार्टी -२
- क्रैस्तप्रजाप्रभुत्ववादिभ्यः-१
केन्द्र सर्वोय्य न्यायालयः इतर-उच्यन्यायालयस्य न्यायदानस्योपरि स्थितानाम् आक्षेपाणां निवेदनमात्रं परिशीलयति । न्यायादीशः केन्द्रशासनसभाद्वारा ६ वर्षाणां निमित्तं निर्वाचितः भवति ।
नैजप्रजाप्रभुत्वम्
लेण्डस् जेमिनैड एतत् पुरातनशैल्याः प्रजाप्रभुत्वम् । इदानीं अपि क्याण्टन् द्वये प्रचलितमस्ति । स्विस् नागरिकाः इदानीं त्रयाणां स्तराणां न्यायव्याप्तेः आधीनाः भवन्ति । ते तु, गणः, कयाण्टन् एवं केन्द्रस्तरः । १७४८ तमवर्षस्य केन्द्रीयसंविधानेन नैजप्रजाप्रभुत्वव्यवस्था निरुपिता । पौर-अधिकाराः इति नाम्ना प्रख्याताः एते स्विस् प्रजाप्रभुत्वस्य प्रलेखाः सन्ति। संविधानात्मकशासनाधिकारस्य चालने तथा जनाभिप्रायसंग्रहणस्य अथवा उल्लेखस्य अधिकारं ददति । एतौ सांविधानिकनिर्णयान् परिवर्तयितुं समर्थौ । नागरिकाणां कश्चन समूहः राष्ट्रस्य जनाभिप्रायं संग्रह्य अङ्गीकृतशासनमेकम् अङ्गीकारानन्तरमपि शतदिनाभ्यन्तरे एव, ५०,००० विरोधिजनानां हस्ताक्षरं सङ्गृह्य आक्षेपान् कर्तुं शक्नोति । तदा राष्ट्रियस्तरे अभिप्रायसङ्ग्रहपूवकं बहुमतद्वारा शासनम् अङ्गीकुर्वन्ति अथवा तिरस्कुर्वन्ति । संविधानात्मकव्यत्ययः राष्ट्रिय- जनाभिप्रायद्वारा तथा प्रत्येकराज्यस्य (क्याण्टन्) आन्तरिक-अभिप्रायद्वारा अथवा उभयबहुमतद्वारा भवितुम् अर्हति । स्विझर्लेण्ड देशे २६ क्याण्टन् (राज्यानि) सन्ति । क्याण्टन् तेषां राजधान्यः च एवं सन्ति --
क्र.सं | क्याण्टन् | राजधानी |
---|---|---|
१ | अर्गाव् | आराव् |
२ | अप्पेन्जेल् आस्सरहोडेन् | हेरिसाव् |
३ | अप्पेन् जेल् इन्नर् होडेन् | अप्पेन् जेल् |
४ | ग्रामीणम्- (बसेल्) | लीस्टल् |
५ | बर्न् | बर्न् |
६ | फैबोर्ग् | फैबोर्ग् |
७ | जिनीवा | जिनीवा |
८ | ग्लेरस् | ग्लेरस् |
९ | ग्रावुबुण्डेन् | छुर् |
१० | ज्युरा | डेल्माण्ट् |
११ | ल्यूसर्ने | ल्यूसर्ने |
१२ | न्यूचाटेल् | न्यूचाटेल् |
१३ | निडवाल्डेन | स्टान् |
१४ | ओबवाल्डेन् | सार्नेन् |
१५ | स्काफ हासेन् | स्काफ हासेन् |
१६ | सोलोथर्न् | सोलोथर्न् |
१७ | सेण्ट्ग्यालेन् | सेण्ट्ग्यालेन् |
१८ | थुर्गौ | फानफेल्ड् |
१९ | टिकिनो | बेल्लिन् जोना |
२० | यूरि | आल्टडार्फ |
२१ | वलायिस् | सियान् |
२२ | वाड् | उदाहरण |
२३ | झुग् | लासन्ने |
२४ | ज्यूरिच् | ज्यूरिच् |
स्विट्झर्ल्याण्ड्देशे द्वौ पराधीनौ प्रदेशौ स्तः । तयोः बुसिङ्गेन् –जर्मनीदेशस्य वशे अस्ति । क्याम्पियोने डि इटालिया –इटलीवशे अस्ति । वोरार्ल् बर्ग् आष्ट्रियादेशस्य राज्यमासीत् । तत्र १९१९ तमे वर्षे मे २२ तमे दिनाङ्के कृतस्य जनाभिप्रायस्य सङ्ग्रहानुसारं ८०% तः अधिकजनाः स्वराज्यं स्विस् राष्ट्रे विलीनं भवतु इति प्रकटितवन्तः । तथापि एतत् विलीनम् आष्ट्रियासर्वकारेण, मित्रदेशैः, स्विस् उदारवादिभिः अन्यैश्च एषः प्रयत्नः निवारितः ।
अन्ताराष्ट्रियसंस्थाः एवं विदेशिसम्बन्धाः
राष्ट्रस्यास्य अलिप्तनीतेः कारणतः अनेके अन्ताराष्टियसंस्थाः अत्र स्वपीठान् अत्र स्थापितवन्तः । १८६३ तमे वर्षे ‘रेड्क्रास्’ संस्था अत्र संस्थापिता । संस्थायाः साङ्घिककेन्द्रम् अस्मिन् देशे एव अस्ति । अस्य देशस्य जिनीवा नगरे ऐरोप्य- प्रसारणाकेन्द्रस्य प्रधानकार्यालयः अस्ति । जिनीवा नगरं, संयुक्तराष्ट्रसङ्घस्य द्वितीयं बृहत् केन्द्रम् । न केवलं तावत् संयुक्तराष्ट्रसङ्घस्य उपकार्यालयाः अपि जिनीवा नगरे विद्यन्ते । उदाहरणार्थं विश्व आरोग्य संस्था (WHO) अन्ताराष्ट्रियदूरसम्पर्क केन्द्रम्, एवं अन्ये द्विशताधिक-अन्ताराष्ट्रियसंस्थानां कार्यालयाः अत्र विद्यन्ते ।यथा – अन्तराष्ट्रिय-ओलिम्पिक्-समितिः, ज्यूरिच् मध्ये विद्यमानं अन्ताराष्ट्रीय-साङ्घिकपादकन्दुकक्रीडाकेन्द्रम् ((FIFA) , ऐरोप्यपादकन्दुकक्रीडाकेन्द्रम् (UEFA) अपि अत्रैव अस्ति । विश्व-आर्थिकविपण्याः प्रतिष्ठानं जिनीवा नगरे एव अस्ति । डावोस् मध्ये प्रचाल्यमाना वार्षिकीसभाकारणातः अस्य प्रसिध्दि सर्वत्र वरीवर्तते । अस्यां सभायां अन्ताराष्ट्रियप्रमुखव्यवहारान् तथा राजकीयप्रमुखान् एकत्र संयोज्ज्य आरोग्यपरिसरयोः विषये, विश्वस्य ज्वलन्तीनां समस्यानां च निवारणविषये च (परिहारस्य विषये वा) चर्चा प्रचलति । साम्प्रदायिकतया स्विट्झर्ल्याण्ड्देशः अलिप्त राष्ट्रम् । सेना, राजकीयम् अथवा आर्थिकव्यवहारसम्बन्धि -मैत्रिकार्यात् दूरे एव तिष्ठति । स्वीझर्लेण्ड् देशस्य विस्तरणं यदा अभवत् ततः प्रभृतिः अलिप्तप्रमेतत् । २००२ तमे वर्षे संयुक्तराष्ट्रसंघस्य पूर्ण प्रमाणस्य सदस्यत्वं स्वीकृतं अनेन तदपि जनाभिप्रायसङ्ग्रहद्वारा । स्विट्झर्ल्याण्ड्देशः जगति विद्यमानैः सर्वराष्ट्रैः साकं राजतान्त्रिकसम्बन्धम् अस्यापयत् । स्विट्झर्ल्याण्ड्देशेन ऐरोप्य –राष्ट्रसङ्घस्य सदस्यत्वं एतावता अपि न स्वीकृतम् ।
स्विस् शस्त्रसन्नध्दसैन्यम्
पदातिदलवायुदले एवम् उभयत्र अपि स्विस् सेनादलम्, प्रमुखतया आग्रहेण नियुक्तसैनिकैः व्याप्तम् अस्ति । वृत्तिपरसैनिकाः सेनादलस्य ५% माव्रं सन्ति । अन्ये सर्वे आग्रहेण नियुक्ताः । २० तः ३४ (विशेषसन्दर्भे ५०) वर्षवयोपरिमितेः नागरिकाः सन्ति । स्विझर्लेण्डभूप्रदेशेन आवृतम् अतः अत्र नौकासैन्यं नास्ति । तथापि सरोवर-प्रदेशानां रक्षणार्थं सेना रक्षणानौकाः उपयुज्यते । व्याटिकन् नगरस्य रक्षणं विहाय विदेशीयानां वा विदेशी सैन्यानां वा सेवा स्विस् नागरिकाणां कृते निषिद्धा अस्ति । स्विस् सैनिकाः शस्त्रास्त्राणि इतरवस्तूनि च स्वगृहे एव स्थापयेयुः इति निर्बन्धः विद्यते । एषः निर्बन्धः विवादात्मकः तथा अपायकारी च इति राजकीयपक्षाः स्वाभिप्रायं प्रकटितवन्तः सन्ति । सेनायां सेवाकरणं स्विस्सर्वपुरुषनागरिकाणां कृते अनिवार्यम् इति निर्बन्धः अस्ति । किन्तु स्त्रियः स्वयं प्रेरणया सेवां कर्तुम् अर्हन्ति ।
वाणिज्यम्
स्विट्झर्ल्याण्ड्देशः (आधुनिकः) विश्वे अत्यधिकप्रमाणस्य वैयक्तिकस्वायत्त-उदार-आर्थिकव्यवस्थां प्राप्तवान् अस्ति । अतः अत्र आर्थिकस्थिरता अत्र दृश्यते । ऐर्लेण्ड्देशं विहाय स्विट्झर्ल्याण्ड्देशः उन्नत- ऎरोप्यश्रेयाङ्कम् , आर्थिकस्वातन्त्र्यं च व्यक्तेः सार्वजनिकसेवा द्वारा व्यापकतां प्राप्तवान् अस्ति ।, पाश्यात्यदेशानाम् ऎरोप्यदेशानां जापानस्य च अपेक्षया आर्थिकदृष्ट्या अधिकं जिडिपि (GDP) (प्रत्येकस्य व्यक्तेः आयः ) लब्ध्वा, लस्केंबर्ग् नार्वे, कतार, ऎसलेण्ड् ,ऐर्लेण्ड्देशः इत्येतेषाम् अवन्तरस्य षष्ठं (स्थानं) श्रेयाङ्कं प्राप्नोति । ग्रेटरज्यूरिच् प्रदेशे १.५.दशलक्षमिताः उद्योगिनः सन्ति । सहस्त्राधिक- संस्थाः अत्र विद्यन्ते । उन्नतस्तरस्य जीवनशैलीम् अत्र पश्यामः । एङ्गाडिन्खातसदृशन्यून-उद्यमवति आल्फैन्पर्वतप्रदेशे प्रवासोद्यमः आयस्य मुख्यं स्रोतः अस्ति । व्यक्तेः क्रयणसागर्थ्यानुसारं स्विट्झर्ल्याण्ड्देशः विश्वे १५ श्रेयाङ्कम् आप्नोति । विश्व-आर्थिक-सङ्घटनायाः विश्वे १५तमं श्रेयाङ्कम् आप्नोति । विश्व-आर्थिक- सङ्घटनायाः विश्वस्पर्धात्मकता इति वृत्तानुसारं स्विट्झर्ल्याण्ड्देशः विश्वे द्वितीयं श्रेयाङ्कं प्राप्नोति । २० तमे शतके स्विट्झर्ल्याण्ड्देशः युरोप् खण्डस्य अत्यन्तम् आढ्यं राष्ट्रमासीत् । २००५ तमे वर्षे स्विट्झर्ल्याण्ड्देशस्य मध्यमस्तरस्य कौटुम्बिक-आदायः ९५,००० (C.H.F) सि.एच्. एफ. इति परिगणितमासीत् । क्रयणसामर्थ्यानुसारम् एषः ८२,००० यु.एस् डालर्स्. (नवेम्बर् २००८ विनिमयमूल्यानुसारं) भवति । अतिधनिकस्य अमेरिकादेशस्य संस्थानस्य क्यालिफोर्नियाराज्यस्य समानम् एतत् । स्विट्झर्ल्याण्ड्देशः विश्वस्य ५० प्रतिशतं हस्तघटीनाम् उत्पादनं करोति (ओमेगा स्पीडमास्टर् नामिकयोः संस्थयोः चयनम् अपोलो कार्याचरणार्थं कृतम् आसीत् । ) स्विट्झर्ल्याण्ड्देशः अनेकासां बृहत् अन्ताराष्ट्रियसङ्घटनानां मूलस्थानम् अस्ति । आयस्य अनुसारम् अतिबृहत् आर्थिकसङ्घटनाः तावत् ग्लेन्कोर् नेस्ले , नोवार्टिस्, हाफमन् ला-रोके, ए.बि.बि तथा अडेक्को इत्यादयः । गमनार्हाः अन्याः सङ्घटनाः तावत् - युबिएस् एजि(UBS AG), ज्युरिच् वाणिज्यसेवासंस्था, क्रेडित स्यूस्से, स्विस् रे स्वाच् समूहाः च । स्विट्झर्ल्याण्ड्देशः विश्वे अत्यन्तम् सशक्तम् आर्थिकं राष्ट्रम् इति श्रेयाङ्कितम् अस्ति । रासायनिकानि आरोग्यसम्बद्धानि औषधानि, मापन-उपकरणानि, सङ्गीत-उपकरणानि, स्थिरसम्पत्, वित्तकोशव्यवहारः, योगक्षेमव्यवहारः ,प्रवोसोद्यमः, अन्ताराष्ट्रियसंस्थाः स्विट्झर्ल्याण्ड्देशस्य प्रमुखोद्यमाः सन्ति । अत्यन्तं अधिकतया निर्यातः नाम-
- १ रासायनिकपदार्थाः ( ३४%)
- २ यन्त्राणि/विद्युन्मान-उपकरणानि (२०.९%)
- ३ निष्कृष्ट-मापन-उपकरणानि / हस्तघटीयन्त्राणि (१६.९%)
निर्यातसेवाः निर्यातस्य १/३ भागमितं विनिमयं प्राप्नुवन्ति । स्विट्झर्ल्याण्ड्देशे ३.८ दशलक्षजनाः कार्यं कुर्वन्ति । अत्र निरुद्योगसमस्या अत्यन्तं न्यूना ।, निरुद्योग प्रमाणं तावत् २००० तमे वर्षे जूनमासे १.७ प्रतिशतम् आसीत् । २००४ तमे वर्षे सप्टेम्बर् मासे ३.९% अभूत् । विदेशिनागरिकाणां संख्या २००४ तमे वर्षे २२.७% आसीत् । कार्यनिरतप्रतिघण्टम् आयः २७.४४ डालर् आसीत् २००६ तमे वर्षे । स्विट्झर्ल्याण्ड्देशे स्वायत्तवलयस्य आर्थिकता विद्यते। पाश्चात्य मानदण्डस्यानुसारं न्यूनः करः विद्यते । आहत्य अभिवृद्धिशीलदेशेषु अत्यन्तं न्यूनः राजस्वसंग्रहः दृश्यते । उद्यमस्थापनं स्विट्झर्ल्याण्ड्देशे सुलभं सुकरं च । उद्यमस्थापने १७८ राष्ट्रेषु स्विट्झर्ल्याण्ड्देशस्य षोडशं स्थानम् । २००० तमे वर्षे आर्थिकसुधारणा नीतिरङ्गीकृता। ऎरोप्य् राष्ट्रसङ्घेन साकं सामरस्यं समासाधितम् । केवलं ३७ प्रतिशतं जनाः अत्र स्वकीयं गृहं प्राप्तवन्तः । युरोपराष्ट्रेषु एषा अत्यन्तं न्यूनसंख्या इति गमनीयो अंशः । उदारीकरणम् इ.यु राष्ट्रानुगुणं न्यूनम् । तथापि देशीयविक्रयणसामर्थ्यं विश्वे अत्युत्तमम् । स्विट्झर्ल्याण्ड्देशः ऎरोप्यमुक्तवाणिज्यसङ्घस्य (इ.एफ्,टि,ए) सदस्यराष्ट्रम् अस्ति।
शिक्षणं, विज्ञानं तन्त्रज्ञानञ्च
कतिचन प्रमुखाः स्विस् विज्ञानिनः एते सन्ति- लियोनार्ड् यूलर् (गणितम्) लूयिस् अगस्सिस् (हिमनदी शास्त्रे) अल्बर्ट ऐन्स्टायिन् (भौतशास्त्रे ), अगस्टे पिक्कार्ड् (वायुयानविज्ञाने ) च । स्विट्झर्ल्याण्ड्देशस्य संविधाने शालाशिक्षणव्यवस्था राज्यानाम् अधीनम् इति उक्तत्वात् वैविध्यमयं शिक्षणव्यवस्था अत्र दृश्यते । अत्र अनेकाः स्वायत्त- अन्ताराष्ट्रियशालाः, तथा सार्वजनिकशालाः अपि विद्यन्ते । २०,००० सहस्र जनाः १८ तः २२सप्राहान् यावत् वार्षिकसेनाप्राथमिकप्रशिक्षणे भागं वहन्त्ति । ‘सेनाXXI’ इति सेनासुधारणानियमानुसारम् आहत्य सैनिककर्मकराणां संख्या ४,००,००० तः २०,०००,०० जाता अस्ति । तेषु २,२००,०० जनाः सक्रियसेनाकार्यम् निर्वहन्ति । अन्ये सर्वे आरक्षितसेनाकर्मकराः इति परिगण्यते ।
सेनायां MOWAG ईगल् शस्त्रयुक्तवाहनानि
स्विट्झर्ल्याण्ड्देशस्य अखण्डताम् अलिप्रतां च रक्षयितुं एतावता समग्रतया त्रीणि शस्त्रसहितकार्याचरणानि विहितानि ।
- १ १८७० तमवर्षतः १८७१ तमवर्षपर्यन्तं ‘फ्रङ्कोप्रष्यन्’ युध्दसन्दर्भे प्रथमं कार्याचरणम् ।
- २ १९१४ तमवर्षस्य अगष्टमासे प्रथमविश्वसमरस्य प्रतिक्रयारुपेण द्वितीयं कार्याचरणम् ।
- ३ १९३९तमवर्षस्य सप्टेम्बरमासे आरब्धं तृतीयकार्याचरणम् तावत् जर्मनीदेशेन पोलेण्ड् उपरि कृतस्य आक्रमणस्य प्रत्याक्रमणमासीत् । तदा हेन्री ग्यूसेन सेनामुख्यस्थः आसीत् ।
अलिप्तनीतेः कारणात् अस्य देशस्य सेना, विदेशीयसेनाकार्ये भागं न वहति । तथापि कदाचित् शान्तिपालनानियोगेषु भागं स्वीकरोति । २००० तमवर्षात् सर्वे स्विस् रक्षणाविभागाः कृतक-उपग्रहाण्णाम् ‘ओनिकस्’ गुप्तचर- विवरणव्यवस्थाम् आप्नोति । शीतलसमरस्य अन्तिमेभागे सैनिक कार्याचरणम् त्यक्तुम् अथवा समग्रसेनासमूहमेव निषेधयितुं प्रयत्नाः आरब्धाः । अस्मिन् विषये १९८९तमे वर्षे नवेम्बर मासे २६ दिनाङ्के कृते जनाभिप्रायसङ्ग्रहणे एषः प्रयत्नः विफलः जातः । तथापि जनानां अभिप्रायः अस्मिन् विषये सकारात्मकः एव आसीत् । किन्तु पुनः ९/११प्रकरणे (अमेरिकादेशे विमानसङ्घट्टनेन यत् भवनद्वयं पातितं तत्) जनाभिप्राय- सङ्ग्रहणे ७७% जनाः पुनः सेनासमूहस्य निषेधविचारम् अधिकृत्य विरुध्दाभिप्रायं प्रकटितवन्तः ।
भूगोलः
आल्फस् पर्वतश्रोण्याम् उत्तरदक्षिणदिग्भागे विस्तृतः स्विट्झर्ल्याण्ड्देशः केवलं ४१,२८५ च कि.मी.(१५९४० च. मैल्) सीमितव्याप्रौ वैविध्यमयं विशालदृश्यं तथा हितकरं वातावरणम् आप्नोति । सर्वसामान्यजनसान्द्रता प्रति च कि.मी कृते २४० यावत् भवति । एतेन प्रमाणेन आहत्य ७.६ मिलियन् जनाः भवन्ति । राष्ट्रस्य दक्षिणे भागे जनसम्मर्दः तथा नास्ति । उत्तरभागे तथा दक्षिणस्य अन्तिमभागे अधिकजनसम्मर्दः वर्तते । अस्य प्रमुखं कारणं तावत् अत्र भागशः अरण्ययुक्तप्रदेशेन साकम् बृहत सरोवराणि सन्ति एवं आरोग्यकारकः पर्वत- प्रदेशाः सन्ति । स्विट्झर्ल्याण्ड्देशः त्रिविधमूलभूतलक्षणैर्युक्तः अस्ति ।
- दक्षिणे स्विस् आल्फस्.
- मध्ये स्विस् पीठभूमिः अथवा ‘मध्यभूमिः ।
- उत्तरे ज्यूरा पर्वताः च
आल्फस् पर्वताः राष्ट्रस्य ६०% विस्तीर्णम् अवाप्य राष्ट्रस्य दक्षिणार्धपर्यन्तं विस्तृताः सन्ति । स्विस् आल्फस् पर्वतश्रेण्यां उन्नतशिखरेषु, ४६३४ मीटर् औन्नत्यवान् (१५२०३पादमितः) डुपोर्स्विट्स् अत्यन्तम् उन्नतम्। पर्वतः एषः अनेकैः जलपातैः हिमनदीभिः असङ्ख्याकैः खातैः च युक्तः अस्ति । ऎरोप्यनदीषु प्रमुखाः टैन्, टोन्, इन्, आटे टिकिनो नद्यः इतः एव उद्भूय अन्ते जिनीवासरोवरं(लाकलेमन्) ज्य़ूरिच् सरोवरं, न्यूयटेल् सरोवरं, तथा कानस्टान्स् सरोवरं वा प्राप्नुवन्ति । अत्यन्तम् प्रसिध्दः पर्वतः तावत् वलायिस् प्रान्ते स्थितः ग्याट्टरहार्न (४४७८ मी), इटलीसीमायां स्थितः पेन्नैन् आल्फस् च ।इतोपि उन्नताः पर्वताः अस्मिन् प्रदेशे सन्ति । ते तु डुपोरस्पिरस् (४६३४मी) डाम् (४५४५ मी) वेयिसहार्न्(४५०६ मी) च । आल्फस् भागे ७२ जलपाताः सन्ति । जुङ्गफ्राव् (४१५८ मी) ऎगर्, सदृशाः चित्रोपमाः अनेके खाताः अत्र प्रसिध्दाः सन्ति । आग्नेयदिशि प्रसिध्दः एङ्गाडिन् खातः अस्ति । बर्निना आल्फस् पर्वतस्य अत्युन्नत शिखरं तावत् पिजबर्निना (४०४९ मी.) . राष्ट्रस्य सम्पूर्णे विस्तीर्णे ३० प्रतिशतं यावत् विस्तृते राष्ट्रस्य उत्तरभागे अधिकजनसम्मर्दः विद्यते । मध्यभूमिः इति तस्य नाम । एषा उन्नतैः मुक्तैः , विशालदृश्यैः च मनोहारिणी अस्ति। । प्रदेशः एषः भागशः अरण्ययुक्तः , मुक्तशाद्वलयुक्तः, शाकफलोत्पादकः सन् पर्वतमयः अस्ति । अनेकानि बृहत् सरोवराणि अत्रैव सन्ति । स्विस् देशस्य अत्यन्त बृहत् नगराणि अस्मिन् भागे एव सन्ति । स्विट्झर्ल्याण्ड्देशस्य पश्चिमे स्थितं जिनीवा (लाक् लेमन् इति फ्रेञ्चभाषया) सरोवरमं बृहत् सरोवरं विद्यते । टोन् नदी जिनीवासरोवरस्य मुख्या उपनदी वर्तते ।
वातावरणम्
स्विस् वातावरणम् साधारणतया समशीतोष्णवातावरणम् । पर्वतस्य अग्रभागेषु अत्यधिकं शैत्यं, दक्षिणाग्रभागे आह्लादकरवातावरणं विद्यते । तथापि मध्ये वैविध्यम् अस्ति एव । ग्रीष्मकाले वातावरणं हितकरं भवति । ग्रीष्मकालः हितोष्णायुक्तः आर्द्रतायुक्तः भवति इत्यतः तदा तदा वर्षा भवति । अतः अत्र प्रशस्तानि शाद्वलानि भवन्ति । पर्वतप्रदेशे शैत्यकाले सूर्यस्य हिमवर्षीयाणां मध्ये च स्थित्यन्तरं भवति । निम्नप्रदेशः मेघैः अथवा तुषारैः आवृतः भवति । इटलीप्रदेशस्य आल्फस् पर्वतश्रेण्याः उपरिष्टात् ‘फान्’ इति किञ्चन प्रसिद्धं हितकरम् उष्णसहितं वातावरणम् वर्षस्य सर्वकाले वर्षाकालेऽपि सम्भवति । वलायिस् दक्षिणखातप्रदेशे शुष्कवातावरणं भवति । अत्र केसरवरं मद्यनिर्माणे उपयुज्ज्यमानानि द्राक्षाफलानि च वर्धन्ते। ग्रावुबण्डेन् प्रदेशेऽपि शुष्क- वातावरणं विद्यते। शैत्यकाले अधिकः हिमपातः भवति । आल्फस् पर्वतप्रदेशे आर्द्रपरिस्थितिः भवति । टिकिनो क्याण्टन् मध्ये आतपः भवति । तथापि तदा तदा बहुवर्षा अपि भवति । स्विट्झर्ल्याण्ड्देशस्य पूर्वभागस्यापेक्षया पश्चिमभागे अधिकं शैत्यं भवति तथापि पर्वतस्य उन्नतस्थानेषु वर्षस्य सर्वकाले अपि शीतं वातावरणम् अनुभवितुं शक्यते । हिमपातः वर्षस्य सर्वकाले समानरूपेण भवति । परन्तु ऋतुमवलम्ब्य किञ्चित् भेदः भवति । शरत्काले सामान्यतया अतिशैत्यं भवति । तथापि स्विट्झर्ल्याण्ड्देशस्य वातावरणं प्रतिवर्षं व्यत्यस्तं भवति । अतः पूर्वसूचनादानं कष्टकरम् । स्विट्झर्ल्याण्ड्देशः अतिसूक्ष्मपरिसरे अस्ति । उन्नतपर्वतप्रदेशात् पृथक्भूताः अनेके सूक्ष्मखाताः अत्र सन्ति । एते एव अतिसूक्ष्मपरिसरस्य कारणीभूताः । पर्वतप्रदेशः अपि सूक्ष्मपरिसरम् आप्नोति एव । उन्नतप्रदेशाः एते विपुलैः सस्यप्रभेदैः युक्ताः सन्ति। एते प्रदेशाः सन्दर्शकैः प्राणिभिः च कष्टमनुभवन्ति च । इदानीं गृहे एव पशुनां पालनपोषणं भवति इत्यतः अरण्यनाशः न भवति । अतः स्विट्झर्ल्याण्ड्देशस्य पर्वतप्रदेशस्य विम्नभागाः २००० (पाद) मी.तः ऊर्ध्वमपि सस्यप्रमेदैः व्यापृताः सन्ति ।
शिक्षणम्
प्राथमिकशिक्षणाय कनिष्ठः आयुः षट् वर्षाणि इति निर्धारितम् अस्ति । प्राथमिकशिक्षणं पञ्चमकक्षापर्यन्तं भवति । साम्प्रदायिकशालासु २००० तमे वर्षे आंग्लभाषा एऐदम्प्राथम्येन विदेशिभाषारुपेण परिचायिता । माध्यमिक- शिक्षणस्य आरभ्भे छात्राणां सामर्थ्यानुसारं त्रिषु विभागेषु छात्राः विभक्ताः भवन्ति । बुध्दिमन्ताः छात्राः उन्नत- प्रशिक्षणं प्राप्य उन्नतशिक्षणाय ‘मतुरा’ र्थ सन्नध्दः भवन्ति । अन्ये स्वयोग्यतानुसारं शिक्षणं लभन्ते । ज्य़ूरिचमध्ये स्थापितं ETH ‘झेन्त्रम्’ क्यांपस् स्विट्झर्ल्याण्ड्देशे एव प्रतिष्ठितः विश्वविद्यालयः अस्ति । अत्र अल्बर्ट् ऎनस्टैन् विद्याभ्यासं कृतवान् आसीत् । स्विट्झर्ल्याण्ड्देशे १२ विश्व विद्यालयाः सन्ति । तेषु दश विद्यालयेषु सामान्यतया अतान्त्रिकविषयान् एव बोधयन्ति । ज्य़ूरिच् विश्वविद्यालये २५,००० छात्राः सन्ति । केन्द्र सर्वकारेणस्थापितौ विद्यालयौ तावत् ज्यूरिच् मध्ये स्थापितः इ.टि.एच्. झड् विश्वविद्यालयः तथा लासन्ने नगरस्य इ.पि.एफ.एल् विश्वविद्यालयः । एतौ अन्ताराष्ट्रिय ख्यातेः विश्वविद्यालयौ। एतद् विहाय अत्र अनेके अन्वयिक विज्ञानविशविद्यालयाः अपि सन्ति । पदवीपूर्वस्य, तथा अनन्तरतनशिक्षणे विदेशिछात्राणां संख्यासु आष्ट्रेलियादेशस्य अनन्तरतनं तन्नाम द्वितीयम् अत्युन्नतस्थानं स्वीकरोति स्विट्झर्ल्याण्ड्देशः । विश्वविख्यातः भौतशास्त्रस्य विज्ञानी आल्बर्ट् ऎनष्टैनस्य सापेक्षतासिध्दान्तस्य कृते प्रदत्तं नोबेल् पुरस्कारम् अतिरिच्य अनेके नोबेल् पुरस्काराः स्विस् विज्ञानिभिः स्वीकृताः सन्ति । तेषु व्लाडिमिर प्रिलाग् हेनरिक् आर्नैष्ट, रिचर्ड, आर्नेष्ट, एडमण्ड फिशर, राल्फ जिंकर न्यागेल् तथा कुर्ट वुत्रिच प्रमुखाः । आहत्य ११३ नोबेल् प्रशस्तिविजेतारः सन्ति । अत्रत्य काभिश्चित् संस्थाभिः अपि ९ वारं नोबेल-शान्तिपुरस्कारः प्राप्तः अस्ति ।
जिनीवा एल्, एच्.सि विश्वस्य बृहत् सुरङ्गमार्गः
अणुभौतशास्त्रस्य संशोधनार्थ विश्वस्य अतिबृहत् सुरङ्गप्रयोगालयः जिनीवानगरे स्थापितः सी.इ.आर्.एन् । विश्वविज्ञानिभिः सद्यः एव बिग् ब्याङ्ग् सिद्धान्तस्य यः प्रयोगः कृतः सः अत्र एव । तस्य फलितांसः अपि २०१२ तमवर्षस्य जुलै चतुर्थदिनाङ्के घोषितः। तत्र हिग्स् बोसोन् नानकस्य देवकणस्य अस्तित्वं तैः अभिलक्ष्य अधिकृता घोषणा अपि प्रकटिता । तादृशम् अन्यत् प्रमुखं सांशोधनाकेन्द्रमस्ति पालषेरर संस्था । एतयोः प्रमुखः आविष्कारः नाम सागरस्य अन्तर्भागं गन्तुम् ब्याथिस्केप् तन्त्रज्ञानम् । नूतन लोकस्यैव परिचयः अनेन तन्त्रज्ञानेन अभवत् । स्विट्झर्ल्याण्ड्देशस्य बाह्याकाशप्रयोगालयः नामिका बाह्याकाशसंस्था अनेकेषु बाह्याकाशतन्त्रज्ञानकार्यक्रमेषु भागम् ऊढवती अस्ति ।
मूलभूतसौकर्यव्यवस्था पर्यावरणं च
गसजेन् परमाणुशक्तिस्थावरं स्विट्झर्ल्याण्ड्देशस्य चत्वारि स्थावरेषु अन्यतमम् । स्विट्झर्ल्याण्ड्देशः ५६% जलविद्युतशक्तिं, ३९% परमाणुविद्युत् शक्तिं, ५% साम्प्रदायिकशक्तिं विद्युत् उत्पादने स्विकरोति । अतः एतत् CO2 मुक्तविद्युतशक्ति-उत्पादनाजालम् अभूत । इन्धनोपयोगी सम्बन्धित सर्वविषयेषु दि स्विस् फेडरल् आफीस आफ् एनर्जी (एस्.एक्.ओ.ई) नियोगस्य दायित्वमस्ति । नियोगः एषः २०५० तमवर्षात् पूर्वम् इन्धनस्य उपयोगः इदानीन्तनस्य उपयोगस्य अर्धभागः भवेत् इति उद्देशेन २०००व्याट्समुदाययोजनां पुरस्करोति । लाट्स्बर्गरैलमार्गस्य अधः विद्यमानः नूतनः लाट्स्बर्गरैलमार्गः विश्वे एव अत्यन्तं दीर्घः तृतीयः रैलसुरङ्गमार्गः अस्ति ।एतत् क्यारस्बर्ग मूलसुरङ्गमार्गस्य तथा आल्फस् ट्रान्सिट् योजनायाः प्रवेशद्वारम् अस्ति । राष्ट्रियमार्गस्य उपयोगार्थं ४० स्विस् प्रांक् दत्वा ‘विग्नट्टे’ (राजस्व चीटिकाः ) क्रयणं करणीयं भवति । राष्ट्रिय -मार्गः १६३८ दीर्घः अस्ति । विस्तीर्णं तावत् ४१२९० कि.मी वर्तते । ज्यूरिचविमानस्थानकम् बृहत् अन्ताराष्ट्रियविमानस्थानकम्। २००७ तमे वर्षे २०. ८७ दशलक्षजनाः अत्र यात्रां कृतवन्तः । युरोविमानस्थानकं तथा बसेल् –म्यूल हौस् –पैरबर्ग क्रमशः द्वितीयं तृतीयं विमानस्थानकं भवतः । स्विट्झर्ल्याण्ड्देशस्य रैलमार्गः ५०६३ कि.मी दीर्घः अस्ति । प्रतिवर्षम् अत्र ३५० दशलक्षजनाः प्रयाणं कुर्वन्ति । स्विट्झर्ल्याण्ड्देशेन त्याज्यसंस्करणस्य तथा तस्य पुनर्विनियोगस्य च विषये नियमाः कृताः सन्ति । अस्मिन् विषये सक्रियः अयम् सर्वकारः ६६% तः ९६% यावत् वस्तूनि संस्कृत्य तेषां पुनरुपयोगे सफलह् अस्ति । केषुचित् राज्येषु गृहत्याज्यवस्तूनां निर्वहणे धनं देयं भवति । धनं दत्वा स्यूतः स्वीकरणीयः । तत्रैव त्याज्याः सङ्गृह्यन्ते । नो चेत् २०० तः ५०० सि.एच्.एफ् पर्यन्तम् दण्डः विधीयते ।
जनगणना
विदेशीनागरिकाणां तथा तात्कालिकविदेशीकार्मिकाणां जनसंख्या २२% अस्ति ।एते ऎराप्यदेशात् ६०% आगताः सन्ति । इटलीदेशस्य १७.३% जर्मनीदेशीयाः १३.२% , सैबीरिया एवं माण्टेनिग्रोतः ११.५% पोर्चुगालतः ११.३% जनाः अत्र आगताः सन्ति । श्रीलङ्कादेशात् तमिळुसन्त्रस्थाः अपि अत्र दृश्यन्ते ।
स्विट्झर्ल्याण्ड्देशस्य अधिकृतभाषाः
अनेकाः युरोपीयसंस्कृतयः स्विट्झर्ल्याण्ड्देशस्य उपरि, अत्रत्यभाषायाः उपरि प्रभावम् अकुर्वन् । स्विट्झर्ल्याण्ड्देशे चतस्रः अधिकृतभाषाः सन्ति । ताः तु जर्मन् (६३.७%) उत्तरे पूर्वे एवं मध्यभागे, पश्चिमे फ्रेञ्चभाषिणः (२० तः २१%) दक्षिणे इटालियन् भाषिणः (६.५% तः ४.३% ) सन्ति । रोमांश् तथा रोमन् भाषा अल्पसंख्याकानां स्थानीयभाषारूपेण क्रमशः ५%, ६% च अस्ति । संयुक्तराष्ट्रियशासनानुसारं जर्मन्,फ्रेञ्च , इटालियन् रोमांशभाषा च अधिकृतभाषाः भवितुमर्हति । राष्ट्रियभाषया साकम् इतरराष्ट्रिय- भाषासु एका भाषा अनिवार्यतया शालासु अध्येतव्या भवति ।
आरोग्यम्
२००६ तमवर्षस्य समीक्षानुसारं जीतितावधिः पुरुषाणां ७९ वर्षाणि, स्त्रीणां ८४ वर्षाणि । प्रपञ्चे एव एतत् अधिकं इति ज्ञायते । स्विस्प्रजाः अनिवार्यरूपेण सार्वत्रिक- आरोग्ययोगक्षेमाधीनाः भवन्ति । अनेन ते अनेकविध -आधुनिकवेद्यकीयसेवां प्राप्तुं शक्नुवन्ति । अत्रत्याम् आरोग्यसेवाव्यवस्थां सेवाकांक्षिणः बहुधा श्लाघन्ते ।
नगरीकरणम्
राष्ट्रेस्मिन् ७५% जनाः नगरे बिवसन्ति । ७० वर्षेषु एव स्विट्झर्ल्याण्ड्देशस्य ग्रामाः नगरीकृताः । २००० वर्षेषु भूप्रदेशे यानि परिवर्तनानि जातानि तदपेक्षया अधिकानि परिवर्तनानि १९३५ तमवर्षात् नगरीकरणेन जातानि सन्ति । स्विट्झर्ल्याण्ड्देशस्य नगरजनसम्मर्दः अधिकः दृश्यते । जनसम्मर्दः प्रतिकि.मी. कृते ४५० वर्तते । अत्यधिक- जनसम्मर्दयुक्तानि मेट्रोपोल्नगराणि क्रमशः ज्यूरिच् , जिनीवा लासन्ने, बसल् एवं बर्न । ज्यूरिच् एवं जिनीवा नागरिकाणाम् उन्नतजीवनस्तरः शैली च विश्वे एव प्रसिध्दः वर्तते ।
मतधर्मः
स्विट्झर्ल्याण्ड्देशे क्रैस्तमतं प्रधानं मतम् । क्याथोलिक् (४२.८%) तथा प्रोटेस्टेण्ट(३५.३%) इति जनाः द्विधा विभक्ताः सन्ति । निर्वासिताः इल्साम् मतानुयायिनः (४.३%) सन्ति । तेषु प्रधानतया कसोवर्स् तथा तुर्काः सन्ति । तथैव पूर्वदेशीयाः अल्पसङ्ख्याकाः सम्प्रदायवादिनः (१.८%) मतानुयायिनः दृश्यन्ते । २००५ युरोबाटोमीटर् समीक्षणानुसारं ४८% आस्तिकाः, ३९% जनाः आत्मा, प्रेरणाशक्तिः इत्यादिषु विश्वासवन्तः सन्ति । ९% नास्तिकाः, ४% जनाः अज्ञेयवादिनः सन्ति ।
साहित्यम्
जीन्- जाक्वेस् रवस्साव् नामकः न केवलं लेखकः अपि तु १८ तमशतकस्य प्रमुखः तत्वज्ञानी अपि आसीत् । साहित्यप्रकारस्य प्राचीनरुपाणि जर्मन् भाषायां सन्ति । स्विस् जर्मन् साहित्य क्षेत्रे अत्यन्तं प्रसिद्धौ जरेमियास् गथेल्स् (१७१७ तः १८५४ ) तथा गाटफ्रेड् केल्लर- (१८१९ तः १८९०) । २० तमशतकस्य स्विस् साहित्ये उत्कृष्टकृतयः नाम म्याक्स् फ्रिष्, (१९११-९१)तथा फ्रेड्रिक् ड्युरेनम्यार् (१९२१ तः ९०) इत्येतयोः कृती ‘दैफिसिकेर’ (दिफिसिसिस्स्) तथा दास् वर्सप्रचेन् (द प्लेडज्) । एते कृती २००१ तमे वर्षे हालिवुड् चलनचित्रे जाते । प्रसिध्दफ्रेञ्चसाहित्यकाराः नाम जीन्- जाक्वेस् रवस्साव् (१७२२-१७७८) तथा जर्मैने डि स्टील् (१७६६-१८१७) । अर्वाचीनलेखकेषु चार्ल्स् फर्डिनाण्ड रामुज् (१८७८ तः १९४७), ब्लेस् सेंड्रार्स् (पूर्वं फ्रेड्रिक् सासर् १८८७ -१९६१) प्रसिद्धौ स्तः । इटालियन् रोमांशभाषिकानाम् अपि अस्मिन् विषये योगदानं दृश्यते । तथापि एतेषां सङ्ख्या अल्पा एव । स्विस्भाषायाः सुप्रसिद्धा सहित्यकृतिः नाम ‘हैडी’ (बाल कृतिः) बालानां कृते रचितमिदम् । तस्य रचयित्री जोहान् स्वैरीव (१८२७-१९०१) महाभागा ।
माध्यमः
स्विट्झर्ल्याण्ड्देशेन पत्रिकास्वातन्त्र्यं , मुक्त-अभिव्यक्ति स्वातन्त्र्यं च प्रदत्तम् अस्ति । स्विस्राष्ट्रियवार्ता, तिसृषुराष्ट्रिय- भाषासु, राजकीय-आर्थिक- सामाजिक- सांस्कृतिक- विषयसम्बन्धिविवरणम् दिनस्य सर्वसमयेषु प्रसारयन्ति । बहुप्रसिद्धा पत्रिका तावत्, जर्मन्भाषापव्रिका तजस् अन्विजर तथा न्य़ूये ज्युचेर् ग्लैटुङ्ग् (एन्, झेड् झेड्) फ्रेञ्चभाषया प्रकाश्यमाना लि टेंप्स् । स्थानीयवार्तापव्रिकाः सर्व नगरेषु सन्त्येव । सांस्कृतिकवैविध्यता बहुसांख्यिकपव्रिकायाः प्रसारणे कारणम् । स्विस् प्रसरणा संस्था रे बानुली एवं दूरदर्शनस्य कार्यक्रम निर्माणम् एवं प्रसारं निर्वहति । व्यापक तन्तुवाहक(केबल्) जालस्थसवृतात् स्विस् जनाः अन्यराष्ट्रस्य (राज्यस्य) कार्यक्रममपि वीक्षितुं समर्थाः भवन्ति ।
क्रीडा
(स्कीयिंङ्) हिमक्रीडां पर्वतारोहणं च स्विस् जनाः तथा विदेशीयाः अपि बहु इच्छन्ति । उन्नतशिखराणि पर्वतारोहिणः विश्वस्य सर्वदेशेभ्यः आकर्षयन्ति । ‘हाट्रुट्’ अथवा पट्रौलिडेस् हिमनद्यां प्रयलिष्यमाणा हिमक्रीडास्पर्धा अन्ताराष्ट्रियप्रख्यातिं तनुते । स्विस् जनाः पादकन्दुकक्रीडामपि(फुट्बाल्) बहु इच्छन्ति । रोजर् फेडरर् टेन्निस् (उत्पीठिका कन्दुकक्रीडा) क्रिडायाम् अत्यद्भुतं साधनं कृतवान् अस्ति ।
पुरातनमल्लयुध्दम्
पुरातनक्रीडास्यर्धासु मल्लयुध्दम् (अथवा श्विन् जेन्) अपि अन्यतमम् । पुरातनसाम्प्रदायिका कीडा एषा राष्ट्रियक्रीडा इत्यपि परिगणिता वर्तते । भारकन्दुकक्षेपणक्रीडा अपि अत्र जनप्रिया वर्तते । ८३.५ भारभूतस्य शिलायाः ‘उन् स्पन्नेन् स्टेन्’ इति कथयन्ति ।
आहारः
स्विट्झर्ल्याण्ड्देशः बहुपाकपध्दतिम् अनुसरति । भक्ष्याः तावत् ‘फण्ड्यु’ राक्लेट्टे अथवा रोस्टी देशे सर्वत्र लभ्यन्ते । अनेकेषु प्रदेशेषु स्थानीय भोजनकलानुसारं वैविध्यं दृश्यते । साम्प्रदायिक-आहारपध्दत्यां क्षीरोत्पनानि, नवनीतसदृशं ‘ग्रूयरे’ अथवा एमेण्टल् अधिकतया उपयुज्ज्यते । स्विट्झर्ल्याण्ड्देशे चाकलेहाः बहुजनैः इष्टं खाद्यम् । स्विस्देशे वैन् मुख्यतया जिनीवानगरे, टिकिनोनगरे च उत्पादयन्ति ।द्राक्षाक्षेत्राणि स्विट्झर्ल्याण्ड्देशे रोमकालात् अपि सन्त्येव। सुप्रसिध्दमद्यविधाः तावत् ‘चास्सेलास्’ , पिनोट् नायिर्’ च । टिकिनोमध्ये उत्पाद्यमानम् ‘मर्लोट्’ अपि प्रमुखं मद्यम् अस्ति ।
संबद्घाः विषया:
External links
- The Federal Authorities
- The Swiss Parliament
- Federal Supreme Court - (in German, French and Italian)
- Swiss Statistics - statistics from the Swiss Federal Statistical Office
- Culturelinks.ch - a portal giving access to Swiss culture websites
- Swissworld - an encyclopedic presentation of the country by the Swiss Confederation
- About.ch - another presentation of the country
- Historical Dictionary of Switzerland - (in German, French and Italian)
- Switzerland's news and information platform - maintained by the public Swiss Broadcasting Corporation (in 9 languages)
- Spatial Planning in Switzerland Website of Swiss Federal Office for Spatial Development (land-use planning, transportation, sustainable development)